|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ अष्टमोऽध्यायः ॥
मैत्रेय उवाच
भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ १ ॥ आराधिताच्च गोविन्दाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ २ ॥ श्रीपराशर उवाच यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३ ॥ सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छ भार्गवम् । विष्णोराराधनोपायसम्बन्धं मुनिसत्तम ॥ ४ ॥ फलं चाराधिते विष्णो यत्पुंसामभिजायते । स चाह पृष्टो यत्नेन तस्मै तन्मेऽखिलं शृणु ॥ ५ ॥ और्व उवाच भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ६ ॥ यद्यदिच्छति यावच्च फलमाराधितेऽच्युते । तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ७ ॥ यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ८ ॥ वर्णाश्रमाचारवता पुरुषेणपरः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ९ ॥ यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप । निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ १० ॥ तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिणा ॥ ११ ॥ ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ १२ ॥ परापवादं पैशुन्यमनृतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेन केशवः ॥ १३ ॥ परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भूप तोष्यते तेन केशवः ॥ १४ ॥ न ताडयति नो हन्ति प्राणिनोऽन्यांश्च देहिनः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ १५ ॥ देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर ॥ १६ ॥ यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ १७ ॥ यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ १८ ॥ वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम । तेषु तिष्ठन्नरो विष्णुमाराहयति नान्यथा ॥ १९ ॥ सगर उवाच तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः । तथैवाश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २० ॥ और्व उवाच ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् । त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ २१ ॥ दानं दद्याद्यजेद्देवान् यज्ञैः स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२ ॥ वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यात्प्रतिग्रहादानं शुक्लार्थान्न्यायतो द्विजः ॥ २३ ॥ सर्वभूतहितं कुर्यान्नाहितं कस्याचिद् द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ २४ ॥ ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद् द्विजः । ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ॥ २५ ॥ दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ २६ ॥ शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्पः पृथिवीपरिपालनम् ॥ २७ ॥ धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ २८ ॥ दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमताँल्लोकान्वर्णसंस्थां करोति यः ॥ २९ ॥ पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३० ॥ तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३१ ॥ द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३२ ॥ शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं तत्सङ्गो विप्ररक्षणम् ॥ ३३ ॥ दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च । पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३४ ॥ भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३५ ॥ दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३६ ॥ मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर । अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३७ ॥ आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथापद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३८ ॥ क्षात्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथाऽपदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३९ ॥ सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ४० ॥ इत्येते कथिता राजन्वर्णधर्मा मया तव । धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ४१ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (८) |