ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - षड्त्रिंशोऽध्यायः

लक्ष्म्युपाख्याने इन्द्रं प्रति दुर्वासः शापादिकथनम् -


नारायण उवाच
नारायणप्रिया सा च वरा वैकुण्ठवासिनी ।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १ ॥
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।
किं तद्ध्यानं च कवचं सर्वं पूजाविधिक्रमम् ॥ २ ॥
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच
पुरा दुर्वाससः शापाद्‌भ्रष्टश्रीकः पुरंदरः ।
बभूव देवसंघश्च मर्त्यलोकश्च नारद ॥ ४ ॥
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।
गत्वा लीना च वैकुण्ठे महालक्ष्यां च नारद ॥ ५ ॥
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् ।
ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ ६ ॥
वैकुण्ठे शरणापन्ना देवा नारायणे परे ।
अतीव दैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः ॥ ७ ॥
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया ।
बभूव सिन्धुकन्या सा शक्रसंपत्स्वरूपिणी ॥ ८ ॥
तदा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।
संप्रापुश्च वरं लक्ष्म्या ददृशुस्तां च तत्र हि ॥ ९ ॥
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ।
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ १० ॥
देवाश्चाप्यसुराक्रान्तं राज्यं प्रापुश्च तद्वरात् ।
तां संपूज्य च संस्तूय सर्वत्र च निरापदः ॥ ११ ॥
नारद उवाच
कथं शशाप दुर्वासा मुनिश्रेष्ठः पुरंदरम् ।
केन दोषेण वा ब्रह्मन्ब्रह्मिष्ठं ब्रह्मवित्पुरा ॥ १२ ॥
ममन्थे केन रूपेण जलधिस्तैः सुरादिभिः ।
केन स्तोत्रेण सा देवी शक्रे साक्षाद्‌बभूव ह ॥ १३ ॥
को वा तयोश्च संवादो ह्यभवत्तद्वद प्रभो ॥ १४ ॥
नारायण उवाच
मधूपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ।
क्रीडां चकार रहसि रम्भया सह कामुकः ॥ १५ ॥
कृत्वा क्रीडां तया सार्धं कामुक्या हृतचेतनः ।
तस्थौ तत्र महारण्ये कामोन्मथितमानसः ॥ १६ ॥
कैलासशिखरं यान्तं वैकुण्ठाद्‌ऋ‍‌षिपुंगवम् ।
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेज्सा ॥ १७ ॥
ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ।
प्रतप्तकाञ्चनाभासं जटाभारमहोज्ज्वलम् ॥ १८ ॥
शुक्लयज्ञोपवीतं च चीरं दण्डं कमण्डलुम् ।
महोज्ज्वलं च तिलकं बिभ्रतं चन्द्रसंनिभम् ॥ १९ ॥
समन्वितं शिष्यवर्गैर्वेदवेदाङ्‌गपारगैः ।
दृष्ट्‍वा ननाम शिरसा संभ्रमात्तं पुरंदरः ॥ २० ॥
शिष्यवर्गं स भक्त्या वै तुष्टाव च मुदाऽन्वितः ।
मुनिना च सशिष्येण तस्मै दत्ताः शुभाशिषः ॥ २१ ॥
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ।
मृत्युरोगजराशोकहरं मोक्षकर ददौ ॥ २२ ॥
