| 
 
श्रीमद्भागवत महापुराण   
 
एकादशः स्कंधः - सप्तदशोऽध्यायः  
 
वर्णधर्मनिरूपणम्, आश्रमेषु ब्रह्मचारी गृहस्थ धर्मवर्णं च -  
 [ Right click to 'save audio as' for downloading Audio ] 
उद्धव उवाच -( अनुष्टुप् )
 यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः ।
 वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
 यथा अनुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।
 स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि ॥ २ ॥
 पुरा किल महाबाहो धर्मं परमकं प्रभो ।
 यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥ ३ ॥
 स इदानीं सुमहता कालेनामित्रकर्शन ।
 न प्रायो भविता मर्त्यलोके प्रागनुशासितः ॥ ४ ॥
 वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।
 सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
 कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।
 त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥
 तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः ।
 यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥
 शुक उवाच -
 इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः ।
 प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥
 श्रीभगवानुवाच -
 धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।
 वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
 आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।
 कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
 वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।
 उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥
 त्रेतामुखे महाभाग प्राणान् मे हृदयात्त्रयी ।
 विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥
 विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः ।
 वैराजात् पुरुषाज्जाता य आत्माचारलक्षणाः ॥ १३ ॥
 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
 वक्षःस्थलाद् वने वासो न्यासः शिर्षणि संस्थितः ॥ १४ ॥
 वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः ।
 आसन् प्रकृतयो नॄणां नीचैर्नीचोत्तमोत्तमाः ॥ १५ ॥
 शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।
 मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।
 स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्रप्रकृतयस्त्विमाः ॥ १७ ॥
 आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् ।
 अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः ॥ १८ ॥
 शुश्रूषणं द्विजगवां देवानां चाप्यमायया ।
 तत्र लब्धेन संतोषः शूद्रप्रकृतयस्त्विमाः ॥ १९ ॥
 अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
 कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेवसायिनाम् ॥ २० ॥
 अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।
 भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
 द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।
 वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥
 मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् ।
 जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान् दधत् ॥ २३ ॥
 स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।
 न च्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४ ॥
 रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम् ।
 अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत् ॥ २५ ॥
 अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्छुचिः ।
 समाहित उपासीत सन्ध्ये च यतवाग् जपन् ॥ २६ ॥
 आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
 न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
 सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् ।
 यच्चान्यदप्युनुज्ञातमुपयुञ्जीत संयतः ॥ २८ ॥
 शुश्रूषमाण आचार्यं सदोपासीत नीचवत् ।
 यान शय्यासनस्थानैर्नातिदूरे कृताञ्जलिः ॥ २९ ॥
 एवंवृत्तो गुरुकुले वसेद् भोगविवर्जितः ।
 विद्या समाप्यते यावद् बिभ्रद् व्रतमखण्डितम् ॥ ३० ॥
 यदि असौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम् ।
 गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१ ॥
 अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् ।
 अपृथग्धीरुपसीत ब्रह्मवर्चस्व्यकल्मषः ॥ ३२ ॥
 स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् ।
 प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥ ३३ ॥
 शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम् ।
 तीर्थसेवा जपोऽस्पृश्याभक्ष्यासंभाष्यवर्जनम् ॥ ३४ ॥
 सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन ।
 मद्भवः सर्वभूतेषु मनोवाक्कायसंयमः ॥ ३५ ॥
 एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् ।
 मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥
 अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागमः ।
 गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥
 गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः ।
 आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत् ॥ ३८ ॥
 गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् ।
 यवीयसीं तु वयसा यां सवर्णामनु क्रमात् ॥ ३९ ॥
 इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् ।
 प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
 प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् ।
 अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥
 ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते ।
 कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
 ( इंद्रवज्रा )
 शिलोञ्छवृत्त्या परितुष्टचित्तो
 धर्मं महांतं विरजं जुषाणः ।
 मय्यर्पितात्मा गृह एव तिष्ठ-
 न्नातिप्रसक्तः समुपैति शान्तिम् ॥ ४३ ॥
 ( अनुष्टुप् )
 समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।
 तानुद्धरिष्ये न चिरादापद्भ्यो नौरिवार्णवात् ॥ ४४ ॥
 सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः ।
 आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
 एवंविधो नरपतिर्विमानेनार्कवर्चसा ।
 विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥ ४६ ॥
 सीदन् विप्रः वणिग्वृत्त्या पण्यैरेवापदं तरेत् ।
 खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
 वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययाऽऽपदि ।
 चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
 शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् ।
 कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
 वेदाध्यायस्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् ।
 देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥ ५० ॥
 यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।
 धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ ५१ ॥
 कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंब्यपि ।
 विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ ५२ ॥
 पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।
 अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
 इत्थं परिमृशन्मुक्तो गृहेष्वतिथिवद् वसन् ।
 न गृहैरनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४ ॥
 कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान् ।
 तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
 यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः ।
 स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥ ५६ ॥
 अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः ।
 अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥
 एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम् ।
 अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |