॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

चतुःपञ्चाशत्तमोऽध्यायः

पतिव्रताधर्मवर्णनम्


ब्रह्मोवाच
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।
कारय स्वात्मजादेव्या यात्रामद्योचितां गिरे ॥ १ ॥
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहं परम् ।
विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २ ॥
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।
तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३ ॥
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।
मेना संयापयामास कर्तुमासीत्समुद्यता ॥ ४ ॥
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।
उत्सवं विविधं तत्र सा मेना क्षितिभृत्प्रिया ॥ ५ ॥
गिरिजां भूषयामास नानारत्नांशुकैर्वरैः ।
द्वादशाभरणैश्चैव शृङ्‌गारैर्नृपसम्मितैः ॥ ६ ॥
मेनामनोगतिं बुद्ध्वा साध्व्येका द्विजकामिनी ।
गिरिजां शिक्षयामास पातिव्रत्यव्रतं परम् ॥ ७ ॥
द्विजपत्न्युवाच
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ।
इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ॥ ८ ॥
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।
पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९ ॥
सेवते या पतिं प्रेम्णा परमेश्वरवच्छिवे ।
इह भुक्त्वाखिलान् भोगानन्ते पत्या शिवां गतिम् ॥ १० ॥
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।
शाण्डिल्या शतरूपानसूया लक्ष्मीः स्वधा सती ॥ ११ ॥
सञ्ज्ञा च सुमतिः श्रद्धा मेना स्वाहा तथैव च ।
अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्‌भयात् ॥ १२ ॥
पातिव्रत्यवृषेणैव ता गताःसर्वपूज्यताम् ।
ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३ ॥
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।
दीनानुग्रहकर्ता च सर्वसेव्यःसतां गतिः ॥ १४ ॥
महान्पतिव्रताधर्मः श्रुतिस्मृतिषु नोदितः ।
यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५ ॥
भुञ्ज्याद्‌भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।
तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६ ॥
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।
सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७ ॥
अनलङ्‌कृतमात्मानं दर्शयेन्न क्वचिच्छिवे ।
कार्यार्थं प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ॥ १८ ॥
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।
आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥
हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु । १९ ॥
आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।
सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ॥ २० ॥
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।
तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१ ॥
चिरं तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।
आदाय तत्त्वं यत्किञ्चित्कस्मैचिन्नार्पयेत्क्वचित् ॥ २२ ॥
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।
प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३ ॥
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।
दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४ ॥
तीर्थार्थिनी तु या नारी पतिपादोदकं पिबेत् ।
तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५ ॥
भुञ्ज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।
महाप्रसाद इत्युक्त्वा पतिदत्तं पतिव्रता ॥ २६ ॥
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ २७ ॥
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
भवेत्सा सर्वदा देवी पतिव्रतपरायणा ॥ २८ ॥
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ।
अन्यथा तत्फलं नास्ति परत्र नरकं व्रजेत् ॥ २९ ॥
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥ ३० ॥
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव च ।
सुखितं दुःखितं वापि पतिमेकं न लङ्‌घयेत् ॥ ३१ ॥
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥ ३२ ॥
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।
अथवा मनसि ध्यात्वा पतिम्भानुं विलोकयेत् ॥ ३३ ॥
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम् ।
कूर्पासकं च ताम्बूलं माङ्‌गल्याभरणादिकम् ॥ ३४ ॥
केशसंस्कारकबरीकरकर्णादिभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ ३५ ॥
न रजक्या न बन्धक्या तथा श्रवणया न च ।
न च दुर्भगया क्वापि सखित्वं कारयेत् क्वचित् ॥ ३६ ॥
पतिविद्वेषिणीं नारीं न सा संभाषयेत् क्वचित् ।
नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥ ३७ ॥
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।
न यन्त्रके न देहल्यां सती च प्रवसेत् क्वचित् ॥ ३८ ॥
विना व्यवायसमयं प्रागल्भ्यं नाचरेत् क्वचित् ।
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥ ३९ ॥
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ।
पतिव्रता भवेद्देवी सदा पतिहितैषिणी ॥ ४० ॥
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ।
विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्यधारिणी ॥ ४१ ॥
सर्पिर्लवणतैलादिक्षयेऽपि च पतिव्रता ।