शक्रः पुष्पं गृहीत्वा च प्रमत्तो राजसंपदा ।
भ्रमेण स्थापयामास तत्र वै हस्तिमस्तके ॥ २३ ॥
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ।
तेजसा वयसा कान्त्या विष्णुतुल्यो बभूव सः ॥ २४ ॥
त्यक्त्वा शक्रं गजेन्द्रश्चाप्यगच्छद् घोरकाननम् ।
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ॥ २५ ॥
तत्पुष्पं त्यक्तवन्तं च दृष्ट्‍वा शक्रं मुनीश्वरः ।
तं शशाप महातेजाः क्रोधसंरक्तलोचनः ॥ २६ ॥
दुर्वासा उवाच
अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ।
मद्‌दत्तपुष्पं गर्वेण त्यक्तवान्हस्तिमस्तके ॥ २७ ॥
विष्णोर्निवेदितं पुष्पं नैवेद्यं वा फलं जलम् ।
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः ॥ २८ ॥
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः ।
यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ॥ २९ ॥
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम् ।
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ॥ ३० ॥
विष्णुनैवेद्यभोजी यो नित्यं तु प्रणमेद्धरिम् ।
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ॥ ३१ ॥
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ।
तत्पादरजसा मूढ सद्यः पूता वसुंधरा ॥ ३२ ॥
पुंश्चल्यन्नमवीरान्न शूद्रश्राद्धान्नमेव च ।
यद्धरेरनिवेद्यं च वृथामांसमभक्षकम् ॥ ३३ ॥
शिवलिङ्‌गप्रदत्तात्र यदन्नं शूद्रयाजिनाम् ।
चिकित्सकद्विजानां च देवलान्नं तथैव च ॥ ३४ ॥
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ।
अनुष्णान्नं पर्युषितं सर्वभक्ष्यावशेषितम् ॥ ३५ ॥
शूद्रापतिद्विजान्नं च वृषवाहद्विजान्नकम् ।
अदीक्षितद्विजान्नं च यदन्नं शवदाहिनाम् ॥ ३६ ॥
अगम्यागामिनां चैव द्विजानामन्नमेव च ।
मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ॥ ३७ ॥
मिथ्यासाक्ष्यप्रदानां च ब्राह्मणानां तथैव च ।
एतसर्वं विशुद्ध्येत विष्णुनैवेद्यभक्षणात् ॥ ३८ ॥
श्वपचो विष्णुसेवी च वंशानां कोटिमुद्धरेत् ।
हरेरभक्तो विप्रश्च त्वं च रक्षितुमक्षमः ॥ ३९ ॥
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ।
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ ४० ॥
ज्ञात्वा भक्त्या च गृह्णाति विष्णोर्नैवेद्यमेव च ।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ ४१ ॥
यस्मात्संस्थापितं पुष्पं गर्वाद्वै हस्तिमस्तके ।
तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् ॥ ४२ ॥
नारायणस्य भक्तोऽहं न बिभेमीश्वरं विधिम् ।
कालं मृत्युं जरां चैव कानन्यान्गणयामि च ॥ ४३ ॥
किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ।
बृहस्पतिर्गुरुश्चैव निःशङ्‌कस्य च मे हरेः ॥ ४४ ॥
इदं पुष्पं यस्य मूर्ध्नि तस्य वै पूजनं पुरः ।
