अग्निपुराणम्
चतुर्दशोऽध्यायः
भारताख्याने कुरुपाण्डवसङ्ग्रामवर्णनम् -
अग्निरुवाच -
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।
भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति ॥ १ ॥
पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः ।
शरीराणि विनाशीनि न शरीरी विनश्यति ॥ २ ॥
अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् ।
सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय ॥ ३ ॥
कृष्णोक्तोथार्जुनोऽयुध्यद् रथस्थो वाद्यशब्दवान् ।
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥ ४ ॥
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
धार्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥ ५ ॥
धार्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे ।
देवासुरसमं युद्धं कुरुपाण्दवसेनयोः ॥ ६ ॥
बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनम् ।
भीष्मोऽस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥ ७ ॥
दशमे ह्यर्जुनो बाणैः भीष्मं वीरं ववर्ष ह ।
शिखण्डी द्रुपदोक्तोऽस्त्रैः ववर्ष जलदो यथा ॥ ८ ॥
हस्त्यश्वरथपादातं अन्योन्यास्त्रनिपातितम् ।
भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥ ९ ॥
वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।
उत्तरायणमीक्षंश्च ध्यायन् विष्णुं स्तवन् स्थितः ॥ १० ॥
दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभूत् ।
पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः ॥ ११ ॥
तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।
विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥ १२ ॥
दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥ १३ ॥
हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।
धृष्टद्युम्नशराक्रान्तः पतितः सः महीतले ॥ १४ ॥
पञ्चमेऽहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च ।
दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥ १५ ॥
अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् ॥ १६ ॥
कर्णार्जुनाख्ये सङ्ग्रामे कर्णोऽरीनवधीच्छरैः ।
द्वितीयेऽहनि कर्णस्तु अर्जुनेन निपातितः ॥ १७ ॥
शल्यो दिनार्धं युयुधे ह्यवधीत्तं युधिष्ठिरः ।
युयुधे भीमसेनेन हतसैन्यः सुयोधनः ॥ १८ ॥
बहून् हत्वा नरादींश्च भीमसेनमथाब्रवीत् ।
गदया प्रहरन्तं तु भीमस्तं तु व्यपातयत् ॥ १९ ॥
गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि ।
रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥ २० ॥
अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।
द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सोऽवधीत् ॥ २१ ॥
पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥ २२ ॥
अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः ।
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥ २३ ॥
कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥ २४ ॥
स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥ २५ ॥
भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश्च शान्तिदान् ।
राजधर्मान् मोक्षधर्मान् दानधर्मान् नृपोऽभवत् ॥ २६ ॥
अश्वमेधे ददौ दानं ब्राह्मणेभ्योऽरिमर्दनः ।
श्रुत्वार्जुनान्मौषलेयं यादवानाञ्च सङ्क्षयम् ।
राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् ॥ २७ ॥
इति आदिमहापुराणे आग्नेये
महाभारताख्यानं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
GO TOP
|