ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - द्विचत्वारिंशोऽध्यायः

दक्षिणोपाख्याने दक्षिणोत्पत्तितत्पूजादिविधानम् -


नारायण उवाच
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।
वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय ॥ १ ॥
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।
राधाप्रधाना सध्रीची धन्या मान्या मनोहरा ।
अतीव सुन्दरी रामा सुभगा सुदती सती ॥ २ ॥
विद्यावती गुणवती सती रूपवती तथा ।
कलावती कोमलाङ्‌गी कान्ता कमललोचना ॥ ३ ॥
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला ।
ईषद्धास्यप्रसन्नास्या रत्‍नालंकारभूषिता ॥ ४ ॥
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ।
कामशास्त्रसुनिष्णाता कामिनी कलहंसगा ॥ ५ ॥
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ।
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ॥ ६ ॥
उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा ।
संबभूवाऽऽनम्रमुखो भयेन मधुसूदनः ॥ ७ ॥
दृष्ट्‍वा राधां च पुरतो गोपीनां प्रवरां पराम् ।
मानिनीं रक्तवदनां रक्तपङ्‌कजलोचनाम् ॥ ८ ॥
कोपेन कम्पिताङ्‌गीं च कोपना कोपदर्शनाम् ।
कोपेन निष्ठुरं वक्तुमुद्यतां स्फुरिताधराम् ॥ ९ ॥
आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम् ।
विरोधभीतो भगवानन्तर्धानं जगाम सः ॥ १० ॥
पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम् ।
विलोक्य कम्पिता गोपी सुशीलाऽन्तर्दधौ भिया ॥ ११ ॥
विलोक्य संकटं तत्र गोपीनां लक्षकोटयः ।
बद्धाञ्जलिपुटा भीता भक्तिनम्रात्मकंधराः ॥ १२ ॥
रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः ।
ययुर्भयेन शरणं तस्याश्चरणपङ्‌कजे ॥ १३ ॥
त्रिलक्षकोटयो गोपाः सुदामादय एव च ।
युयुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४ ॥
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी ।
पलायन्तो सहचरीं सुशीलां च शशाप सा ॥ १५ ॥
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६ ॥
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा ।
रासेश्वरी रासमध्ये रासेशं चाऽऽजुहाव ह ॥ १७ ॥
नाऽऽलोक्य पुरतः कृष्णं राधा विरहकातरा ।
युगकोटिसमं मेने क्षणं भेदेन सुव्रता ॥ १८ ॥
हे कृष्ण हे प्राणनाथाऽऽगच्छ प्राणाधिकप्रिय ।
प्राणाधिष्ठातृदेवेह प्राणा यान्तित्वया विना ॥ १९ ॥
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने ।
सुस्त्री चेद्विभवो यस्मात्तं भजेद्धर्मतः सदा ॥ २० ॥
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः ।
परं संपत्स्वरूपश्च सुखरूपश्च मूर्तिमान् ॥ २१ ॥
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।
संमानदो मानदश्च मान्यो वै मानमण्डनः ॥ २२ ॥
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्धनः ।
न च भर्तृसमो बन्धुः सर्वबन्धुषु दृश्यते ॥ २३ ॥
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदः कान्त एव च ॥ २४ ॥
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः ।
ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ २५ ॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ २६ ॥
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ २७ ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि वै ॥ २८ ॥
सर्वाण्येव व्रतादीनि महादानानि यानि च ।
उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः ॥ २९ ॥
गुरुसेवा विप्रसेवा देवसेवादिकं च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३० ॥
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः ।
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ॥ ३१ ॥
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च ।
ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च ॥ ३२ ॥
रमादिगोपकान्तानामीश्वरी यत्प्रसादतः ।
अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ ३३ ॥
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः ।
आरात्संप्राप तं तेन विजहार च तत्र वै ॥ ३४ ॥
अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ।
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ ॥ ३५ ॥
अथ देवादयः सर्वे यज्ञं कृत्त्वा सुदुष्करम् ।
न लभन्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ॥ ३६ ॥
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः ।
दध्यौ सुचिन्तितो भक्त्या तत्प्रत्यादेशमाप सः ॥ ३७ ॥
नारायणश्च भगवान्महालक्षम्याश्च देहतः ।
मर्त्यलक्ष्मीं विनिष्कृत्य ब्रह्मणे दक्षिणां ददौ ॥ ३८ ॥
ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम् ।
यज्ञः संपूज्य विधिवत्तां तुष्टाव रमां मुदा ॥ ३९ ॥
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ।
अतीव कमनीयां च सुन्दरीं सुमनोहराम् ॥ ४० ॥
कमलास्यां कोमलाङ्‌गी कमलायतलोचनाम् ।
कमलासनसंपूज्यां कमलाङ्‌गसमुद्‌भवाम् ॥ ४१ ॥
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यभूषितम् ॥ ४२ ॥
ईषद्धास्यप्रसन्नास्यां रत्‍नभूषणभूषिताम् ।
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनोम् ॥ ४३ ॥
कस्तुरीबिन्दुभिः सार्धं चन्दनैश्च सुगन्धिभिः ।
सिन्दूरबिन्दुनाऽत्यन्तं मस्तकाधःस्थलोज्ज्वलाम् ॥ ४४ ॥
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ।
कामदेवाधाररूपां कामबाणप्रपीडिताम् ॥ ४५ ॥
तां दृष्ट्‍वा रमणीयां च यज्ञो मूर्च्छामवापह ।
पत्‍नीं तामेव जग्राह विधिबोधितमार्गतः ॥ ४६ ॥
दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने ।
यज्ञो रेमे मुदा युक्तो रामया रमया सह ॥ ४७ ॥
गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम् ।
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ॥ ४८ ॥
कर्मणां फलदाता च दक्षिणां कर्मणां सताम् ।
परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥ ४९ ॥
यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च ।
कर्मणां फलदाता चेत्येवं वेदविदो विदुः ॥ ५० ॥
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।