मूर्ध्नि च्छिन्ने शिवशिशोश्छित्त्वेदं योजयिष्यति ॥ ४५ ॥
इति श्रुत्वा महेन्द्रश्च धृत्वा तच्चरणद्वयम् ।
उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः ॥ ४६ ॥
इन्द्र उवाच
दत्तः समुचितः शापो मह्यं मत्ताय हे प्रभो ।
हृता त्वया चेत्संपत्तिः कियज्ज्ञानं च देहि मे ॥ ४७ ॥
ऐश्वर्यं विपदां बीजं प्रच्छन्नज्ञानकारणम् ।
मुक्तिमार्गार्गलं दार्ढ्याद्धरिभक्तिव्यपायकम् ॥ ४८ ॥
जन्ममृत्युजरारोगशोकदुःखकरं परम् ।
संपत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ॥ ४९ ॥
संपन्मत्तः सुमूढश्च सुरामत्तः सचेतनः ।
बान्धवैर्वेष्टितः सोऽपि बन्धुद्वेषकरो मुने ॥ ५० ॥
संपन्मदप्रमत्तश्च विषयान्धश्च विह्वलः ।
महाकामो साहसिकः सत्त्वमार्गं न पश्यति ॥ ५ १ ॥
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः ।
अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥ ५२ ॥
शास्त्रे च द्विविधं मार्गं निर्दिष्टं मुनिपुंगव ।
प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥ ५३ ॥
चरन्ति जीविनश्चाऽऽदौ प्रवृत्तौ दुःखवर्त्मनि ।
स्वच्छन्दे चाप्रसन्ने च निर्विरोधे च संततम् ॥ ५४ ॥
आपातमधुरे लोभात्क्लेशे च सुखमानिनः ।
परिणामोत्पत्तिबीजे जन्ममृत्युजराकरे ॥ ५५ ॥
अनेकजन्मपर्यन्तं कृत्वां च भ्रमणं मुदा ।
स्वकर्मविहितायां च नानायोन्यां क्रमेण च ॥ ५६ ॥
ततः कृष्णानुग्रहाच्च सत्सङ्‌गं लभते जनः ।
सहस्रेषु शतेष्वेको भवाब्धेः पारकारणम् ॥ ५७ ॥
साधुः सत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् ।
तदा करोति यत्‍नं च जीवी बन्धनखण्डने ॥ ५८ ॥
अनेकजन्मयोगेन तपसाऽनशनेन च ।
तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ॥ ५९ ॥
इदं श्रुतं गुरोर्वक्त्रात्प्रसंगावसरेण च ।
नहि पृष्टमतोऽन्यच्च भवदुःखौघवेष्टितः ॥ ६० ॥
महता विधिना दत्तो विपत्तौ ज्ञानसागरः ।
संपद्‌रूपा विपदियं मम निस्तारकारिणी ॥ ६१ ॥
ज्ञानसिन्धो दीनबन्धो मह्यं दीनाय सांप्रतम् ।
देहि किंचिज्ञानसारं भवपारं दयानिधे ॥ ६२ ॥
इन्द्रस्य वचनं श्रुत्वा प्रहस्य ज्ञानिनां गुरुः ।
ज्ञानं कथितुमारेभे ह्यतितुष्टः सनातनः ॥ ६३ ॥
दुर्वासा उवाच
अहो महेन्द्र माङ्‌गल्यमात्मानं द्रष्टुमिच्छसि ।
आपाततो दुःखबीजं परिणामसुखावहम् ॥ ६४ ॥
स्वगर्भयातनानाशपीडाखण्डनकारणम् ।
दुष्पारासारदुर्वारसंसारार्णवतारकम् ॥ ६५ ॥
कर्मवृक्षाङ्कुरच्छेदकारणं सर्वतारकम् ।
संतोषसंततिकरं प्रवरं सर्ववर्त्मनाम् ॥ ६६ ॥
दानेन तपसा वाऽपि व्रतेनानशनादिना ।
कर्मणा स्वर्गभोगादिसुखं भवति जीविनाम् ॥ ६७ ॥
काम्यानां कर्मणां चैव मूलं संछिद्य यत्‍नतः ।
अधुनेदं मोक्षबोजं संकल्पाभाव एव च ॥ ६८ ॥
यत्कर्म सात्त्विकं कुर्यादसंकल्पितमेव च ।
