ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - एकचत्वारिंशोऽध्यायः

कैलासवर्णनम् -


नारायण उवाच
हरेश्च कवचं धृत्वा कृत्वा निःक्षत्‌त्रियां महीम् ।
रामो जगाम कैलासं नमस्कर्तुं शिवं गुरुम् ॥ १॥
गुरुपत्‍नीं शिवामम्बां द्रष्टुं गुरुसुतौ च तौ ।
गुणैर्नारायणसमौ कार्तिकेयगणेश्वरौ ॥२॥
मनोयायी महात्मा स भृगुः संप्राप्य तत्क्षणम् ।
ददर्श नगरं रम्यमतीव सुमनोहरम् ॥३॥
शुद्धस्फटिकसकाशैर्मणिभिः सुमनोहरैः ।
सुवर्णभूमिसदृशै राजमार्गैर्विराजितम् ॥४॥
सिन्दूरारुणवणैश्च वेष्टितं मणिवेदिभिः ।
संयुक्तं मुक्तानिकरैः पूरितं मणिमण्डपैः ॥५॥
यक्षाणामालयैर्दिव्यैः संयुक्तं शतकोटिभिः ।
कपाटस्तम्भसोपानैः शोभितैर्मणिनिमितैः ॥६॥
सुवर्णकलशैर्दिव्यै राजतैः श्वेतचामरैः ।
रत्‍नकाञ्चनपूर्णेश्च यक्षेन्द्रगणवेष्टितैः ॥७॥
रत्‍नभूषणभूषाढ्यैर्दीपितैः सुन्दरीगणैः ।
बालिकाभिर्बालकैश्च चित्रपुत्तलिकाकरैः ॥८॥
क्रीडद्‌भिः सस्मितैः शश्वत्स्वच्छन्दं च विराजितैः ।
पारिजातद्रुमगणैः स्वर्णदीतीरनीरजैः ॥९॥
आकीर्णं पुष्पजालैश्च पुष्पितैश्च सुगन्धिभिः ।
कल्पवृक्षाश्रितैः सिद्धैः कामधेनुपुरस्कृतैः ॥ १०॥
सिद्धविद्यासु निपुणैः पुण्यवद्‌भिर्निषेवितम् ।
त्रिलक्षयोजनोच्छ्रायैर्वटवृक्षैरथाक्षयैः ॥ ११॥
शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः ।
असंख्यशाखानिकरैरसंख्यफलसंयुतैः ॥ १२॥
नानापक्षिगणाकीर्णैः सुमनोहरशब्दितैः ।
कम्पितैः शीतवातेन मण्डितं च सुगन्धिना ॥ १३॥
पुष्पोद्यानसहस्रेण सरसां च शतेन च ।
सिद्धेन्द्रालयलक्षैश्च मणिरत्‍नविकारजैः ॥ १४॥
रामश्च दृष्ट्‍वा नगरमतिसंहृष्टमानसः ।
ददर्श पुरतो रम्यं श्रीयुक्तं शकरालयम् ॥ १५॥
सुवर्णमूल्यशतकैर्मणिभिः स्वर्णवर्णकैः ।
खचितं रत्‍नसारैश्चरचितं विश्वकर्मणा ॥ १६॥
त्रिपञ्चयोजनोच्छ्रायं चतुर्योजनविस्तृतम् ।
चतुरस्रं चतुष्कोणं प्राकारं सुमनोहरम् ॥ १७॥
द्वारं रत्‍नकपाटेन नानाचित्रान्वितेन च ।
मणीन्द्रवेदिभिर्युक्तं मणिस्तम्भविराजितैः ॥ १८॥
तद्‌दक्षिणे वृषेन्द्रं च वामे सिंहं च नारद ।
नन्दीश्वरं महाकालं पिङ्‌गलाक्षं भयंकरम् ॥ १९॥
विशालाक्षं च बाणं च विरूपाक्षं महाबलम् ।
विकटाक्षं भास्कराक्षं रक्ताक्षं विकटोदरम् ॥२०॥
संहारभैरवं कालभैरव च भयंकरम् ।
रुरुभैरवमीशाभं महाभैरवमेव च ॥२१॥
कृष्णाङ्‌गभैरव चैव क्रोधभैरवमुल्बणम् ।
कपालभैरवं चैव रुद्रभैरवमेव च ॥२२॥
सिद्धेन्द्रादीन्‌रुद्रगणान्विद्याधरसुगुह्यकान् ।
भूतान्प्रेतान्पिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् ॥२३॥
वेतालान्दानवांश्चैव योगीन्द्राश्च जटाधरान् ।
यक्षान्‌किंपुरुषांश्चैव किन्नरांश्च ददर्श ह ॥२४॥
तान्दृष्ट्‍वा नन्दिकेशाज्ञां गृहीत्वा भृगुनन्दनः ।
तान्सभाष्याभ्यन्तरं च जगामानन्दसंप्लुतः ॥२५॥
रत्‍नेन्द्रसारखचितं ददर्श शतमन्दिरम् ।
अमूल्यरत्‍नकलशैर्ज्वलद्‌भिश्च विराजितम् ॥२६॥
अमूल्यरत्‍नरचितैर्मुक्तानिर्मलदर्पणैः ।
हीरसारविकारैश्च कपालैश्च विराजितम् ॥२७॥
गोरोचनाभिर्मणिभिर्युतं स्तम्भसहस्रकैः ।
मणिसारविकारैश्च सोपानैः परिशोभितम् ॥२८॥
ददर्शाभ्यन्तरं द्वारं नानाचित्रैश्च चित्रितम् ।
माणिक्यमुक्ताग्रथितैर्मालाजालैर्विराजितम् ॥२९॥
ददर्श कार्तिकेयं च वामे दक्षे गणेश्वरम् ।
,वीरभद्रं महाकायं शिवतुल्यपराक्रमम् ॥३०॥
प्रधानपार्षदगणान्क्षेत्रपालांश्च नारद ।
रत्‍नसिंहासनस्थांश्च रत्‍नभूषणभूषितान् ॥३१॥
तात्संभाष्य भृगुः शीघ्रं महाबलपराक्रमः ।
पर्शुहस्तः स परशुरामो गन्तुं समुद्यतः ॥३२॥
गच्छन्तं तं गणेशश्च क्षणं तिष्ठेत्युवाच ह ।
निद्रितो निद्रया युक्तो महादेवोऽधुनेति च ॥३३॥
ईश्वराज्ञां गृहीत्वाऽहमत्राष्ठगत्य क्षणान्तरे ।
त्वया सार्धं गमिष्यामि भ्रातस्तिष्ठात्र सांप्रतम् ॥३४॥
गणेशवाक्यं परशुरामः श्रुत्वा महाबलः ।
बृहस्पतिसमो वक्ता प्रवक्तुमुपचक्रमे ॥३५॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे कैलासवर्णनं
नामैकचत्वारिंशोऽध्यायः ॥४१॥


GO TOP