|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
एकादशोऽध्यायः ॥
शिवपूजाविधिवर्णनम्
ऋषय ऊचुः
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते । श्राविताह्यद्भुता शैवी कथा परमपावनी ॥ १ ॥ तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा । श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥ ब्रह्मनारदसंवादमनुसृत्य दयानिधे । शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३ ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः । कथं कार्यं च तद्ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४ ॥ तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम् । उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥ ५ ॥ सूत उवाच साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः । तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥ भवद्भिः पृच्छ्यते तद्वत्तथा व्यासेन वै पुरा । पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७ ॥ ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् । मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८ ॥ तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः । तदहं कथयिष्यामि यथा ब्रह्माऽवदत्पुरा ॥ ९ ॥ ब्रह्मोवाच शृणु नारद वक्ष्यामि सङ्क्षेपाल्लिङ्गपूजनम् । वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ १० ॥ एवं तु शाङ्करं रूपं मुखं स्वच्छं सनातनम् । पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११ ॥ दारिद्र्यं रोगदुःखं च पीडनं शत्रुसम्भवम् । पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२ ॥ सम्पूजिते शिवे देवे सर्वदुःखं विलीयते । सम्पद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३ ॥ ये वै मानुष्यमाश्रित्य मुख्यं सन्तानतः सुखम् । तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च विधिवत्क्रमात् । शङ्करार्चां प्रकुर्वन्तु सर्वकामार्थसिद्धये ॥ १५ ॥ प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसञ्ज्ञके । गुरोश्च स्मरणं कृत्वा शम्भोश्चैव तथा पुनः ॥ १६ ॥ तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि । ममापि निर्जराणां वै मुन्यादीनां तथा मुने ॥ १७ ॥ ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् । ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८ ॥ एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्य तच्छ्रुतम् । तदेव कथयाम्यद्य शृण्वाधाय मनो मुने ॥ १९ ॥ शुद्धां मृदं द्विजो लिप्यात्पञ्चवारं विशुद्धये । क्षत्रियश्च चतुर्वारं वैश्यो चारत्रयं तथा ॥ २० ॥ शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये । गुदे वाथ सकृल्लिङ्गे वारमेकं प्रयत्नतः ॥ २१ ॥ दशवारं वामहस्ते सप्तवारं द्वयोस्तथा । प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥ २२ ॥ स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम् । हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३ ॥ दन्तकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४ ॥ विप्रः कुर्याद्दन्तकाष्ठं द्वादशाङ्गुलमानतः । एकादशाङ्गुलं राजा वैश्यः कुर्याद्दशाङ्गुलम् ॥ २५ ॥ शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् । कालदोषं विचार्य्यैव मानदुष्टं विवर्जयेत् ॥ २६ ॥ षष्ट्याद्यामश्च नवमी व्रतमस्तं रवेर्दिनम् । तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७ ॥ स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु । देशकालविशेषेण स्नानं कार्यं समन्त्रकम् ॥ २८ ॥ आचम्य प्रथमं तत्र धौतं वस्त्रं च धारतेत् । एकान्ते सुस्थले स्थित्वा सन्ध्याविधिमथाचरेत् ॥ २९ ॥ यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् । मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ ३० ॥ पूजाविधिं समादाय स्वासने ह्युपविश्य वै । न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम् ॥ ३१ ॥ प्रथमं च गणाधीशं द्वारपालांस्तथैव च । दिक्पालांश्च सुसम्पूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२ ॥ अथवाऽष्टदलं कृत्वा पूजाद्रव्यंसमीपतः । उपविश्य ततस्तत्र चोपवेश्य शिवम् प्रभुम् ॥ ३३ ॥ त्रयमाचमनं कृत्वा प्रक्षाल्य च पुनः करौ । प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४ ॥ पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् । सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५ ॥ तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरः सदा । शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६ ॥ देहशुद्धिं ततः कृत्वा मूलमन्त्रं न्यसेत्क्रमात् । सर्वत्र प्रणवेनैव षडङ्गन्यासमाचरेत् ॥ ३७ ॥ कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् । पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत् ॥ ३८ ॥ स्थापयेद्विविधान्कुम्भान्नव धीमान्यथाविधि । दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९ ॥ तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम् । प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ ४० ॥ उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् । जातीकंकोलकर्पूरवटमूलतमालकम् ॥ ४१ ॥ चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके । एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२ ॥
