ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - अष्टचत्वारिंशोऽध्यायः

राधोपाख्याने राधोत्पत्तिकथनम् -


नारद उवाच
नारायण महाभाग नारायणपरायण ।
नारायणांश भगवन्ब्रूहि नारायणीं कथाम् ॥ १ ॥
श्रुतं सुरभ्युपाख्यानमतीव सुमनोहरम् ।
गोप्यं सर्वपुराणेषु पुराविद्‌भिः प्रशंसितम् ॥ २ ॥
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ।
तदुत्पत्तिं च तद्ध्यानं स्तोत्रं कवचमुत्तमम् ॥ ३ ॥
नारायण उवाच
पुरा कैलासशिखरे भगवन्तं सनातनम् ।
सिद्धेशं सिद्धिद्धं सर्वस्वरूपं शंकरं परम् ॥ ४ ॥
प्रफुल्लवदनं प्रीतं सस्मितं मुनिभिः स्तुतम् ।
कुमाराय प्ररोचन्तं कृष्णस्य परमात्मनः ।
रासोत्सवरसाख्यानं रासमण्डलवर्णनम् ॥ ५ ॥
तदाख्यानावसाने च प्रस्तावावसरे सती ।
पप्रच्छ पार्वती स्फीता सस्मिता प्राणवल्लभम् ॥ ६ ॥
स्तवनं कुर्वती भीता प्राणेशेन प्रसादिता ।
प्रोवाच तं महादेवं महादेवी सुरेश्वरी ॥ ७ ॥
पार्वत्युवाच
अपूर्वं राधिकाख्यानं पुराणेषु सुदुर्लभम् ।
आगमं निखिलं नाथ श्रुतं सर्वमनुत्तमम् ॥ ८ ॥
पाञ्चरात्रादिकं नीतिशास्त्रं योगं च योगिनाम् ।
सिद्धानां सिद्धिशास्त्रं च नानातन्त्रं मनोहरम् ॥ ९ ॥
भक्तानां भक्तिशास्त्रं च कृष्णस्य परमात्मनः ।
देवीनामपि सर्वासां चरितं त्वन्मुखाम्बुजात् ॥ १० ॥
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ।
श्रुतौ श्रुतं प्रशस्तं च राधायाश्च समासतः ॥ ११ ॥
त्वन्मुखात्काण्वशाखायां व्यासेनोक्तं वदाधुना ।
आगमाख्यानकाले च भवता स्वीकृतं पुरा ॥ १२ ॥
नहीश्वरव्याहृतिश्च मिथ्या भवितुमर्हति ।
तदुत्पत्तिं च तद्ध्यानं नाम्नो माहात्म्यमुत्तमम् ॥ १३ ॥
पूजाविधानं चरितं स्तोत्रं कवचमुत्तमम् ।
आराधनविधानं च पूजापद्धतिमीप्सिताम् ॥ १४ ॥
सांप्रतं ब्रूहि भगवन्मां भक्तां भक्तवत्सल ।
कथं न कथितं पूर्वमागमाहयानकालतः ॥ १५ ॥
पार्वतीवचनं श्रुत्वा नम्रवक्त्रो बभूव सः ।
पञ्चवक्त्रश्च भगवाञ्छुष्ककण्ठोष्ठतालुकः ॥ १६ ॥
स्वसत्यभङ्‌गभीतश्च मौनीभूय विचिन्तयन् ।
सस्मार कृष्णं ध्यानेनाभीष्टदेवं कृपानिधिम् ॥ १७ ॥
तदनु ज्ञानं संप्राप्य स्वार्धाङ्‌गां तामुवाच सः ॥ १८ ॥
महादेव उवाच
निषिद्धोऽहं भगवता कृष्णेन परमात्मना ।
आगमारम्भसमये राधाख्यानप्रसङ्‌गतः ॥ १९ ॥
मदर्धाङ्‌गस्वरूपा त्वं न मद्‌भिन्ना स्वरूपतः ।
अतोऽनुज्ञां ददौ कृष्णो मह्यं वक्तुं महेश्वरि ॥ २० ॥
मदिष्टदेवकान्ताया राधायाश्चरितं सति ।
अतीव गोपनीयं च सुखदं कृष्णभक्तिदम् ॥ २१ ॥
जानामि तदहं दुर्गे सर्वं पूर्वापरं वरम् ।
यज्जानामि रहस्यं च न तद्‌ब्रह्मा फणीश्वरः ॥ २२ ॥
न तत्सनत्कुमारश्च न च धर्मः सनातनः ।
न देवेन्द्रो मुनीन्द्राश्च सिद्धेन्द्राः सिद्धपुंगवाः ॥ २३ ॥
मत्तो बलवती त्वं च प्राणांस्त्यक्तुं समुद्यता ।
अतस्त्वां गोपनीयं च कथयामि सुरेश्वरि ॥ २४ ॥
शृणु दुर्गे प्रवक्ष्यामि रहस्यं परमाद्‌भुतम् ।
चरितं राधिकायाश्च दुर्लभं च सुपुण्यदम् ॥ २५ ॥
पुरा वृन्दावने रम्ये गोलोके रासमण्डले ।
शतशृङ्‌गैकदेशे च मालतीमल्लिकावने ॥ २६ ॥
रत्‍नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः ।
स्वेच्छामयश्च भगवान्बभूव रमणोत्सुकः ॥ २७ ॥
रिरंसोस्तस्य जगतां पत्युस्तन्मल्लिकावने ।
इच्छया च भवेत्सर्वं तस्य स्वेच्छामयस्य च ॥ २८ ॥
एतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः ।
