ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - पञ्चत्रिंशोऽध्यायः

लक्ष्मीस्वरूपपूजादिवर्णनम् -


नारद उवाच
श्रीकृष्णस्याऽऽत्मनश्चैव निर्गुणस्य निराकृतेः ।
सावित्रीयमसंवादे श्रुतं सुविमलं यशः ॥ १ ॥
तद्‌गुणोत्कीर्तनं सत्यं मङ्‌गलानां च मङ्‌गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ २ ॥
केनाऽऽदौ पूजिता साऽपि किंभूता केन वा पुरा ।
तद्‌गुणोत्कीर्तनं सत्यं वद वेदविदां वर ॥ ३ ॥
नारद उवाच सृष्टेरादौ पुरा ब्रह्मन्कृष्णस्य परमात्मनः ।
देवी वामांशसंभूता चाऽऽसीत्सा रासमण्डले ॥ ४ ॥
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला ।
यथा द्वादशवर्षीया रम्या सुस्थिरयौवना ॥ ५ ॥
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।
शरत्पार्वणकोटीन्दुप्रभासंशोभितानना ॥ ६ ॥
शरन्मध्याह्नपद्मानां शोभाशोभितलोचना ।
सा च देवी द्विधाभूता सहसैवेश्वरेच्छया ॥ ७ ॥
समा रूपेण वर्णेन तेजसा वयसा त्विषा ।
यशसा वाससा मूर्त्या भूषणेन गुणेन च ॥ ८ ॥
स्मितेन वीक्षणेनैव वचसा गमनेन च ।
मधुरेण स्वरेणैव नयेनानुनयेन च ॥ ९ ॥
तद्वामांशा महालक्ष्यीर्दक्षिणांशा च राधिका ।
राधाऽऽदौ वरयामास द्विभुजं च परात्परम् ॥ १० ॥
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ।
कृष्णस्तद्‌गौरवेणैव द्विधारूपो बभूव ह ॥ ११ ॥
दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः ।
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ॥ १२ ॥
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम् ।
देवीषु या च महती महालक्ष्मीश्च सा स्मृता ॥ १३ ॥
द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः ।
गोलोके द्विभुजस्तस्थौ गोपैर्गोपीभिरावृतः ॥ १४ ॥
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ।
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ ॥ १५ ॥
महालक्ष्मीश्च योगेन नानारूपा बभूव सा ।
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमाऽपरा ॥ १६ ॥
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता ।
प्रेम्णा सा वै प्रधाना च सर्वासु रमणीषु च ॥ १७ ॥
स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसंपत्स्वरूपिणी ।
पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु ॥ १८ ॥
गृहलक्ष्मीर्गहेष्वेव गृहिणी च कलांशया ।
संपत्स्वरूपा गृहिणां सर्वमङ्‍गलमङ्‍गला ॥ १९ ॥
गवांप्रसूः सा सुरभिर्दक्षिणा यज्ञकामिनी ।
क्षोरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ॥ २० ॥
शोभारूपा च चन्द्रे सा सूर्यमण्डलमण्डिता ।
विभूषणेषु रत्‍नेषु कलेषु जलजेषु च ॥ २१ ॥
नृपेषु नृपपत्‍नीषु दिव्यस्त्रीषु गृहेषु च ।
सर्वसस्येषु वस्त्रेषु स्थाने सा संस्कृते तथा ॥ २२ ॥
प्रतिमासु च देवानां मङ्‌गलेषु घटेषु च ।
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ॥ २३ ॥
मणीन्द्रेषु च हारेषु क्षीरे वै चन्दनेषु च ।
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ॥ २४ ॥
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ।
द्वितीये ब्रह्मणा भक्त्या तृतीये शंकरेण च ॥ २५ ॥
विष्णुना पूजिता सा च क्षीरोदे भारते मुने ।
स्वायंभुवेन मनुना मानवेन्द्रैश्च सर्वतः ॥ २६ ॥
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्‌भिश्च गृहिभिर्भवे ।
गन्धर्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता ॥ २७ ॥
शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता ।
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ॥ २८ ॥
चैत्रे पौषे च भाद्रे च पुण्ये मङ्‌गलवासरे ।
विष्णुना निर्मिता पूजा त्रिषु लोकेषु भक्तितः ॥ २९ ॥
वर्षान्ते पौषसंक्रान्त्या मेध्यामावाह्य चाङ्‌गणे ।
मनुस्तां पूजयामास सा भूता भुवनत्रये ॥ ३० ॥
राज्ञा संपूजिता सा वै मङ्‌गलेनैव मङ्‌गला ।
केदारेणैव नीलेन नलेन सुबलेन च ॥ ३१ ॥
ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा ।
कश्यपेन च दक्षेण मनुना च विवस्वता ॥ ३२ ॥
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ।
यमेन वह्निना चैव वरुणेनैव पूजिता ॥ ३३ ॥
एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा ।
सर्वैश्वर्याधिदेवी सा सर्वसंपत्स्वलपिणी ॥ ३४ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे लक्ष्म्युपाख्याने
लक्ष्मीस्वरूपपूजादिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥


GO TOP