पार्श्वयोर्देवदेवस्य नन्दीशं तु समर्चयेत् । गन्धैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम् ॥ ४३ ॥ लिङ्गशुद्धिं ततः कृत्वा मुदायुक्तो नरस्तदा । यथोचितं तु मन्त्रौघैः प्रणवादिर्नमोन्तकैः ॥ ४४ ॥ कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु । तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५ ॥ लघिमा दक्षिणं चैव महिमा पश्चिमं तथा । प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च ॥ ४६ ॥ ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे । सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७ ॥ सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम् । धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८ ॥ अव्यक्तादि चतुर्दिक्षु सोमस्यान्ते गुणत्रयम् । सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥ ४९ ॥ वामदेवेन मन्त्रेण तिष्ठेच्चैवासनोपरि । सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ ५० ॥ ईशानं सर्वविद्यानामिति मन्त्रेण पूजयेत् । पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत् ॥ ५१ ॥ स्थापयेद्विधिना रुद्रं गन्धचन्दनवारिणा । पञ्चागव्यविधानेन गृह्यपात्रेऽभिमन्त्र्य च ॥ ॥ ५२ ॥ प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् । दध्ना च मधुना चैव तथा चेक्षुरसेन तु ॥ ५३ ॥ घृतेन तु यथा पूज्य सर्वकामहितावहम् । पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ॥ ५४ ॥ पवित्रजलभाण्डेषु मन्त्रैः तोयं क्षिपेत्ततः । शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५ ॥ तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् । तन्दुलैः सुन्दरैस्तत्र पूजयेच्छङ्करम्मुदा ॥ ५६ ॥ कुशापामार्गकर्पूरजातिचम्पकपाटलैः । करवीरैःसितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७ ॥ अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च । जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥ ५८ ॥ पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् । मन्त्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९ ॥ मन्त्रांश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये । प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ ६० ॥ पाठ्यमानेन मन्त्रेण तथा वाङ्मयकेन च । रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥ ६१ ॥ होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च । शान्त्या वाथ पुनः शान्त्या ह्यारुणेनारुणेन च ॥ ६२ ॥ अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च ॥ ६३ ॥ रथान्तरेण पुष्पेण सूक्तेन प्रस्तुतेन च । मृत्युञ्जयेन मन्त्रेण तथा पञ्चाक्षरेण च ॥ ६४ ॥ जलधाराः सहस्रेण शतेनैकोत्तरेण वा । कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५ ॥ ततश्चन्दनपुष्पादि रोपणीयं शिवोपरि । दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६ ॥ ततः स्फटिकसङ्काशं देवं निष्कलमक्षयम् । कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७ ॥ ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् । वेदविद्भिर्हि वेदान्ते त्वगोचरमिति स्मृतम् ॥ ६८ ॥ आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् । शिवतत्त्वमिति ख्यातं शिवलिङ्गं व्यवस्थितम् ॥ ६९ ॥ प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्द्धनि । धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ ७० ॥ नीराजनेन रम्येण यथोक्तविधिना ततः । नमस्कारैः स्तवैश्चान्यैर्मन्त्रैर्नानाविधैरपि ॥ ७१ ॥ अर्घ्यं दत्त्वा तु पुष्पाणि पादयोः सुविकीर्य च । प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२ ॥ हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृताञ्जलिः । प्रार्थयेत्पुनरीशानं मन्त्रेणानेन शङ्करम् ॥ ७३ ॥ अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया । कृतं तदस्तु सफलं कृपया तव शङ्कर ॥ ७४ ॥ पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् । ततः स्वस्त्ययनं कृत्वा ह्याशिषो विविधास्तथा ॥ ७५ ॥ मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः । नमस्कारं ततः क्षान्तिं पुनराचमनाय च ॥ ७६ अघोरमंत्रमुच्चार्य नमस्कारं प्रकल्पयेत् । प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७ ॥ शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भवे भवे । अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८ ॥ इति सम्प्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् । पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९ ॥ नमस्कारं ततः कृत्वा परिवारगणैः सह । प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ ८० ॥ एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः । तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१ ॥ वाग्मी स जायते तस्य मनोभीऽष्टफलं ध्रुवम् । रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२ ॥ कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् । तद्दुःखं नाशयत्येव महादेव शिवः परः ॥ ८३ ॥ कल्याणं जायते तस्य शुक्लपक्षे यथा शशी । वर्द्धते सद्गुणस्तत्र ध्रुवं शङ्करपूजनात् ॥ ८४ ॥ इति पूजाविधिः शम्भोः प्रोक्तस्ते मुनिसत्तम । अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५ ॥ इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥ श्रीगौरीशंकरार्पणमस्तु |