सर्वं कृष्णार्पणं कृत्वा परे ब्रह्मणि लीयते ॥ ६९ ॥
सांसारिकाणामेतत्तु निर्वाणं मोचकं विदुः ।
नेच्छन्ति वैष्णवास्तत्तु सेवाविरहकातराः ॥ ७० ॥
सेवां कुर्वन्ति ते नित्यं विधायोत्तमदेहकम् ।
गोलोके वाऽपि वैकुण्ठे तस्यैव परमात्मनः ॥ ७१ ॥
हरिसेवादिरूपां च मुक्तिमिच्छन्ति वैष्णवाः ।
जीवन्मुक्ताश्चते शक्र स्वकुलोद्धारकारिणः ॥ ७२ ॥
स्मरणं कीर्तनं विष्णोरर्चनं पादसेवनम् ।
वन्दनं स्तवनं नित्यं भक्त्या नैवेद्यभक्षणम् ॥ ७३ ॥
चरणोदकपानं च तन्मन्त्रजपनं परम् ।
इदं निस्तारबीजं च सर्वेषामीप्सितं भवेत् ॥ ७४ ॥
इदं मृत्युञ्जयज्ञानं दत्तं मृत्युञ्जयेन मे ।
तच्छिष्योऽहं च निःशङ्‌कस्तत्प्रसादाच्च सर्वतः ॥ ७५ ॥
स जन्मदाता स गुरुः स च बन्धुः सतां परः ।
यो ददाति हरेर्भक्तिं त्रैलोक्ये च सुदुर्लभाम् ॥ ७६ ॥
दर्शयेदन्यमार्गं च विना श्रीकृष्णसेवनम् ।
स च तं नाशयत्येव ध्रुवं तद्वधभाग्भवेत् ॥ ७७ ॥
संततं जगतां कृष्णनाम मङ्‌गलकारणम् ।
मङ्‌गलं वर्धते नित्यं न भवेदायुषो व्ययः ॥ ७८ ॥
तेभ्योऽप्यपैति कालश्च मृत्युश्च रोग एव च ।
संतापश्चैव शोकश्च वैनतेयादिवोरगाः ॥ ७९ ॥
कृष्णमन्त्रोपासकश्च ब्राह्मणः श्वपचोऽपि वा ।
ब्रह्मलोकं समुल्लङ्‌घ्य याति गोलोकमुत्तमम् ॥ ८० ॥
हह्मणा पूजितः सोऽपि मधुपर्कादिना च यः ।
स्तुतः सुरैश्च सिद्धैश्च परमानन्दभावनः ॥ ८१ ॥
ज्ञानसारं तपःसारं ब्रह्मसारं परं शिवम् ।
शिवेनोक्तं योगसारं श्रीकृष्णपदसेवनम् ॥ ८२ ॥
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्यैव स्वप्नवत् ।
भज सत्यं परं ब्रह्म राधेशं प्रकृतेः परम् ॥ ८३ ॥
अतीव सुखदं सारं भक्तिदं मुक्तिदं परम् ।
सिद्धियोगप्रदं चैव दातारं सर्वसंपदाम् ॥ ८४ ॥
योगिनामपि सिद्धानां यतीनां च तपस्विनाम् ।
सर्वेषां कर्मभोगोऽस्ति न नारायणसेविनाम् ॥ ८५ ॥
भस्मसाच्च भवेत्पापं यदुपस्पर्शमात्रतः ।
ज्वलदग्नौ पातितं च यथा शुष्केन्धनं तथा ॥ ८६ ॥
ततो रोगा हि वेपन्ते पापानि च भयानि च ।
दूरतश्च पलायन्ते यमदूतास्ततो भयात् ॥ ८७ ॥
तावन्निबद्धः संसारे कारागारे विधेर्जनः ।
न यावत्कृष्णमन्त्रं च प्राप्नोति गुरुवक्त्रतः ॥ ८८ ॥
कृतकर्मौघभोगाख्यनिगडच्छेदकारणम् ।
मायाजालोच्छेदकरं मायापाशनिकृन्तनम् ॥ ८९ ॥
गोलोकमार्गसोपानं निस्तारे बीजकारणम् ।
भक्त्यङ्‌कुरस्वरूपं च नित्यं वृद्धमनश्वरम् ॥ ९० ॥
सारं च सर्वतपसां योगानां साधनं तथा ।
सिद्धीनां वेदपाठानां व्रतादीनां च निश्चितम् ॥ ९१ ॥
दानानां तीर्थस्तानानां यज्ञादीनां पुरंदर ।
पूजानामुपवासानामित्याह कमलोद्‌भवः ॥ ९२ ॥
पुंसा लक्षं पितृणां च शतं मातामहस्य च ।
पूर्वं परं च तत्संख्यं पितरं मातरं गुरुम् ॥ ९३ ॥
सहोदरं कलत्रं च बन्धुं शिष्यं च किङ्‌करम् ।
समुद्धरेच्च श्वशुरं श्वश्रूकन्यां च तत्सुतम् ॥ ९४ ॥
