|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
सप्तमोऽध्यायः ॥
संध्याया अरुन्धतीनामप्राप्तीर्वसिष्ठेन सह विवाहश्च
ब्रह्मोवाच
वरं दत्त्वा मुने तस्मिन् शम्भावन्तर्हिते तदा । सन्ध्याऽप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १ ॥ तत्र शम्भोः प्रसादेन न केनाप्युपलक्षिता । सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २ ॥ वसिष्ठेन पुरा सा तु वर्णी भूत्वा महामुने । उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३ ॥ तमेव कृत्वा मनसा तपश्चर्योपदेशकम् । पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४ ॥ समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता । हृष्टा शम्भुप्रसादेन सा विवेश विधेः सुता ॥ ५ ॥ तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः । दग्धं पुरोडाशगन्धं तस्तार यदलक्षितम् ॥ ६ ॥ वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मण्डलम् । शुद्धं प्रवेशयामास शम्भोरेवाज्ञया पुनः ॥ ७ ॥ सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे । स्वकेशं स्थापयामास प्रीतये पितृदेवयोः ॥ ८ ॥ तदूर्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर । प्रातःसन्ध्याभवत्सा तु अहोरात्रादिमध्यगा ॥ ९ ॥ तच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ॥ सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा ॥ १ ० ॥ सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः । प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११ ॥ अस्तंगते ततः सूर्ये शोणपद्मनिभे सदा । उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥ १२ ॥ तस्याः प्राणास्तु मनसा शम्भुनाथ दयालुना । दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३ ॥ मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा । प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चनसुप्रभा ॥ १४ ॥
तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः । यज्ञार्थं तां तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५ ॥ अरुन्धती तु तस्यास्तु नाम चक्रे महामुनिः । शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६ ॥ न रुणद्धि यतो धर्मं सा कस्मादपि कारणात् । अतस्त्रिलोके विदितं नाम सम्प्राप तत्स्वयम् ॥ १७ ॥ यज्ञं समाप्य स मुनिः कृतकृत्यभाव- मासाद्य सम्मदयुतस्तनयाप्रलम्भात् । तस्मिन्निजाश्रमपदे सह शिष्यवर्गै- स्तामेव सततमसौ दयिते सुरर्षे ॥ १८ ॥ अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे । चन्द्रभागानदीतीरे तापसाऽरण्यसञ्ज्ञके ॥ १९ ॥ सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः । तापसारण्यमपि सा पवित्रमकरोत्सरी ॥ २० ॥ विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै । वसिष्ठेन ह्यरुन्धत्या ब्रह्मविष्णुमहेश्वराः ॥ २१ ॥ तद्विवाहे महोत्साहो बभूव सुखवर्द्धनः । सर्वे सुराश्च मुनयः सुखमापुः परं मुने ॥ २२ ॥ ब्रह्मविष्णुमहेशानां करनिःसृततोयतः । सप्त नद्यः समुत्पन्नाः शिप्राद्याः सुपवित्रकाः ॥ २३ ॥ अरुन्धती महासाध्वी साध्वीनां प्रवरोत्तमा । वसिष्ठं प्राप्य सा रेजे मेधातिथिसुता मुने ॥ २४ ॥ यस्याः पुत्राः समुत्पन्नाः श्रेष्ठाः शक्त्यादयः शुभाः । वसिष्ठं प्राप्य तं कान्तं संरेजे मुनिसत्तम ॥ २५ ॥ एवं सन्ध्याचरित्रं ते कथितं मुनिसत्तम । पवित्रं पावनं दिव्यं सर्वकामफलप्रदम् ॥ २६ ॥ य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सप्तमोऽध्यायः ॥ ७ ॥ श्रीगौरीशंकरार्पणमस्तु |