ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकचत्वारिंशोऽध्यायः

स्वाहोपाख्याने स्वधोत्पत्तितत्पूजादिकम् -


नारायण उवाच
शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।
पितॄणा वै तृप्तिकरं श्राद्धानां फलवर्धनम् ॥ १ ॥
सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः ।
चतुरो वै मूर्तिमतस्त्रींश्च तेजः स्वरूपिणः ॥ २ ॥
सप्त दृष्ट्‍वा पितृगणान्सिद्धिरूपान्मनोहरान् ।
आहारं ससृजे तेषां श्राद्धतर्पणपूर्वकम् ॥ ३ ॥
स्नानं तर्पणपर्यन्तं श्राद्धान्तं देवपूजनम् ।
आह्निकं च त्रिसंध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ ४ ॥
नित्यं न कुर्याद्यो विप्रस्त्रिसंध्यं श्राद्धतर्पणम् ।
बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ ५ ॥
हरिसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् ।
जन्मान्त सूतकं तस्य न कर्मार्हः स नारद ॥ ६ ॥
ब्रह्मा श्राद्धादिकं सृष्ट्‍वा जगाम पितृहेतवे ।
न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ ७ ॥
सर्वे प्रजग्मुः क्षुधिता विषण्णा ब्रह्मणः सभाम् ।
सर्वे निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ ८ ॥
ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम् ।
रूपयौवनसंपन्ना शरच्चन्द्रसमप्रभाम् ॥ ९ ॥
विद्यावतीं गुणवतीमपि रूपवतीं सतीम् ।
श्वेतचंपकवर्णाभां रत्‍नभूषणभूषिताम् ॥ १० ॥
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् ।
स्वधाभिधानां सुरतीं लक्ष्मीं लक्षणसंयुताम् ॥ ११ ॥
शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् ।
पत्‍नीं पितृणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ १२ ॥
पितृभ्यस्तां ददौ कन्यां तुष्टेभ्यस्तुष्टिरूपिणीम् ।
ब्राह्मणानां चोपदेशं चक्रे वै गोपनीयकम् ॥ १३ ॥
स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देहि चेति च ।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ १४ ॥
स्वाहा शस्ता देवदाने पितृदाने स्वधा वरा ।
सर्वत्र दक्षिणा शस्ता हृतो यज्ञस्त्वदक्षिणः ॥ १५ ॥
पितरो देवता विप्रा मुनयो मानवास्तथा ।
पूजां चक्रुः स्वधां शान्तां तुष्टाव परमादरम् ॥ १६ ॥
देवादयश्च संतुष्टाः परिपूर्णमनोरथाः ।
विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ १७ ॥
इत्येवं कथितं सर्वं स्वधोपाख्यानमुत्तमम् ।
सर्वेषां वै तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ १८ ॥
नारद उवाच
स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने ।
श्रोतुमिच्छामि यत्‍नेन वद वेदविदां वर ॥ १९ ॥
नारायण उवाच
तद्ध्यानं स्तवनं ब्रह्मन्वेदोक्तं सर्वसंमतम् ।
सर्वं जानासि वक्ष्ये वै ज्ञातुमिच्छसि वृद्धये ॥ २० ॥
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।
स्वधां संपूज्य यत्‍नेन ततः श्राद्धं समाचरेत् ॥ २१ ॥
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहंमतिः ।
न भवेत्फलभाक्सत्यं श्राद्धतर्पणयोस्तथा ॥ २२ ॥
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् ।
पूज्या पितृणां देवानां श्राद्धानां फलदां भजे ॥ २३ ॥
इति ध्यात्वा घटे रम्ये शालग्रामेऽथवा शुभे ।
दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥ २४ ॥
ओं ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामनुम् ।
समुच्चार्य च संपूज्य स्तुत्वा तां प्रणमेद्‌द्विजः ॥ २५ ॥
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद ।
सर्ववाञ्छाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा ॥ २६ ॥
ब्रह्मोवाच
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ २७ ॥
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।
श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥ २८ ॥
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।
लभेच्छ्राद्धशतानां च पुण्यमेव न संशयः ॥ २९ ॥
स्वधा स्वधा स्वधेत्येवं त्रिसंध्यं यः पठेन्नरः ।
प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम् ॥ ३० ॥
पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ ३१ ॥
बहिर्मन्मनसो गच्छ पितृणां तुष्टिहेतवे ।
संप्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ॥ ३२ ॥
नित्यानित्यस्वरूपाऽसि गुणरूपाऽसि सुव्रते ।
आविर्भावस्तिरोभावः सृष्टौ च प्रलये तव ॥ ३३ ॥
ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा ।
निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम् ॥ ३४ ॥
पुराऽऽसीस्त्वं स्वधागोपी गोलोके राधिकासखी ।
धृता स्वोरसि कृष्णेन यतस्तेन स्वधा स्मृता ॥ ३५ ॥
ध्वस्ता त्वं राधिकाशापाद्‌गोलोकाद्विश्वमागता ।
कृष्णाश्लिष्टा तया दृष्टा पुरा वृन्दावने वने ॥ ३६ ॥
कृष्णालिङ्‌गनपुण्येन भूता मे मानसी सुता ।
अतृप्ता सुरते तेन चतुर्णां स्वामिनां प्रिया ॥ ३७ ॥
स्वाहा सा सुन्दरी गोपी पुराऽऽसीद्‌राधिकासखी ।
रतौ स्वयं कृष्णमाह तेन स्वाहा प्रकीर्तिता ॥ ३८ ॥
कृष्णेन सार्धं सुचिरं वसन्ते रासमण्डले ।
प्रमत्ता सुरते श्लिष्टा दृष्टा सा राधया पुरा ॥ ३९ ॥
तस्याः शापेन सा ध्वस्ता गोलोकाद्विश्वमागता ।
कृष्णालिङ्‌गनपुण्येन समभूद्वह्निकामिनी ॥ ४० ॥
पवित्ररूपा परमा देवाद्यैर्वन्दिता नृभिः ।
यन्नामोच्चारणेनैव नरो मुच्येत पातकात् ॥ ४१ ॥
या सुशीलाभिधा गोगी पुराऽऽसीद्‌राधिकासखी ।
उवास दक्षिणे क्रोडे कृष्णस्य च महात्मनः ॥ ४२ ॥
प्रध्वस्ता सा च तच्छापाद्‌गोलोकाद्विश्वमागता ।
कृष्णालिङ्‌गनपुण्येन सा बभूव च दक्षिणा ॥ ४३ ॥
सा प्रेयसी रतौ दक्षा प्रशस्ता सर्वकर्मसु ।
उवास दक्षिणे भर्तृर्लक्षिणा तेन कीर्तिता ॥ ४४ ॥
गोप्यो बभूवुस्तिस्रो वै स्वधा स्वाहा च दक्षिणा ।
कर्मिणां कर्मपूर्णार्थं पुरा चैवेश्वरेच्छया ॥ ४५ ॥
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि ।
तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह ॥ ४६ ॥
तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ।
तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ॥ ४७ ॥
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।
स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत् ॥ ४८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
स्वधोपाख्याने स्वधोत्पत्तितत्पूजादिकं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥


GO TOP