स्वात्मानं च सतीर्थ्यं च गुरुपत्‍नीं गुरोः सुतम् ।
उद्धरेद्‌बलवान्भक्तो मन्त्रग्रहणमात्रतः ॥ ९५ ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।
तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुंधरा ॥ ९६ ॥
अनेकजन्मपर्यन्तं दीक्षाहीनो भवेन्नरः ।
तदन्यदेवमन्त्रं च लभते पुण्यलेशतः ॥ ९७ ॥
सप्तजन्मसु देवानां कृत्वा सेवां स्वकर्मतः ।
लभते च रवेर्मन्त्रं साक्षिणः सर्वकर्मणाम् ॥ ९८ ॥
जन्मत्रयं भास्करं सेवित्वा मानवः शुचिः ।
लभेद्‌गणेशमन्त्रं च सर्वविघ्नहरं परम् ॥ ९९ ॥
जन्मत्रयं तं निषेव्य निर्विघ्नश्च भवेन्नरः ।
विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ॥ १ ०० ॥
तदा ज्ञानप्रदीपेन समालोच्य महामतिः ।
अज्ञानान्धतमश्छित्त्वा महामायां भजेन्नरः ॥ १०१ ॥
प्रकृतिं विष्णुमायां च दुर्गां दुर्गतिनाशिनीम् ।
सिद्धिदां सिद्धिरूपां च परमां सिद्धियोगिनीम् ॥ १ ०२ ॥
वाणीरूपां च पद्मां च भद्रां कृष्णप्रियात्मिकाम् ।
नानारूपा तां निषेव्य जन्मनां शतकं नरः ॥ १०३ ॥
तत्प्रसादाद्‌भवेज्ज्ञानी ज्ञानानन्दं तदा भजेत् ।
कृष्णं ज्ञानाधिदेवं च महादेवं सनातनम् ॥ १०४ ॥
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ।
परमानन्दरूपं च परमानन्ददायिनम् ॥ १०५ ॥
सुखदं मोक्षदं चैव दातारं सर्वसंपदाम् ।
अमरत्वपदं चैव दीर्घमायुष्यदं परम् ॥ १०६ ॥
इन्द्रत्वं च मनुत्वं च दातुं शक्तं च लीलया ।
राजेन्द्रत्वप्रदं चैव ज्ञानदं हरिभक्तिदम् ॥ १०७ ॥
जन्मत्रयं तमाराध्य चाऽऽशुतोषप्रसादतः ।
सर्वदस्य प्रसादेन शङ्‌करस्य महात्मनः ॥ १०८ ॥
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ।
तदा तद्‌भक्तसंसर्गात्कृष्णमन्त्रं लभेद्ध्रुवम् ॥ १०९ ॥
निर्मलज्ञानदीपेन प्रदीप्तेन च तत्त्ववित् ।
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्यैव पश्यति ॥ ११० ॥
दयानिधेः प्रसादेन निर्मलज्ञानमालभेत् ।
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ॥ १११ ॥
तदा निवृत्तिमाप्नोति सारात्सारां परात्पराम् ।
यत्र देहे लभेन्मन्त्रं तद्‌देहावधि भारते ॥ ११२ ॥
तत्पाञ्चभौतिकं त्यक्त्वा बिभर्ति दिव्यरूपकम् ।
करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे ॥ ११३ ॥
परमानन्दसंयुक्तो मोहादिषु विवर्जितः ।
न विद्यते पुनर्जन्म पुनरागमनं हरे ॥ ११४ ॥
पुनश्च न पिबेत्क्षीरं धृत्वा मातृस्तनं परम् ।
विष्णुमन्त्रोपासकानां गङ्‌गादितीर्थसेविनाम् ॥ ११५ ॥
स्वधर्मिणा च भिक्षूणां पुनर्जन्म न विद्यते ।
तीर्थे परित्यजेत्पापं क्रियां कृत्वा हरिं भजेत् ॥ ११६ ॥
अयं निरूपितो धात्रा स्वधर्मस्तीर्थसेविनाम् ।
तन्नाममन्त्रं प्रजपेत्तत्सेवादिषु तत्परः ॥ ११७ ॥
तद्वतोपवासरत इत्युक्तो विष्णुसेविनाम् ।