फलं ददौ च सर्वेभ्यः कर्मठेभ्यो यदो मुने ॥ ५ १ ॥
तदा देवादयश्तुष्टाः परिपूर्णमनोरथाः ।
स्वस्थानं प्रययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ ५२ ॥
कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम् ।
तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ ५३ ॥
कर्ता कर्मणि पूर्णेऽपि तत्क्षणाद्यदि दक्षिणाम् ।
न दद्याद्‌ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ ५४ ॥
मुहूर्त समतीते च द्विगुणा सा भवेद्ध्रुवम् ।
एकरात्रे व्यतीते तु भवेद्‌रसगुणा च सा ॥ ५५ ॥
त्रिरात्रे वै दशगुणा सप्ताहे द्विगुणा ततः ॥ ५६ ॥
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ।
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ॥ ५७ ॥
कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ।
स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः ॥ ५८ ॥
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ।
तद्‌गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ॥ ५९ ॥
पितरो नैव गृह्णन्ति तद्‌दत्तं श्राद्धतर्पणम् ।
एवं सुराश्च तत्पूजां तद्‌दत्तां पावकाहुतिम् ॥ ६० ॥
दाता ददाति नो दानं गृहीता तन्न याचते ।
उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ॥ ६१ ॥
नार्पयेद्यजमानश्चेद्याचितारं च दक्षिणाम् ।
भवेद्‌ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ॥ ६२ ॥
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ।
ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः ॥ ६३ ॥
पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः ।
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥
नारद उवाच
यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ।
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ॥ ६५ ॥
नारायण उवाच
कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ।
सदक्षिणे कर्मणि च फलमेव प्रवर्धते ॥ ६६ ॥
या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने ।
बलये तत्प्रदत्तं च वामनेन पुरा मुने ॥ ६७ ॥
अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च ।
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ॥ ६८ ॥
ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत् ।
गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ॥ ६९ ॥
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ।
तत्सर्वं काण्वशाखोक्तं प्रवक्ष्यामि निशामय ॥ ७० ॥
पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम् ।
मुमोह तस्या रूपेण तुष्टुवे कामकातरः ॥ ७१ ॥
यज्ञ उवाच
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा ।
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ॥ ७२ ॥
कार्तिके पूर्णिमायां तु रासे राधामहोत्सवे ।
आविर्भूता दक्षिणांशात्कृष्णस्यातो हि दक्षिणा ॥ ७३ ॥
पुरा त्वं च सुशीलाख्या शीलेन सुशुभेन च ।
कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ॥ ७४ ॥
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।
कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ॥ ७५ ॥
कर्तृणां कर्मणां देवी त्वमेव फलदा सदा ।
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ॥ ७६ ॥
फलशाखाविहीनश्च यथा वृक्षो महीतले ।
त्वया विना तथा कर्म कर्तृणां च न शोभते ॥ ७७ ॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७८ ॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ७९ ॥
फलदाता परं ब्रह्म निर्गुणः प्रकृते परः ।
स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ॥ ८० ॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ ८१ ॥
इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः ।
तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ ८२ ॥
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलं च सर्वयज्ञानां लभते नात्र संशयः ॥ ८३ ॥
राजसूये वाजपेये गोमेधे नरमेधके ।
अश्वमेधे लाङ्‌गले च विष्णुयज्ञे यशस्करे ॥ ८४ ॥
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके ।
लोहयज्ञे स्वर्णयज्ञे पटलव्याधिखण्डने ॥ ८५ ॥
शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धके ।
इष्टौ वरुणयागे च कन्दुके वैरिमर्दने ॥ ८६ ॥
शुचियागे धर्मयागे रेचने पापमोचने ।
बन्धने कर्मयागे च मणियागे सुभद्रके ॥ ८७ ॥
एतेषां च समारम्भ इदं स्तोत्रं च यः पठेत् ।
निर्विघ्नेन च तत्कर्म साङ्‌गं भवति निश्चितम् ॥ ८८।
इति स्तोत्रं च कथितं ध्यानं पूजाविधिं शृणु ।
शालग्रामे घटे वाऽपि दक्षिणां पूजयेत्सुधीः ॥ ८९ ॥
लक्ष्मीदक्षांशसंभूतां दक्षिणां कमलाकलाम् ।
सर्वकर्मसु दक्षां च फलदा सर्वकर्मणाम् ॥ ९० ॥
विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् ।
शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे ॥ ९१ ॥
ध्यात्वाऽनेनैव वरदां सुधीमूलेन पूजयेत् ।
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद ॥ ९२ ॥
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।
पूजयेद्विधिवद्‌भक्त्या दक्षिणां सर्वपूजिताम् ॥ ९३ ॥
इत्येवं कथितं सर्वं दक्षिणाख्यानमुत्तमम् ।
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥ ९४ ॥
इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।
अङ्‌गहीनं च तत्कर्म न भवेद्‌भारते भुवि ॥ ९५ ॥
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।
भार्याहीनो लभेद्‌भार्यां सुशीलां सुन्दरीं पराम् ॥ ९६ ॥
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।
पतिव्रतां सुव्रतां च शुद्धां च कुलजां वराम् ॥ ९७ ॥
विद्याहीनो लभेद्विद्यां धनहीनो धनं लभेत् ।
भूमिहोनो लभेद्‌भूमिं प्रजाहीनो लभेत्प्रजाः ॥ ९८ ॥
संकटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ॥ ९९ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दक्षिणोपाख्याने
दक्षिणोत्पत्तितत्पूजादिविधानं
नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥


GO TOP