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥ ४२ ॥
विधेर्विष्णोर्हराद्वापि पतिरेकोऽधिको मतः ।
पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥ ४३ ॥
व्रतोपवासनियमं पतिमुल्लङ्‌घ्य या चरेत् ।
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ४४ ॥
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ।
सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ४५ ॥
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ।
न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥ ४६ ॥
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ।
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥ ४७ ॥
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ।
ताम्बूलैर्वसनैश्चापि पादसंवाहनादिभिः ॥ ४८ ॥
तथैव चाटुवचनैः खेदसन्नोदनैः परैः ।
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ॥ ४९ ॥
मितं ददाति जनको मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं पूजयेत्सदा ॥ ५० ॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥ ५१ ॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।
उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ॥ ५२ ॥
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।
कटाक्षयति यान्यं वै केकराक्षी तु सा भवेत् ॥ ५३ ॥
या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ।
ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥ ५४ ॥
या तुं कृत्य प्रियं ब्रूयान् मूका सा जायते खलु ।
या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥ ५५ ॥
दृष्टिं विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ।
काणा च विमुखी चापि कुरूपापि च जायते ॥ ५६ ॥
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ।
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ॥ ५७ ॥
सा धन्या जननी लोके स धन्यो जनकः पिता ।
धन्यःस च पतिर्यस्य गृहे देवी पतिव्रता ॥ ५८ ॥
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।
पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुञ्जते ॥ ५९ ॥
शीलभङ्‌गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।
पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ॥ ६० ॥
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्‌भुवम् ।
तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥ ६१ ॥
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ।
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६२ ॥
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।
अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः ॥ ६३ ॥
भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ।
भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये ॥ ६४ ॥
गृहे गृहे न किं नार्यो रूपलावण्यगर्विताः ।
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६५ ॥
परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ।
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६६ ॥
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ।
ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥ ६७ ॥
यथा गङ्‌गावगाहेन शरीरं पावनं भवेत् ।
तथा पतिव्रतां दृष्ट्‍वा सकलं पावनं भवेत् ॥ ६८ ॥
न गङ्‌गाया तया भेदो या नारी पतिदेवता ।
उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्‌बुधः ॥ ६९ ॥
तारः पतिः श्रुतिर्नारी क्षमा सा स स्वयं तपः ।
फलं पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ ७० ॥
एवं पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ।
तद्‌भेदान् शृणु सुप्रीत्या सावधानतयाऽद्य मे ॥ ७१ ॥
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ।
उत्तमादिविभेदेन स्मरतां पापहारिकाः ॥ ७२ ॥
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका ।
ब्रुवे तासां लक्षणानि सावधानतया शृणु ॥ ७३ ॥
स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ।
नान्यं परपतिं भद्रे उत्तमा सा प्रकीर्तिता ॥ ७४ ॥
या पितृभ्रातृसुतवत् परं पश्यति सद्धिया ।
मध्यमा सा हि कथिता शैलजे वै पतिव्रता ॥ ७५ ॥
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ।
निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥ ७६ ॥
पत्युः कुलस्य च भयाद्‌व्यभिचारं करोति न ।
पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥ ७७ ॥
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ।
पावनाः सर्वलोकानामिहामुत्रापि हर्षिताः ॥ ७८ ॥
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ।
जीवितो विप्र एको हि मृतो वाराहशापतः ॥ ७९ ॥
एवं ज्ञात्वा शिवे नित्यं कर्तव्यं पतिसेवनम् ।
त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ॥ ८० ॥
जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव ।
तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥ ८१ ॥
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ।
तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥ ८२ ॥
ब्रह्मोवाच
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ।
शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ॥ ८३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP