॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

षष्ठोऽध्यायः

पार्वतिजन्मवर्णनम्


ब्रह्मोवाच
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ।
प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १ ॥
ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ।
ईहया भतितुं भूयःसमैच्छद्‌गिरिदारतः ॥ २ ॥
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ।
पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३ ॥
विरराज ततः सोतिप्रमदोपूर्वसुद्युतिः ।
हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४ ॥
ततो गिरिः स्वप्रियायां परिपूर्णं शिवांशकम् ।
समाधिमत्त्वात्समये समधत्त सुशंकरे ॥ ५ ॥
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ।
चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६ ॥
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ।
विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७ ॥
उपोदयं स्वभर्तुश्च मेना दौहृदलक्षणम् ।
दधौ निदानं देवानामानन्दस्येप्सितं शुभम् ॥ ८ ॥
देह सादादसम्पूर्णभूषणा लोध्रसंमुखा ।
स्वल्पभेन्दुक्षयेकासौ विचेष्यर्क्षा विभावरी ॥ ९ ॥
तदाननं मृत्सुरभि नायं तृप्तिं गिरीश्वरः ।
मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ १० ॥
मेना स्पृहावती केषु न मे शंसति वस्तुषु ।
किञ्चिदिष्टं ह्रियापृच्छदनुवेलं सखीर्गिरिः ॥ ११ ॥
उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत् ।
आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि ॥ १२ ॥
प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम् ।
रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३ ॥
गिरिःसगर्भां महिषीममंस्त धरणीमिव ।
निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव ॥ १४ ॥
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।
समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः ॥ १५ ॥
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।
अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६ ॥
दृष्ट्‍वा प्रियां शुभाङ्‌गीं वै मुमोदातिगिरीश्वरः ।
गर्भस्थजगदम्बां हि महातेजोवतीं तदा ॥ १७ ॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ।
मुनयश्च समागम्य गर्भस्थां तुष्टुवुः शिवाम् ॥ १८ ॥
देवा ऊचुः
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९ ॥
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।
सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ २० ॥
शिवप्रिये महेशानि देवदुःखक्षयङ्‌करि ।
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१ ॥
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२ ॥
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ।
त्वां विना न हि किञ्चिद्वै शोभते त्रिभवेष्वपि ॥ २३ ॥
ब्रह्मोवाच
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ।
प्रसन्नमनसो देवाः स्वं स्वं धाम ययुस्तदा ॥ २४ ॥
व्यतीते नवमे मासे दशमे मासि पूर्णतः ।
गर्भस्थाया गतिं दध्रे कालिका जगदम्बिका ॥ २५ ॥
तदा सुसमयश्चासीच्छान्तभग्रहतारकम् ।
नभः प्रसन्नतां यातं प्रकाशःसर्वदिक्षु हि ॥ २६ ॥
मही मंगलभूयिष्ठा सवनग्रामसागरा ।
सरः स्रवन्तीवापीषु पुफुल्लुः पङ्‌कजानि वै ॥ २७ ॥
ववुश्च विविधा वाताः सुखस्पर्शा मुनीश्वर ।
मुमुदुःसाधवःसर्वेऽसतां दुःखमभूद्द्रुतम् ॥ २८ ॥
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ।
पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥ २९ ॥
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरस्तथा ।
तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥ ३० ॥
तस्मिन्नवसरे देवी पूर्वशक्तिः शिवा सती ।
आविर्बभूव पुरतो मेनाया निजरूपतः ॥ ३१ ॥
वसन्तर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ।
अर्द्धरात्रे समुत्पन्ना गङ्‌गेव शशिमण्डलात् ॥ ३२ ॥
समये तत्स्वरूपेण मेनका जठराच्छिवा ।
समुद्धूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ ३३ ॥
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ।
अनुकूलो ववौ वायुर्गम्भीरो गन्धयुक्शुभः ॥ ३४ ॥
बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरःसरम् ।
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥ ३५ ॥
तस्यां तु जायमानायां सर्वस्वं समपद्यत ।
हिमवन्नगरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ३६ ॥
तस्मिन्नवसरे तत्र विष्ण्वाद्याः सकलाः सुराः ।
आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम् ॥ ३७ ॥
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ।
दिव्यारूपां महामायां शिवलोकनिवासिनीम् ॥ ३८ ॥ ।
देवा ऊचुः
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ।
देवकार्यकरी त्वं हि सदाऽतस्त्वां नमामहे ॥ ३९ ॥
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ।
मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥ ४० ॥
ब्रह्मोवाच
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम् ।
स्वंस्वं धाम ययुः प्रीताः शंसन्तस्तद्‌गतिं पराम् ॥ ४१ ॥
तां तु दृष्ट्‍वा तथा जातां नीलोत्पलदलप्रभाम ।
श्यामां सा मेनका देवीं मुदमापाति नारद ॥ ४२ ॥
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ।
विज्ञाय परमेशानीं तुष्टा वाऽतिप्रहर्षिता ॥ ४३ ॥
मेनोवाच
जगदम्ब महेशानि कृतातिकरुणा त्वया ।
आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥ ४४ ॥
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ।
शिवप्रिया सदा देवि सर्वदेवस्तुता परा ॥ ४५ ॥
कृपां कुरु महेशानि मम ध्यानस्थिता भव ।
एतद्‌रूपेण प्रत्यक्षं रूपं धेहि सुतासमम् ॥ ४६ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः ।
प्रत्युवाच शिवा देवी सुप्रसन्ना गिरिप्रियाम् ॥ ४७ ॥
देव्युवाच
हे मेने त्वं पुरा मां च सुसेवितवती रता ।
त्वद्‌भक्त्या सुप्रसन्नाहं वरं दातुं गतान्तिकम् ॥ ४८ ॥
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ।
सुता भव महादेवि सा मे देवहितं कुरु ॥ ४९ ॥
तथा दत्त्वा वरं तेऽहं गता स्वं पदमादरात् ।
समयं प्राप्य तनयाऽभवन्ते गिरिकामिनि ॥ ५० ॥
दिव्यरूपं धृतं मेऽद्य यत्ते मत्स्मरणं भवेत् ।
अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥ ५१ ॥
युवां मां पुत्रिभावेन दिव्यभावेन वाऽसकृत् ।
चिन्तयन्तौ कृतस्नेहौ यातौस्थो मद्‌गतिम्पराम् ॥ ५२ ॥
देवकार्यं करिष्यामि लीलां कृत्वाद्‌भुतां क्षितौ ।
शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान् ॥ ५३ ॥
ब्रह्मोवाच
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया ।
पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः ॥ ५४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP