॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

द्वादशोऽध्यायः ॥

पूजाविधिवर्णने सारासारविचारवर्णनम्


नारद उवाच
ब्रह्मन् प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।
एतदेव पुनः सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १ ॥
ब्रह्मोवाच
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।
निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसम्भवः ॥ २ ॥
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।
आगन्तव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ॥ ३ ॥
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।
यत्रास्ते भगवान्विष्णुः सर्वेषां हितकारकः ॥ ४ ॥
तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ।
उपतस्थुः सुरा नत्वा सुकृताञ्जलयोः मुने ॥ ९ ॥
तान्दृष्ट्‍वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।
स्मरञ्छिवपदाम्भोजमब्रवीत्परमं वचः ॥ ६ ॥
विष्णुरुवाच
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।
सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७ ॥
ब्रह्मोवाच
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।
पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८ ॥
देवा ऊचुः
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ॥ ९ ॥
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।
सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ १० ॥
श्रीभगवानुवाच
ब्रह्मञ्च्छृणु सुरैःसम्यक् श्रुतं च भवता पुरा ।
तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११ ॥
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यतेऽधुना ।
ब्रह्मन्देवैः समस्तैश्च बहुधा कार्यतत्परैः ॥ १२ ॥
सेव्यः सेव्यःसदा देवः शङ्‌करः सर्वदुःखहा ।
ममापि कथितं तेन ब्रह्मणोऽपि विशेषतः ॥ १३ ॥
प्रस्तुतं चैव दृष्टं वः सर्वं दृष्टान्तमद्‌भुतम् ।
त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४ ॥
सन्त्यज्य देवदेवेशं लिङ्‌गमूर्तिं महेश्वरम् ।
तारपुत्रास्तथैवैते नष्टास्तेऽपि सबान्धवाः ॥ १५ ॥
मया च मोहितास्ते वै मायया दूरतः कृताः ।
सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६ ॥
तस्मात्सदा पूजनीयो लिङ्‌गमूर्तिधरो हरः ।
सेवनीयो विशेषेण श्रद्धया देवसत्तमः ॥ १७ ॥
शर्वलिङ्‌गार्चनादेव देवा दैत्याश्च सत्तमाः ।
अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ १८ ॥
तल्लिङ्‌गमर्चयेन्नित्यं येन केनापि हेतुना ।
तस्माद्‌ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ॥ १९ ॥
सा हानिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।
यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ २० ॥
भवभक्तिपरा ये च भवप्रणतचेतसः ।
भवसंस्मरणा ये च न ते दुःखस्य भाजनाः ॥ २१ ॥
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।
धनं च तुष्टिपर्यन्तं पुत्रपौत्रादिसन्ततिः ॥ २२ ॥
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।
ये वाञ्छन्ति महाभागाः सुखं वा त्रिदशालयम् ॥ २३ ॥
अन्ते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।
पूर्वपुण्यातिरेकेण तेऽर्चयन्ति सदाशिवम् ॥ २४ ॥
योऽर्चयेच्छिवलिङ्‌गं वै नित्यं भक्तिपरायणः ।
तस्य वै सफला सिद्धिर्न स पापैश्च युज्यते ॥ २५ ॥
ब्रह्मोवाच
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।
लिङ्‌गानि प्रार्थयामासुः सर्वकामाप्तये नृणाम् ॥ २६ ॥
तच्छ्रुत्वा च तदा विष्णुर्विश्वकर्माणमब्रवीत ।
अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७ ॥
विश्वकर्मन्यथा शम्भोः कल्पयित्वा शुभानि च ।
लिङ्‌गानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८ ॥
ब्रह्मोवाच
लिङ्‌गानि कल्पयित्वैवमधिकारानुरूपतः ।
विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः ॥ २९ ॥
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम ।
पद्मरागमयं शक्रो हैमं विश्रवसः सुतः ॥ ३० ॥
पीतं मणिमयं धर्मो वरुणः श्यामलं शिवम् ।
इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा ॥ ३१ ॥
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।
आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२ ॥
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।
मौक्तिकं सोमराजो वै वज्रलिङ्‌गं विभावसुः ॥ ३३ ॥
मृण्मयं चैव विप्रेन्द्रा विप्रपत्न्यस्तथैव च ।
चान्दनं च मयो नागः प्रवालमयमादरात् ॥ ३४ ॥
नवनीतमयं देवी योगी भस्ममयं तथा ।
यक्षा दधिमयं लिङ्‌गं छाया पिष्टमयं तथा ॥ ३५ ॥
शिवलिङ्‌गं च ब्रह्माणी रत्नं पूजयति ध्रुवम् ।
पारदं पार्थिवं बाणः समर्चति परेऽपि वा ॥ ३६ ॥
एवं विधानि लिङ्‌गानि दत्तानि विश्वकर्मणा ।
ते पूजयन्ति सर्वे वै देवा ऋषिगणा स्तथा ॥ ३७ ॥
विष्णुर्दत्त्वा च लिङ्‌गानि देवेभ्यो हितकाम्यया ।
पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८ ॥
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।
आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९ ॥
तत्रागत्य ऋषीन्सर्वान् देवांश्चाहं तथा मुने ।
शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ ४० ॥
ब्रह्मोवाच
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।
शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१ ॥
मानुषं जन्म सम्प्राप्य दुर्लभं सर्वजन्तुषु ।
तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२ ॥
अव्यङ्‌गं चैव विप्रेषु साचारेषु सपुण्यतः ।
शिवसन्तोषहेतोश्च कर्मस्वोक्तं समाचरेत् ॥ ४३ ॥