सदन्ने वा कदन्ने वा लोष्टे वा काञ्चने तथा ॥ ११८ ॥
समबुद्धिर्यस्य शश्वत्स संन्यासीति कीर्तितः ।
दण्डं कमण्डलुं रक्तवस्त्रमात्रं च धारयेत् ॥ ११९ ॥
नित्यं प्रवासी नैकत्र स्यात्संन्यासीतिकीर्तितः ।
शुद्धाचारद्विजान्नं च भुङ्‌क्ते लोभादिवर्जितः ॥ १२० ॥
किंतु किंचिन्न याचेत स संन्यासीति कीर्तितः ।
न व्यापारी नाऽऽश्रमी च सर्वकर्मविवर्जितः ॥ १२१ ॥
ध्यायेन्नारायणं शश्वत्स संन्यासीति कीर्तितः ।
शश्वन्मौनी ब्रह्मचारी संभाषापरिवर्जितः ॥ १२२ ॥
सर्वं ब्रह्ममयं पश्येत्स संन्यासीति कीर्तितः ।
सर्वत्र समबुद्धिश्च हिंसामायाविवर्जितः ॥ १२३ ॥
क्रोधाहंकाररहितः स संन्यासीति कीर्तितः ।
अयाचितोपस्थितं च मिष्टामिष्टं च भुक्तवान् ॥ १२४ ॥
न याचते भक्षणार्थी स संन्यासीति कीर्तितः ।
न च पश्येन्मुखं स्त्रीणां न तिष्ठेत्तत्समीपतः ॥ १२५ ॥
दारवीमषि योषां च न स्पृशेद्यः स भिक्षुकः ।
अयं संन्यासिनां धर्म इत्याह कमलोद्‌भवः ॥ १२६ ॥
विपर्यये विनाशश्च जन्म याम्यं भयं भवेत् ।
जन्मदुःखं याम्यदुःखं जीविनामतिदारुणम् ॥ १२७ ॥
सुरसूकरयोनौ वा गर्भे दुःखं समं सुर ।
योनौ वा क्षुद्रजन्तूनां पश्वादीनां तथैव च ॥ १२८ ॥
गर्भे स्मरन्ति सर्वे ते कर्म जन्मशतोद्‌भवम् ।
विस्मरेन्निर्गतो जीवो गर्भाद्वै विष्णुमायया ।
स्वदेहं पाति यत्‍नेन सुरो वा कीट एव वा ॥ १२९ ॥
योनेरभ्यन्तरे शुक्रे पतिते पुरुषस्य च ।
शुक्रं शोणितयुक्तं च सहसा तत्क्षणं भवेत् ॥ १३० ॥
रक्ताधिक्ये मातृसमश्चेतरे पितुराकृतिः ।
युग्माहे च भवेत्पुत्रः कन्यका तद्विपर्यये ॥ १३१ ॥
रविभौमगुरूणां च वारे चेत्तद्‌भवेत्सुतः ।
अयुग्माहे तदितरे वारे वै कन्यका भवेत् ॥ १३२ ॥
प्रथमप्रहरे जन्म यस्य सोऽल्पायुरेव च ।
द्वितीये मध्यमश्चैव तृतीये तत्परो भवेत् ॥ १३३ ॥
चतुर्थे चिरजीवी स्यात्क्षणानामनुरूपकः ।
दुःखी वाथ सुखी वाऽपि पूर्वकर्मानुरूपतः ॥ १३४ ॥
यादृशे च क्षणे जन्म प्रसवस्तादृशे भवेत् ।
प्रसूतिक्षणचर्चां च कुर्वन्त्येवं विचक्षणाः ॥ १३५ ॥
कललं त्वेकरात्रेण प्रवृद्धः स्याद्‌दिने दिने ।
सप्तमे बदराकारो मासे गण्डुसमो भवेत् ॥ १३६ ॥
मासत्रये मांसपिण्डो हस्तपादादिवर्जितः ।
सर्वावयवसंपन्नो देही मासे च पञ्चमे ॥ १३७ ॥
भवेत्तु जीवसंचारः षण्मासे सर्वतत्त्ववित् ।
दुःखी स्वल्पस्थलस्थायी शकुन्त इव पञ्जरे ॥ १३८ ॥
मातृजग्धान्नपानं च भुङ्‌क्तेऽमेध्यस्थले स्थितः ।
हाहेति शब्दं कृत्वा च चिन्तयेदीश्वरं परम् ॥ १३९ ॥
एवं च चतुरो मासान्भुक्त्वा परमयातनाम् ।
प्रेरितो वायुना काले गर्भाद्वै निर्गतो भवेत् ॥ १४० ॥
दिग्देशकालाव्युत्पन्नो विस्मृतो विष्णुमायया ।
शश्वद्विण्मूत्रसंयुक्तः शिशुः स्याच्छैशवावधि ॥ १४१ ॥
परायत्तोऽप्यक्षमश्च मशकादिनिवारणे ।
कोटादिभुक्तो दुःखी च रौति तत्र पुनः पुनः ॥ १४२ ॥