दक्षिणाङ्‌गं च श्रीकृष्णो वामार्धाङ्‌गं च राधिका ॥ २९ ॥
बभूव रमणी रम्या रासेशा रमणोत्सुका ।
अमूल्यरत्‍नाभरणा रत्‍नसिंहासनस्थिता ॥ ३० ॥
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा ।
तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा ॥ ३ १ ॥
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना ।
बिभ्रती कबरीं रम्यां मालतीमाल्यमण्डिताम् ॥ ३२ ॥
रत्‍नमालां च दधती ग्रीष्मसूर्यसमप्रभाम् ।
मुक्ताहारेण शुभ्रेण गङ्‌गाधारानिभेन च ॥ ३३ ॥
सयुक्त वर्तुलोत्तुङ्‌गं सुमेरुगिरिसंनिभम् ।
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचिह्नितम् ॥ ३४ ॥
माङ्‌गल्यं मङ्‌गलार्हं च स्तनयुग्मं च बिभ्रती ।
नितम्बश्रोणिभारार्ता नवयौवनसुन्दरी ॥ ३५ ॥
कामातुरां सस्मितां तां ददर्श रसिकेश्वरः ।
दृष्ट्‍वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः ॥ ३६ ॥
दृष्ट्‍वा रिरंसुं कान्तं च सा दधार हरेः पुरः ।
तेन राधा समाख्याता पुराविद्‌भिर्महेश्वरि ॥ ३७ ॥
राधा भजति तं कृष्णं स च तां च परस्परम् ।
उभयोः सर्वसाम्यं च सदा सन्तो वदन्ति च ॥ ३८ ॥
भवनं धावनं रासे स्मरत्यालिङ्‌गनं जपन् ।
तेन जल्पति संकेतं तत्र राधां स ईश्वरः ॥ ३९ ॥
राशब्दोच्चारणाद्‌भक्तो राति मुक्तिं सुदुर्लभाम् ।
धाशब्दोच्चारणाद्‌दुर्गे धावत्येव हरेः पदम् ॥ ४० ॥
कृष्णवामांशसंभूता राधा रासेश्वरी पुरा ।
तस्याश्चांशांशकलया बभूवुर्देवयोषितः ॥ ४१ ॥
रा इत्यादानवचनो धा च निर्वाणवाचकः ।
ततोऽवाप्नोति मुक्तिं च तेन राधा प्रकीर्तिता ॥ ४२ ॥
बभूव गोपीसंघश्च राधाया लोमकूपतः ।
श्रीकृष्णलोमकूपेभ्यो बभूवुः सर्वबल्लवाः ॥ ४३ ॥
राधावामांशभागेन महालक्ष्मीर्बभूव सा ।
तस्याधिष्ठातृदेवी सा गृहलक्ष्मीर्बभूव सा ॥ ४४ ॥
चतुर्भुजस्य सा पत्‍नी देवी वैकुण्ठवासिनी ।
तदंशा सिन्धुकन्या च श्वेतद्वीपनिवासिनी ॥ ४५ ॥
क्षीरोदशायिनः पत्‍नी विष्णोर्विषयिणः शिवे ।
तदंशा सा स्वर्गलक्ष्मीः शक्रसंपत्प्रदायिनी ॥
तदंशा राजलक्ष्मीश्च राजसंपत्प्रदायिनी ॥ ४६ ॥
तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे ।
दीपाधिष्ठातृदेवी च सा चैव गृहदेवता ॥ ४७ ॥
स्वयं राधा कृष्णपत्‍नी कृष्णवक्षःस्थलस्थिता ।
प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः ॥ ४८ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ॥ ४९ ॥
परं प्रधानं परमं परमात्मानमीश्वरम् ।
सर्वाद्यं सर्वपूज्यं च निरीहं प्रकृतेः परम् ॥ ५० ॥
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् ।
तद्‌भिन्नानां च देवानां प्राकृतं रूपमेव च ॥ ५१ ॥
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता ।
महाविष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी ॥ ५२ ॥
मानिनीं राधिकां सन्तः सेवन्ते नित्यशः सदा ।
सुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥ ५३ ॥
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः ।
स्वयं देवी हरेः क्रोडे छायारूपेण कामिनी ॥ ५४ ॥
स च द्वादशगोपानां रायणः प्रवरः प्रिये ।
श्रीकृष्णांशश्च भगवान्विष्णुतुल्यपराक्रमः ॥ ५५ ॥
सुदामशापात्सा देवी गोलोकादागता महीम् ।
वृषभानुगृहे जाता तन्माता च कलावती ॥ ५६ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
राधोपाख्याने राधोत्पत्तिकथनं नामाष्टचत्वारिशोऽध्यायः ॥ ४८ ॥


GO TOP