॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

अष्टमोऽध्यायः ॥

वसन्तस्वरूपवर्णनम्


सूत उवाच
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः ।
प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥ १ ॥
नारद उवाच
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।
धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥ २ ॥
श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी ।
अरुन्धत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥ ३ ॥
इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् ।
शिवस्य परपापघ्नं मङ्‌गलप्रदमुत्तमम् ॥ ४ ॥
गृहीतदारे कामे च दृष्टे तेषु गतेषु च ।
सन्ध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥ ५ ॥
सूत उवाच
इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः ।
सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ६ ॥
ब्रह्मोवाच
शृणु नारद विप्रेन्द्र तदेव चरितं शुभम् ।
शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥ ७ ॥
अहं विमोहितस्तात यदैवान्तर्हितः पुरा ।
अचिन्तयं सदाहं तच्छम्भुवाक्यविषार्दितः ॥ ८ ॥
चिन्तयित्वा चिरं चित्ते शिवमायाविमोहितः ।
शिवे चेर्ष्यामकार्षं हि तच्छृणुष्व वदामि ते ॥ ९ ॥
अथाहमगमं तत्र यत्र दक्षादयः स्थिताः ।
सरतिं मदनं दृष्ट्‍वा समदोऽहं हि किञ्चन ॥ १० ॥
दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद ।
अवोचं वचनं सोहं शिवमायाविमोहितः ॥ ११ ॥
ब्रह्मोवाच
हे दक्ष हे मरीच्याद्याः सुताः शृणुत मद्वचः ।
श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥ १२ ॥
कान्ताभिलाषमात्रं मे दृष्ट्‍वा शम्भुरगर्हयत् ।
मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥ १३ ॥
तेन दुःखाभितप्तोऽहं लभेऽहं शर्म न क्वचित् ।
यथा गृह्णातु कान्तां स स यत्नः कार्य एव हि ॥ १४ ॥
यथा गृह्णातु कान्तां स सुखी स्यां दुःखवर्जितः ।
दुर्लभः स तु कामो मे परं मन्ये विचारतः ॥ १५ ॥
कान्ताभिलाषमात्रं मे दृष्ट्‍वा शम्भुरगर्हयत् ।
मुनीनां पुरतः कस्मात्स कान्तां सङ्‌ग्रहीष्यति ॥ १६ ॥
का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनः स्थिता ।
योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥ १७ ॥
मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने ।
नितान्तयोगी रामाणां नामापि सहते न सः ॥ १८ ॥
परिग्रहं विना चैव हरेण कथयादिना ।
मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥ १९ ॥
भुवि केचिद्‌भविष्यन्ति मायाबद्धा महासुराः ।
वध्याः केचिद्धरेर्नूनं केचिच्छम्भोरुपायतः ॥ २० ॥
संसारविमुखे शम्भौ तथैकान्तविरागिणि ।
अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥ २१ ॥
इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च ।
सरतिं मदनं तत्र सानन्दमगदं ततः ॥ २२ ॥
ब्रह्मोवाच
मत्पुत्रवर काम त्वं सर्वथा सुखदायकः ।
मद्वचः शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥ २३ ॥
अनया सहचारिण्या राजसे त्वं मनोभव ।
एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४ ॥
यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा ।
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ २५ ॥
तथैव युवयोः शोभा दाम्पत्यं च पुरस्कृतम् ।
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ २६ ॥
जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनाम् ।
यथाऽऽशु सुमनः शम्भुः कुर्य्याद्दारप्रतिग्रहम् ॥ २७ ॥
विजने स्निग्धदेशे तु पर्वतेषु सरःसु च ।
यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ २८ ॥
मोहय त्वं यतात्मानं वनिताविमुखं हरम् ।
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ २९ ॥
भूते हरे सानुरागे भवतोऽपि मनोभव ।
शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ ३० ॥
सानुरागो वरारोहां यदीच्छति महेश्वरः ।
तदा भवोऽपि योग्यार्यस्त्वां च सन्तारयिष्यति ॥ ३१ ॥
तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने ।
विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ ३२ ॥
ब्रह्मोवाच
इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः ।
उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥ ३३ ॥
मन्मथ उवाच
करिष्येहं तव विभो वचनाच्छम्भुमोहनम् ।
किं तु योषिन्ममास्त्रं मे तत्कान्तां भगवन् सृज ॥ ३४ ॥
मया संमोहिते शम्भौ यया तस्याश्च मोहनम् ।
कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥ ३५ ॥
ब्रह्मोवाच
एवंवादिनि कन्दर्पे धाताऽहं स प्रजापतिः ।
कया संमोहनी योऽसाविति चिन्तामयामहम् ॥ ३६ ॥
चिन्ताविष्टस्य मे तस्य निःश्वासो यो विनिःसृतः ।
तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ ३७ ॥
शोणराजीवसङ्‌काशः फुल्लतामरसेक्षणः ।
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ ३८ ॥
शार्ङ्‌गवच्चरणावर्त्तः श्यामकुञ्चितमूर्द्धजः ।
सन्ध्यांशुमालिसदृशः कुण्डलद्वयमण्डितः ॥ ३९ ॥
प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः ।
कम्बुग्रीवःसुविस्तीर्णहृदयः पीनसन्मुखः ॥ ४० ॥
सर्वाङ्‌गसुन्दरः श्यामः सम्पूर्णः सर्वलक्षणैः ।
दर्शनीयतमः सर्वमोहनः कामवर्द्धनः ॥ ४१ ॥
एतादृशे समुत्पन्ने वसन्ते कुसुमाकरे ।
ववौ वायुः सुसुरभिः पादपा अपि पुष्पिताः ॥ ४२ ॥
पिका विनेदुः शतशः पञ्चमं मधुरस्वनाः ।
प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥ ४३ ॥
तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् ।
हिरण्यगर्भो मदनमगदं मधुरं वचः ॥ ४४ ॥
ब्रह्मोवाच
एवं स मन्मथनिभः सदा सहचरोभवत् ।
आनुकूल्यं तव कृते सर्वं देव करिष्यति ॥ ४५ ॥
यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति ।
तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ४६ ॥
वसतेरन्तहेतुत्वाद्वसन्ताख्यो भवत्वयम् ।
तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ४७ ॥
असौ वसन्तशृङ्‌गारो वसन्तो मलयानिलः ।
भवेत्तु सुहृदो भावः सदा त्वद्वशवर्तिनः ॥ ४८ ॥
विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा ।
रत्याः कुर्वन्तु सौहृद्यं सुहृदस्ते यथा तव ॥ ४९ ॥
एभिः सहचरैः कामं वसन्त प्रमुखैर्भवान् ।
मोहयस्व महादेवं रत्या सह महोद्यमः ॥ ५० ॥
अहं तां कामिनीं तात भावयिष्यामि यत्नतः ।
मनसा सुविचार्यैव या हरं मोहयिष्यति ॥ ५१ ॥
ब्रह्मोवाच
एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः ।
ननाम चरणौ मेऽपि स पत्नी सहितस्तदा ॥ ५२ ॥
दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च ।
यत्रात्मा गतवाञ्शम्भुस्तत्स्थानं मन्मथो ययौ ॥ ५३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे
द्वितीये सतीखण्डे वसन्तस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP