ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - त्रयोविंशोऽध्यायः

विरोधादिलक्ष्मीचरित्रकथनम् -


नारायण उवाच
इन्द्रश्च गुरुणा सार्धं सुरैः संहृष्टमानसः ।
जगाम शीघ्रं पद्मायै तीरं क्षीरपयोनिधेः ॥ १ ॥
कवचं च गले बद्ध्वा सद्‌रत्‍नगुटिकान्वितम् ।
मनसा स्तवनं दिव्यं स्मारं स्मारं पुनः पुनः ॥ २ ॥
ते सर्वे भक्तियुक्ताश्च तुष्टुवुः कमलालयाम् ।
साश्रुनेत्राश्च दीनाश्च भक्तिनम्रात्मकंधराः ॥ ३ ॥
सा तेषां स्तवनं श्रुत्वा सद्यः साक्षाद्‌बभूव ह ।
सहस्रदलपद्मस्था शतचन्द्रसमप्रभा ॥ ४ ॥
जगद्‌व्याप्तं सुप्रभया जगन्मात्रा यया मुने ।
तानुवाच जगद्धात्री हितं सारं यथोचितम् ॥ ५ ॥
महालक्ष्मीरुवाच
वत्सा नेच्छामि वो गेहान्गन्तु नैवं क्षमाऽधुना ।
भ्रष्टान्दृष्ट्‍वा ब्रह्मशापाद्‌बिभेमि ब्रह्मशापतः ॥ ६ ॥
प्राणा मे ब्राह्मणाः सर्वे शश्वत्पुत्राधिकं प्रियाः ।
विप्रदत्तं च यत्किंचिदुपजीव्यं सदैव च ॥ ७ ॥
विप्रा ब्रुवन्तु मां तुष्टा यास्यामि भवदाज्ञया ।
न मे पूजां ध्रुवं कर्तुं क्षमास्ते च तपस्विनः ॥ ८ ॥
गुरुभिर्ब्राह्मणैर्देवैर्भिक्षुभिर्वैष्णवैस्तथा ।
यदभाव्यं भवेद्‌दैवात्ते शप्ताः सन्ति तैः सदा ॥ ९ ॥
नारायणश्च भगवान्बिभेति ब्रह्मशापतः ।
सर्वबीजं च भगवान्सर्वेशश्च सनातनः ॥ १० ॥
एतस्मिन्नन्तरे ब्रह्मन्ब्राह्मणा हृष्टमानसाः ।
आजग्मुः सस्मिता सर्वे ज्यलन्तोब्रह्मतेजसा ॥ ११ ॥
अङ्‌गिरा प्रचेताश्च क्रतुश्च भृगुरेव च ।
पुलहश्च पुलस्त्यश्च मरीचिश्चात्रिरेव च ॥ १२ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
सनत्कुमारो भगवात्साक्षान्नारायणात्मकः ॥ १३ ॥
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।
दुर्वासाः कश्यपोऽगस्त्यो गौतमः कण्व एव च ॥ १४ ॥
और्वः कात्यायनश्चैव कणादः पाणिनिस्तथा ।
मार्कण्डेयो लोमशश्च वसिष्ठो भगवान्स्वयम् ॥ १५ ॥
ब्राह्मणा विविधैर्द्रव्यैः पूजयामासुरीश्वरीम् ।
देवाश्चारण्यनैवेद्यैरुपहारेण भक्तितः ॥ १ ६ ॥
स्तुत्वा मुनीन्द्रास्तां भक्त्या चक्रुराराधनं मुदा ।
आगच्छ देवभवनं मर्त्यं च जगदम्बिके ॥ १७ ॥
तेषां तद्वचनं श्रुत्वा तानुवाच जगत्प्रसूः ।
परितुष्टा गामुको च निर्भया ब्राह्मणाज्ञया ॥ १८ ॥
महालक्ष्मीरुवाच
गृहान्यास्यामि देवानां युष्माकं चाऽऽज्ञया द्विजाः ।
येषां गेहं न गच्छामि शृणुध्वं भारतेषु च ॥ १९ ॥
स्थिरा पुण्यवतां गेहे सुनीतिपथवेदिनाम् ।
गृहस्थानां नृपाणां वा पुत्रवत्पालयामि तान् ॥ २० ॥
यं यं रुष्टो गुरुर्देवो माता तातश्च बान्धवाः ।
अतिथिः पितृलोकश्च यामि तस्य न मन्दिरम् ॥ २ १ ॥
मिथ्यावादी च यः शश्वदनध्यायी च यः सदा ।
सत्त्वहीनश्च बुःशीलोन गेहं तस्य याम्यहम् ॥ २२ ॥
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः ।
विश्वासघ्नः कृतघ्नो यो यामि तस्य न मन्दिरम् ॥ २३ ॥
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी ।
ऋणग्रस्तोऽतिकृपणो न गेहं यामि पापिनाम् ॥ २४ ॥
दीक्षाहीनश्च शोकार्तो मन्दधीः स्त्रीजितः सदा ।
न याम्यपि कदा गेहं पुंश्चल्याः पतिपुत्रयोः ॥ २५ ॥
पुंश्चल्यन्नमवीरान्नं यो भुडःस्ते कामदः सदा ।
]गूद्रान्नभोजी तद्याजी तद्‌गेहं नैव याम्यहम् ॥ २६ ॥
यो दुर्वाक्कलहाविष्टः कलिः शश्वद्यदालये ।
स्त्री प्रधानागृहे यस्ययामि तस्य न मन्दिरम् ॥ २७ ॥
यत्र नास्ति हरेः पूजा तदीयगुणकीर्तनम् ।
नोत्सुकस्तत्प्रशंसायां यामि तस्य न मन्दिरम् ॥ २८ ॥
कन्यान्नवेदविक्रेता नरघाती च हिंसकः ।
नरकागारसदृशं यामि तस्य न मन्दिरम् ॥ २९ ॥
मातरं पितर भार्यां गुरुपत्‍नीं गुरोः सुताम् ।
अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान् ॥ ३० ॥
कार्पण्याद्यो न पुष्णाति संचयं कुरुते सदा ।
तद्‌गेहान्नरकागारान्यामि तान्न मुनीश्वराः ॥ ३१ ॥
दशनं वसनं यस्य समलं रूक्षमस्तकम् ।
विकृतौ ग्रासहासौ च यामि तस्य न मन्दिरम् ॥ ३२ ॥
मूत्रं पुरीषमुत्सृज्य यस्तत्पश्यति मन्दधीः ।
यः शेते स्निग्धपादेन यामि तस्य न मन्दिरम् ॥ ३३ ॥
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः ।
संध्याशायी दिवाशायी यामि तस्य न मन्दिरम् ॥ ३४ ॥
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्‌गमुपक्ष्यृशेत् ।
ददाति पश्चाद्‌गात्रे वा यामि तस्य न मन्दिरम् ॥ ३५ ॥
दत्त्वा तैलं मूर्ध्नि गात्रे विण्मूत्रं समुत्सृजेत् ।
प्रणमेदाहरेत्पुष्पं यामि तस्य न मन्दिरम् ॥ ३६ ॥
तृणं छिनत्ति नखरैर्नखरैर्विलिखेन्महीम् ।
गात्रे पादे मलो यस्य यामि तस्य न मन्दिरम् ॥ ३७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च ।
यो हरेज्ज्ञानशीलश्च यामि तस्य न मन्दिरम् ॥ ३८ ॥
यत्कर्म दक्षिणाहीनं कुरुते मूढधीः शठः ।
स पापी पुण्यहीनश्च यामि तस्य न मन्दिरम् ॥ ३९ ॥
मन्त्रविद्योपजीवी च ग्रामयाजीं चिकित्सकः ।
सूपकृद्‌देवलश्चैव यामि तस्य न मन्दिरम् ॥ ४० ॥
विवाहं धर्मकार्यं वा यो निहन्ति च कोपतः ।
दिवा मैथुनकारी यो यामि तस्य न मन्दिरम् ॥ ४१ ॥
इत्युक्त्वा सा महालक्ष्मीरन्तर्धानं जगाम ह ।
ददौ दृष्टिं च देवानां गृहे मर्त्ये च नारद ॥ ४२ ॥
तां प्रणम्य सुराः सर्वे मुनयश्च मुदाऽन्विताः ।
प्रजग्मुः स्वालयं शीघ्रं शत्रुत्यक्तं सुहद्युतम् ॥ ४३ ॥
नेदुर्दुन्दुभयः स्वर्गे बभूवुः पुष्पवृष्टयः ।
प्रापुर्देवाः स्वराज्यं च निश्चलां कमलां मुने ॥ ४४ ॥
इत्येवं कथितं वत्स लक्ष्मीचरितमुत्तमम् ।
सुखदं मोक्षदं सारं किं पुनः श्रोतुमिच्छसि ॥ ४५ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
विरोधादिलक्ष्मीचरित्रकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥


GO TOP