शुक्ल यजुर्वेद - तृतीयोऽध्यायः



स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । अस्मि॑न् ह॒व्या जु॑होतन ॥ १ ॥ सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जुहोतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥ २ ॥ तं त्वा॑ स॒मिद्‍भि॑रङ्‍गिरो घृ॒तेन॑ वर्द्धयामसि । बृहच्छो॑चा ॒यविष्ठ्य ॥ ३ ॥ उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ॥ ४ ॥ भू र्भुवः॒ स्वः द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥ ५ ॥ आयं गौ पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पुरः । पि॒तरं॑ च प्र॒यन्त्स्व॑ ॥ ६ ॥ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन् महि॒षो दिव॑म् ॥ ७ ॥ त्रिँ॒शद्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्‌गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥ ८ ॥ अ॒ग्निर्ज्ज्योति॒र्ज्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्ज्योतिः॒ सूर्यः स्वाहा॑ । अ॒ग्निर्वर्च्चो॒ ज्योति॒र्वर्च्चः॒ स्वाहा सूर्यो॒ वर्च्चो॒ ज्योति॒र्वर्च्चः॒ स्वाहा॑ । ज्योतिः॒ सूर्य्यः॒ सूर्य्यो॒ ज्योतिः॒ स्वाहा॑ ॥ ९ ॥ स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जुषा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ । स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या । जुषा॒णः सूर्यो॑ वेतु॒ स्वाहाः॑ ॥ १० ॥ उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रेऽअ॒स्मे च॑ श्रृण्व॒ते ॥ ११ ॥ अ॒ग्निमूर्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम् । अ॒पाग्ं रेताँ॑सि जिन्वति ॥ १२ ॥ उ॒भा वा॑मिन्द्राग्नीऽआहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ १३ ॥ अ॒यं ते॒ योनि॑र्‍ऋत्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्द्धया र॒यिम् ॥ १४ ॥ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ॥ १५ ॥ अ॒स्य प्र॒त्नामनु॒ द्यु॒तँ॑ शु॒क्रं दु॑दुह्रे॒ अह्व॑यः । पयः॑ सस्र॒सामृषि॑म् ॥ १६ ॥ त॒नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ऽस्यायुर्मे देहि वर्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि । अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण ॥ १७ ॥ इन्धा॑नास्त्वा श॒तँ हिमा॑ द्यु॒मन्तँ॒ समि॑धीमहि । वय॑स्वन्तो वय॒स्कृतँ॒ सह॑स्वन्तः सह॒स्कृत॑म् । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ॥ १८ ॥ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः॒ समृषी॑णाँ स्तु॒तेन॑ । सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सँ रा॒यस्पोषे॑ण ग्मिषीय ॥ १९ ॥ अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वा भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒स्पोषं॑ वो भक्षीय ॥ २० ॥ रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिँल्लो॒केऽस्मिन् क्षये॑ । इ॒हैव स्त॒ माप॑गात ॥ २१ ॥ सँ॒हि॒तासि॑ विश्वरू॒प्यूर्जा मावि॑श गौप॒त्येन॑ ।उप॑ त्वाग्रे दि॒वेदि॑वे॒ दोषा॑वस्तार्द्धि॒या व॒यम् । न॒मो भर॑न्त॒ एम॑सि ॥ २२ ॥ राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑माँ॒ स्वे दमे॑ ॥ २३ ॥ स नः॑ पि॒तेव॑ सूनवेऽग्ने॑ सूपाय॒नो भ॑वे । सच॑स्वा नः स्व॒स्तये॑ ॥ २४ ॥ अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॒ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑ ॥ २५ ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नूनमी॑महे॒ सखि॑भ्यः । स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒ताः स॑मस्तात् ॥ २६ ॥ इड॒ एह्यदि॑त॒ एहि॒ काम्या॒ एत॑ । मयि॑ वः काम॒धर॑णं भूयात् ॥ २७ ॥ सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ २८ ॥ यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥ २९ ॥ मा नः॒ शँसो॒ अ॑ररुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते॑ ॥ ३० ॥ महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥ ३१ ॥ न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशँ॑सः ॥ ३२ ॥ ते हि पुत्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥ ३३ ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ ३४ ॥ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ३५ ॥ परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒सुषे॑ ॥ ३६ ॥ भूर्भुवः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वी॒रैः सुपोषः॒ पोषैः॑ । नर्य॑ प्र॒जां मे॑ पाहि॒ शँस्य॑ प॒शून्मे॑ पा॒ह्य थ॑र्य पि॒तुं मे॑ पाहि ॥ ३७ ॥ आ ग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ॥ ३८ ॥ अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गाहप॑त्यः प्र॒जाया॑ वसु॒वित्त॑मः । अग्ने॑ गृहपते॒ऽभि द्युम्नम॒भि सह॒ आ य॑च्छस्व ॥ ३९ ॥ अ॒यम॒ग्निः पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒वर्ध॑नः । अग्ने॑ पुरीष्या॒भि द्युम्नम॒भि सह॒ आ य॑च्छस्व ॥ ४० ॥ गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ एम॑सि । ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ॥ ४१ ॥ येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन्॒असो ब॒हुः । गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ॥ ४२ ॥ उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूता गृहेषु नः । क्षेमा॑य वः॒ शान्तै॒ प्रप॑ध्ये शि॒वँ श॒ग्मँ शं॒योः शं॒योः ॥ ४३ ॥ प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ॥ ४४ ॥ यद्‍ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥ ४५ ॥ मो षू ण॑ इ॒न्द्राय॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥ ४६ ॥ अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभयः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥ ४७ ॥ अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥ ४८ ॥ पूर्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्जँ॑ शतक्रतो ॥ ४९ ॥ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ नि ह॑राणि ते॒ स्वहा॑ ॥ ५० ॥ अक्ष॒न्नमी॑मदन्त॒ ह्य॑व प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ट्या । म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑ ॥ ५१ ॥ सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन्वान्दिषी॒महि॑ । प्र नू॒नं पू॒र्णब॑न्धुर स्तुतो या॑सि॒ वशाँ॒२ अनु॒ योजा॒ न्वि॒न्द्र ते॒ हरि॑ ॥ ५२ ॥ मनो॒ न्वाह्वा॑महे नाराशँ॒सेन॒ स्तोमे॑न । पि॒॑ॠणां च॒ मन्म॑भिः ॥ ५३ ॥ आ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे॑ ॥ ५४ ॥ पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनझ् । जी॒वं व्रातँ॑ सचेमहि ॥ ५५ ॥ व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥ ५६ ॥ ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ॥ ५७ ॥ अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ॥ ५८ ॥ भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सुखं मे॒षाय॑ मे॒ष्यै ॥ ५९ ॥ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धन॑म् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मुक्षी॑य॒ मामृता॑त् । त्र्य॑म्बकं यजामहे सुग॒न्धिं पति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥ ६० ॥ ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहिँ॑सन्नः शि॒वोऽती॑हि ॥ ६१ ॥ त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ॥ ६२ ॥ शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । नि वर्त्तया॒म्यायु॑षे॒ऽन्नद्या॑य प्र॒जन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ ६३ ॥ ॥ इति तृतीयोऽध्यायः ॥


ॐ तत् सत्



GO TOP