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लङ्‌घयेत् ।
यावद्दानस्य सम्पत्तिस्तावत्कर्म समावहेत् ॥ ४४ ॥
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५ ॥
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।
यतः समरसं स्वेष्टं योगी ध्यानेन पश्यति ॥ ४६ ॥
ध्यानयज्ञरतस्यास्य सदा सन्निहितश्शिवः ।
नास्ति विज्ञानिनां किञ्चित्प्रायश्चित्तादिशोधनम् ॥ ४७ ॥
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।
नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ॥ ४८ ॥
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।
सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९ ॥
परानन्दकरं लिङ्‌गं विशुद्धं शिवमक्षरम् ।
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ ५० ॥
लिङ्‌गं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं द्विजाः ।
बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यन्तरं मतम् ॥ ५१ ॥
कर्मयज्ञरता ये च स्थूललिङ्‌गार्चने रताः ।
असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२ ॥
आध्यात्मिकं तु यल्लिङ्‌गं प्रत्यक्षं यस्य नो भवेत् ।
स तल्लिङ्‌गे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३ ॥
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।
यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४ ॥
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।
निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५ ॥
एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ।
विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६ ॥
यथा जलेषु कमलं सलिलैर्नावलिप्यते ।
तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७ ॥
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।
तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८ ॥
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः ।
एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९ ॥
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।
तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ ६० ॥
भेदो जलानां लोकेऽस्मिन्प्रतिभावेऽविचारतः ।
एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१ ॥
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।
इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः ॥ ६२ ॥
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।
पदमुच्चैः समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३ ॥
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।
निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४ ॥
सगुणानिर्गुणप्राप्तिर्भवतीति सुनिश्चितम् ।
एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५ ॥
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।
गन्धचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६ ॥
तावच्च प्रतिमा पूज्या यावद्विज्ञानसम्भवः ।
ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ॥ ६७ ॥
एतस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः ।
स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८ ॥
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।
विना पूजनदानादि पातकं भवति ध्रुवम् ॥ ६९ ॥
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।
गते च पातके तस्य सर्वं च सफलं भवेत् ॥ ७० ॥
तथा च मलिने वस्त्रे रङ्‌गः शुभतरो न हि ।
क्षालने हि कृते शुद्धे सर्वो रङ्‌गः प्रसज्जते ॥ ७१ ॥
तथा च निर्मले देहे देवानां सम्यगर्चया ।
ज्ञानरङ्‌गः प्रजायेत तदा विज्ञानसम्भवः ॥ ७२ ॥
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।
ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३ ॥
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।
तन्मूलं सद्‌गुरुः प्रोक्तस्तन्मूलं सङ्‌गतिः सताम् ॥ ७४ ॥
सङ्‌गत्या गुरुराप्येत गुरोर्मन्त्रादि पूजनम् ।
पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४ ॥
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।
विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६ ॥
भेदे निवृत्ते सकले द्वन्द्वदुःखविहीनता ।
द्वन्द्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७ ॥
द्वन्द्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।
विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८ ॥
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।
यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९ ॥
तीर्थानि श्लाघयन्तीह तादृशं ज्ञानवित्तमम् ।
देवाश्च मुनयःसर्वे परब्रह्मात्मकं शिवम् ॥ ८० ॥
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१ ॥
यावद्‌गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।
कुर्याच्छ्रेष्ठस्य सुप्रीत्या सुरेषु खलु पञ्चसु ॥ ८२ ॥
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।
मूले सिक्ते तथा शाखास्तृप्ताःसत्यखिलाः सुराः ॥ ८३ ॥
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।
एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४ ॥
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।
शिवे च पूजिते देवाः पूजिताःसर्व एव हि ॥ ८५ ॥
तस्माच्च पूजयेद्देवं शङ्‌करं लोकशङ्‌करम् ।
सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां
प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने
सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP