|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
त्रिपञ्चाशत्तमोऽध्यायः
वधूवरयोः यात्राप्रस्थानवर्णनम्
ब्रह्मोवाच
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः । कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १ ॥ ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः । पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २ ॥ तत्र प्रभुं प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा । कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैः सह ॥ ३ ॥ विलोकनेन ते शम्भो कृतार्थोहं न संशयः । धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैः सह ॥ ४ ॥ ब्रह्मोवाच इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च । प्रभुं निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५ ॥ अथ ते मनसा गत्वा शिव संयुतमादरात् । प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६ ॥ देवा ऊचुः धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी । त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ॥ ७ ॥ यस्य द्वारि महेशानः परब्रह्म सतां गतिः । समागतः सदासैश्च कृपया भक्तवत्सलः ॥ ८ ॥ जनावासोऽतिरम्यश्च सम्मानो विविधः कृतः । भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९ ॥ चित्रं न खलु तत्रास्ति यत्र देवी शिवाम्बिका । परिपूर्णमशेषंच यवं धन्या यदागताः ॥ १० ॥ ब्रह्मोवाच इत्थं परस्परन्तत्र प्रशंसाभवदुत्तमा । उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११ ॥ अभून्मंगलगानञ्च ननर्ताप्सरसाङ्गणः । नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद् बहु ॥ १२ ॥ तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः । भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३ ॥ भोजनार्थं प्रभु प्रीत्यानयामास यथोचितम्। परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४ ॥ प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात्। सर्वेषाममराणां च मुनीनां च यथार्थतः ॥ १५ ॥ परेषां च गतानां च गिरीशो मण्डपान्तरे। आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६ ॥ सुरसैर्विविधान्नैश्च तर्पयामास तान् गिरिः। बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७ ॥ तदानीं पुरनार्यश्च गालीदानं व्यधुर्मुदा। मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८ ॥
ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद। स्वस्थानं प्रययुः सर्वे मुदितास्तृप्तिमागताः ॥ १९ ॥ इत्थं तृतीये घस्त्रेऽपि मानितास्तेऽभवन्मुने । गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ २० ॥ चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः। बभूव विधिवद्येन विना खण्डित एव स ॥ २१ ॥ उत्सवो विविधश्चासीत्साधुवादजयध्वनिः । बहुदानं सुगानं च नर्तनं विविधं तथा ॥ २२ ॥ पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः । विज्ञप्तिं चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३ ॥ तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः । कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ॥ २४ ॥ इत्युक्त्वा स्नेहतस्ताँश्च प्रभुं विष्णुं च मां परान् । वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २९ ॥ इत्थं व्यतीयुर्दिवसा बहवो वसतां च तत् । सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततः सुराः ॥ २६ ॥ ते तं सम्बोधयामासुर्मेनां च समयोचितम् । शिवतत्त्वं परं प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७ ॥ अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने । यात्रार्थमगमच्छम्भुः शैलेशं सामरादिकः ॥ २८ ॥ यात्रां कुर्वति देवेशे स्वशैलं सामरे शिवे । उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ॥ २९ ॥ मेनोवाच कृपानिधे कृपां कृत्वा शिवां सम्पालयिष्यसि । सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ ३० ॥ त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि । स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुं विना ॥ ३१ ॥ त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता । त्वन्निन्दया भवेन्मौना मृत्युञ्जय मृता इव ॥ ३२ ॥ ब्रह्मोवाच इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा । अत्युच्चै रोदनं कृत्वा मूर्च्छामाप तयोः पुरः ॥ ३३ ॥ अथ मेनां बोधयित्वा तामामन्त्र्य गिरिं तथा । चकार यात्रां देवैश्च महोत्सवपुरःसरम् ॥ ३४ ॥ अथ ते निर्जराः सर्वे प्रभुणा स्वगणैः सह । यात्रां प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ३५ ॥ हिमाचलपुरीबाह्योपवने हर्षिताः सुराः । सेश्वराः सोत्सवास्तस्थुः पर्यैषन्त शिवागमम् ॥ ३६ ॥ इत्युक्ता शिवसद्यात्रा देवैःसह मुनीश्वर । आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ श्रीगौरीशंकरार्पणमस्तु |