| 
 
श्रीमद्भागवत महापुराण   
 
एकादशः स्कंधः - पञ्चदशोऽध्यायः  
 
अष्टादशसिद्धिवर्णनम् -  
 [ Right click to 'save audio as' for downloading Audio ] 
श्रीभगवानुवाच -( अनुष्टुप् )
 जितेंद्रियस्य युक्तस्य जितश्वासस्य योगिनः ।
 मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥ १ ॥
 उद्धव उवाच -
 कया धारणया कास्वित् कथं वा सिद्धिरच्युत ।
 कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ २ ॥
 श्रीभगवानुवाच -
 सिद्धयो अष्टादश प्रोक्ता धारणा योगपारगैः ।
 तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ ३ ॥
 अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।
 प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमिशिता ॥ ४ ॥
 गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति ।
 एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ॥ ५ ॥
 अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।
 मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥
 स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।
 यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहतागतिः ॥ ७ ॥
 त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।
 अग्न्यर्काम्बुविषादीनां प्रतिष्टंभोऽपराजयः ॥ ८ ॥
 एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः ।
 यया धारणया या स्याद् यथा वा स्यान्निबोध मे ॥ ९ ॥
 भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः ।
 अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥
 महत्यात्मन्मयि परे यथासंस्थं मनो दधत् ।
 महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥ ११ ॥
 परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
 कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥ १२ ॥
 धारयन् मय्यहंतत्त्वे मनो वैकारिकेऽखिलम् ।
 सर्वेंद्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥
 महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् ।
 प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥
 विष्णौ त्र्यधीश्वरे चित्तं धारयेत् कालविग्रहे ।
 स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥ १५ ॥
 नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।
 मनो मय्यादधद् योगी मद्धर्मा वशितामियात् ॥ १६ ॥
 निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
 परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १७ ॥
 श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।
 धारयञ्छ्वेततां याति षडूर्मिरहितो नरः ॥ १८ ॥
 मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।
 तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥
 चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि ।
 मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥ २० ॥
 मनो मयि सुसंयोज्य देहं तदनु वायुना ।
 मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥
 यदा मन उपादाय यद् यद् रूपं बुभूषति ।
 तत्तद् भवेन्मनोरूपं मद्योगबलमाश्रयः ॥ २२ ॥
 परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
 पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥
 पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरः कण्ठमूर्धसु ।
 आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥ २४ ॥
 विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
 विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५ ॥
 यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्परः पुमान् ।
 मयि सत्ये मनो युञ्जंस्तथा तत् समुपाश्नुते ॥ २६ ॥
 यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।
 कुतश्चित् न विहन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥
 मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः ।
 तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८ ॥
 अग्न्यादिभिर्न हन्येत मुनेः योगमयं वपुः ।
 मद्योगश्रान्तचित्तस्य यादसामुदकं यथा ॥ २९ ॥
 मद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः ।
 ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥ ३० ॥
 उपासकस्य मामेवं योगधारणया मुनेः ।
 सिद्धयः पूर्वकथिता उपतिष्ठंत्यशेषतः ॥ ३१ ॥
 जितेंद्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।
 मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२ ॥
 अंतरायान् वदन्त्येता युञ्जतो योगमुत्तमम् ।
 मया संपद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥
 जन्मौषधितपोमन्त्रैः यावतीरिह सिद्धयः ।
 योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥ ३४ ॥
 सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः ।
 अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५ ॥
 अहमात्माऽऽन्तरो बाह्योऽनावृतः सर्वदेहिनाम् ।
 यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ॥ ३६ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |