श्रीमद्‌भागवत महापुराण

एकादशः स्कंधः - षष्ठोऽध्यायः

श्रीकृष्णोद्धवसंवाद आरंभ -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
अथ ब्रह्माऽऽत्मजर्देवैः प्रजेशैरावृतोऽभ्यगात् ।
भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ १ ॥
इन्द्रो मरुद्‌भिर्भगवानादित्या वसवोऽश्विनौ ।
ऋभवोऽङ्‌गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥ २ ॥
गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥ ३ ॥
द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः ।
वपुषा येन भगवान् नरलोकमनोरमः ।
यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ ४ ॥
तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः ।
व्यचक्षतावितृप्ताक्षाः कृष्णमद्‍भुतदर्शनम् ॥ ५ ॥
स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो यदूत्तमम् ।
गीर्भिश्चित्रपदार्थाभिर्तुष्टुवुर्जगदीश्वरम् ॥ ६ ॥
देवा ऊचुः -
( मिश्र )
नताः स्म ते नाथ पदारविन्दं
     बुद्धीन्द्रियप्राणमनोवचोभिः ।
यच्चिन्त्यतेऽन्तहृदि भावयुक्तै-
     र्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ ७ ॥
( वसंततिलका )
त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं
     व्यक्तं सृजस्यवसि लुम्पसि तद्‌गुणस्थः ।
नैतैर्भवानजित कर्मभिरज्यते वै
     यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८ ॥
शुद्धिर्नृणां न तु तथेड्य दुराशयानां
     विद्याश्रुताध्ययनदानतपःक्रियाभिः ।
सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-
     सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९ ॥
स्यान्नस्तवाङ्‌घ्रिरशुभाशयधूमकेतुः
     क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ।
यः सात्वतैः समविभूतय आत्मवद्‌भि-
     र्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥ १० ॥
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ
     त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ।
अध्यात्मयोग उत योगिभिरात्ममायां
     जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११ ॥
पर्युष्टया तव विभो वनमालयेयं
     संस्पर्धिनी भगवती प्रतिपत्‍नीवच्छ्रीः ।
यः सुप्रणीतममुयार्हणमाददन्नो
     भूयात् सदाङ्‌घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥
केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको
     यस्ते भयाभयकरोऽसुरदेवचम्वोः ।
स्वर्गाय साधुषु खलेष्वितराय भूमन्
     पादः पुनातु भगवन् भजतामघं नः ॥ १३ ॥
नस्योतगाव इव यस्य वशे भवन्ति
     ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयोः परस्य
     शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥
अस्यासि हेतुरुदयस्थितिसंयमाना-
     मव्यक्तजीवमहतामपि कालमाहुः ।
सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः
     कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥
त्वत्तः पुमान् समधिगम्य यया स्ववीर्यं
     धत्ते महान्तमिव गर्भममोघवीर्यः ।
सोऽयं तयानुगत आत्मन आण्डकोशं
     हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥
तत्तस्थुषश्च जगतश्च भवानधीशो
     यन्माययोत्थगुणविक्रिययोपनीतान् ।
अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो
     येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥ १७ ॥
स्मायावलोकलवदर्शितभावहारि-
     भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्‍न्यस्तु षोडशसहस्रमनङ्‌गबाणै-
     र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः ॥ १८ ॥
विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः
     पादावनेजसरितः शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिरङ्‌घ्रिजमङ्‌गसङ्‌गै-
     स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९ ॥
बादरायणिरुवाच -
( अनुष्टुप् )
इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥ २० ॥
ब्रह्मोवाच -
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो ।
त्वमस्माभिरशेषात्मंस्तत्तथैवोपपादितम् ॥ २१ ॥
धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।
कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२ ॥
अवतीर्य यदोर्वंशे बिभ्रद् रूपमनुत्तमम् ।
कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः ॥ २३ ॥
यानि ते चरितानीश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥ २४ ॥
यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
नाधुना तेऽखिलाधार देवकार्यावशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६ ॥
ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकाँल्लोकपालान् नः पाहि वैकुण्ठकिङ्‌करान् ॥ २७ ॥
श्रीभगवानुवाच -
अवधारितमेतन्मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥ २८ ॥
तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः ॥ २९ ॥
यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।
गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्‌क्ष्यति ॥ ३० ॥
इदानीं नाश आरब्धः कुलस्य द्विजशापत: ।
यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥ ३१ ॥
शुक उवाच -
इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देवगणैर्देवः स्वधाम समपद्यत ॥ ३२ ॥
अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥ ३३ ॥
श्रीभगवानुवाच -
एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।
शापश्च नः कुलस्यासी‍द् ब्राह्मणेभ्यो दुरत्ययः ॥ ३४ ॥
न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः ।
प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ३५ ॥
यत्र स्नात्वा दक्षशापाद् गृहीतो यक्ष्मणोडुराट् ।
विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् ॥ ३६ ॥
वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् ।
भोजयित्वोशिजो विप्रान् नानागुणवतान्धसा ॥ ३७ ॥
तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामो दानैः नौभिरिवार्णवम् ॥ ३८ ॥
शुक उवाच -
एवं भगवताऽऽदिष्टा यादवाः कुलनन्दन ।
गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९ ॥
तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।
दृष्ट्‍वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥ ४० ॥
विविक्त उपसङ्‌गम्य जगतामीश्वरेश्वरम् ।
प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ॥ ४१ ॥
उद्धव उवाच -
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्रशापं समर्थोऽपि प्रत्यहन् न यदीश्वरः ॥ ४२ ॥
नाहं तवाङ्‌घ्रिकमलं क्षणार्धमपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ ४३ ॥
तव विक्रीडितं कृष्ण नृणां परममङ्‌गलम् ।
कर्णपीयूषमासाद्य त्यजत्यन्यस्पृहां जनाः ॥ ४४ ॥
शय्यासनाटनस्थानस्‍नानक्रीडाशनादिषु ।
कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥ ४५ ॥
त्वयोपभुक्तस्रग्गन्धवासोऽलङ्‌कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ४६ ॥
वातरशना य ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः संन्यासीनोऽमलाः ॥ ४७ ॥
वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।
त्वद्‍वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४८ ॥
स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च ।
गत्युत्स्मितेक्षणक्ष्वेलि यन्‍नृलोकविडम्बनम् ॥ ४९ ॥
शुक उवाच -
एवं विज्ञापितो राजन् भगवान् देवकीसुतः ।
एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥ ५० ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP