|
शुक्ल यजुर्वेद - द्वितीयोऽध्यायः
कृष्णो॑ऽस्याख॒रेष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि बहिषे॑ जुष्टां॒ प्रोक्ष॑मि ब॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॒मि ॥ १ ॥
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पोऽस्यूर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुवन॑पतये॒ स्वाहा॑ भू॒तानां॒ पतये॒ स्वाहा॑ ॥ २ ॥
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यैः॒ यज॒मानस्य परि॒धिरस्य॒ग्निरि॒डऽई॑डि॒तः ।
इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः ।
मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तन्ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारिष्ट्यैः॒ परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः ॥ ३ ॥
वीतिहोत्रन्त्वा कवे द्युमन्तँ॒समि॑धीमहि ।
अग्ने॑ बृहन्त॑मध्व॒रे ॥ ४ ॥
स॒मिद॑सि॒ सूर्य्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै ।
स॒वि॒तुर्बा॒हू स्थ॒ऽऊर्ण॑म्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्य॒ऽआ त्वा॒ वस॑वो रु॒द्राऽआ॑दि॒त्याः स॑दन्तु ॥ ५ ॥
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदम्प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द घृ॒ताच्य॑स्यूप॒भृन्नाम्ना॒ सेदम्प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसिद घृ॒ताच्य॑सि ध्रुवा नाम्ना॒ सेदम्प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द ।
प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द ध्रुवाऽअ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पाहि॒ य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॒म् ॥ ६ ॥
अग्ने॑ वाजजि॒द् वाज॑न्त्वा सरि॒ष्यन्तं वा॒जजितँ॒ सम्मा॑र्ज्मि नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्त॒म् ॥ ७ ॥
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्यँ॒ संभ्रि॑यास॒मंघ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषं॒ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसी॒तऽइन्द्रो॑ वी॒र्य्य॒मकृष्णोदू॒र्ध्वो॒ध्व॒रऽआस्था॑त् ॥ ८ ॥
अग्ने॒ वेहो॒त्रं वेदू॒त्यमव॑ता॒न्त्वान्द्यावा॑पृथि॒वीऽअव॒ त्वं द्यावा॑पृथिवी॒ स्वि॑ष्ट॒कृद्दे॒वेभ्य॒ऽइन्द्र॒ऽआज्ज्ये॑न ह॒विषा॑ भूत्स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑ ॥ ९ ॥
मयी॒दमिन्द्र॑ऽइन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् ।
अ॒स्माकँ॑ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ऽउपहू॑ता पृ॑थि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ॥ १० ॥
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
प्रति॑ गृह्णाम्य॒ग्नेष्ट्वा॒स्येन॒ प्राश्ना॒॑मि ॥ ११ ॥
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ ।
तेन॑ य॒ज्ञम॑व तेन॑ य॒ज्ञप॑तिं॒ तेन॒॑ माम॑व ॥ १२ ॥
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्टं य॒ज्ञँ समि॒मं द॑धातु॒ ।
विश्वे॑ दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥ १३ ॥
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व ।
व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाँस।ं वाज॒जितँ॒ सम्मा॑र्ज्मि ॥ १४ ॥
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्र॒स॒वेन॒ प्रोहा॑मि ।
अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒य.म् द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।
ई॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑ष॒ वाज॑स्य मा प्र॒सवेन॒ प्रोहा॑मि ।
इ॒न्द्रा॒ग्नी त॑मपनुदतां॒ योऽस्मान् द्वे॒ष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥ १५ ॥
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॒॑वताम् ।
व्यन्तु॒ वयोक्तँ॒ रिहा॑णा म॒रुतां॒ पृष॑तीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ।
च॒क्षु॒ष्पाऽअग्नेऽसि॒ चक्षु॑र्मे पाहि ॥ १६ ॥
यं प॑रि॒धिं प॒र्य्यध॑त्था॒ऽअग्ने॑ देवप॒णिभि॑र्गु॒ह्यमा॑नः ।
तं त॑ऽए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्वद॑पचे॒तया॑ताऽअ॒ग्नेः प्रि॒यं पाथो॑ऽपी॑तम् ॥ १७ ॥
सँ॒स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरेष्ठाः॒ प॑रि॒धैया॑श्च दे॒वाः ।
इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ऽआसद्या॒स्मिन् व॒हिषि॑ मादयध्वँ॒ स्वाहा॒ वाट् ॥ १८ ॥
घृताची॑ स्थो॒ धुर्यौ पातँसु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम् ।
य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्विष्टे॒ मे संति॑ष्ठस्व ॥ १९ ॥
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्मन्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु ।
सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ श्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ॥ २० ॥
वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भूयाः॑ ।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
मन॑सस्पतऽइ॒मं दे॑व य॒ज्ञँ स्वाहा॒ वाते॑ धाः ॥ २१ ॥
सं ब॒हिरं॑क्ताँ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैवसु॑भिः॒ सम्म॒रुद्भिः समिन्द्रो॑ वि॒श्वदे॑वेभिरंक्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥ २२ ॥
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति॒ ।
पोषा॑य॒ रक्ष॑सां भा॒गो॒सि ॥ २३ ॥
सं वर्च्च॑सा॒ पय॑सा॒ सं॑ त॒नुभि॒रग॑न्महि॒ मन॑सा॒ सँशि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो याद्विलि॑ष्टम् ॥ २४ ॥
दि॒वि विष्णु॒र्व्य॒क्रँस्त॒ जागतेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरिक्षे॒ विष्णु॒र्व्य॒क्रँस्त॒ त्रैष्टु॑भेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मः ।
पृथि॒व्यां विष्णु॒र्व्य॒क्रँस्त गाय॒त्रेण च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒॑ यं च॑ वयं द्विष्मोऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ऽअग॑न्म॒ स्वः सं ज्योति॑षाभूम ॥ २५ ॥
स्व॒यं॒भूर॑सि॒ श्रेष्टो॑ र॒श्मिर्व॑र्चो॒दाऽअसि॒ वर्चो॑ मे देहि ।
सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥ २६ ॥
अग्ने गृहपते सुगृहप॒तिस्त्वया॑ऽग्ने॒ऽहं गृ॒हप॑तिना भूयासँ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः ।
अस्थू॒रि णौ॒ गाह॑पत्यानि सन्तु श॒तँ हिमाः॒ सूर्य्य॑स्या॒वृत॒मन्वाव॑र्ते ॥ २७ ॥
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि सो॒ऽस्मि ॥ २८ ॥
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ ।
अप॑हता॒ऽ असु॑रा र॒क्षाँ॑सि वेदिषदः॑ ॥ २९ ॥
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ऽअसु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति ।
प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात् प्रणु॑दात्य॒स्मात् ॥ ३० ॥
अत्र॑ पितरो॑ मादयध्वं यथाभा॒गमावृ॑षायध्वम् ।
अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥ ३१ ॥
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरः॒ पित॑रो॒ नमो॑ वो गृ॒हान्नः॑ पितरो दत्त स॒तो वः॑ पितरो देष्मै॒तद्वः॑ पितरो वासः॑ ॥ ३२ ॥
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् ।
यथे॒ह पुरु॒षोऽस॑त् ॥ ३३ ॥
ऊर्ज्जं॒ बह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रु॑तम् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तृन् ॥ ३४ ॥
॥ इति द्वितीयोऽध्यायः ॥
ॐ तत् सत् |