स्तनान्धोऽप्यसमर्थश्च याञ्चां कर्तृमभीप्सिताम् ।
न वाणी निःसरेत्तस्य पौगण्डावधि सुस्फुटा ॥ १४३ ॥
पौगण्डे यातनां भुक्त्वा प्राप्नुते यौवनं पुनः ।
न स्मरेन्मायया देही गर्भादेर्यातना पुनः ॥ १४४ ॥
आहारमैथुनार्तश्च नानामोहादिवेष्टितः ।
पुत्रं कलत्रमनुगं यत्‍नेन परिपालयेत् ॥ १४५ ॥
एवं यावत्समर्थश्च तावदेव हि पूजितः ।
असमर्थं च मन्यन्ते बान्धवा गोजरं यथा ॥ १४६ ॥
यदाऽतीव जरायुक्तो जडोऽतिबधिरो भवेत् ।
कफश्वासादियुक्तश्च परायत्तोऽतिमूढवत् ॥ १४७ ॥
तदन्तरेऽनुतापं च कुरुते संततं पुनः ।
न सेवितं हरेस्तीर्थं सत्सङ्‌गश्चेति तापनः ॥ १४८ ॥
पुनश्च मानवीं योनिं लभामि भारते यदि ।
तदा तीर्थं गमिष्यामि भजे वै कृष्णमित्यहो ॥ १४९ ॥
इत्येवमादि मनसि कुर्वन्तं तं जडं सुर ।
गृह्णाति यमदूतश्च काले प्राप्तेऽतिदारुणः ॥ १५० ॥
स पश्येद्यमदूतं च पाशहस्तं च दण्डिनम् ।
अतीव कोपरक्ताक्षं विकृताकारमुल्बणम् ॥ १५१ ॥
दुर्निवार्यमुपायैश्च बलिष्ठं च भयङ्‌करम् ।
दुर्दृश्यं सर्वसिद्धिज्ञं सर्वादृष्टं पुरःस्थितम् ॥ १५२ ॥
दृष्टमात्रान्महाभीतो विण्मूत्रं च समुत्सृजेत् ।
तदाप्राणांस्त्यजेत्सद्यो देहं वै पाञ्चभौतिकम् ॥ १५३ ॥
अङ्‌गुष्ठमात्रं पुरुषं गृहीत्वा यमकिङ्‌कर ।
विन्यस्य भोगदेहे च स्वस्थानं प्रापयेद्‌द्रुतम् ॥ १५४ ॥
जीवो गत्वा यमं पश्येत्सर्वधर्मज्ञमेव च ।
रत्‍नसिंहासनस्थं च सस्मितं सुस्थिरं परम् ॥ १५५ ॥
धर्माधर्मविचारज्ञं सर्वज्ञं सर्वतोमुखम् ।
विश्वेष्वेकाधिकारं च विधात्रा निर्मितं पुरा ॥ १५६ ॥
वह्निशुद्धांशुकाधानं रत्‍नभूषणभूषितम् ।
वेष्टितं पार्षदगणैर्दूतैश्चापि त्रिकोटिभिः ॥ १५७ ॥
जपन्तं श्रीकृष्णनाम शुद्धस्फटिकमालया ।
ध्यायमानं तत्पदाब्जं पुलकाङ्‌कितविग्रहम् ॥ १५८ ॥
सगद्‌गदं साश्रुनेत्रं सर्वत्र समदर्शिनम् ।
अतीव कमनीयं च शश्वत्सुस्थिरयौवनम् ॥ १५९ ॥
स्वतेजसा प्रज्वलन्तं सुखदृश्यं विचक्षणम् ।
शरत्पार्वणचन्द्राभं चित्रगुप्तपुरःस्थितम् ॥ १६० ॥
पुण्यात्मनां शान्तरूपं पापिनां च भयङ्‌करम् ।
तं दृष्ट्‍वा प्रणमेद्‌देही महाभीतश्च तिष्ठति ॥ १६१ ॥
चित्रगुप्तविचारेण येषां यदुचितं फलम् ।
शुभाशुभं च कुरुते तदेव रविनन्दनः ॥ १६२ ॥
एव तेषां गतायाते निवृत्तिर्नास्ति जीविनाम् ।
निवृत्तिहेतुरूपं च श्रीकृष्णपदसेवनम् ॥ १६३ ॥
इत्येवं कथितं सर्वं वरं प्रार्थय वाञ्छितम् ।
सर्वं दास्यामिते वत्स न मेऽसाध्यं च किंचन ॥ १६४ ॥
महेन्द्र उवाच
इन्द्रत्वं च गतं भद्रं किमैश्वर्ये प्रयोजनम् ।
कल्पवृक्ष मुनिश्रेष्ठ देहि मे परमं पदम् ॥ १६५ ॥
महेन्द्रस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।
तमुवाच वचः सत्यं वेदोक्तं सारमेव च ॥ १६६ ॥
परं पदं विषयिणां महेन्द्रातिसुदुर्लभम् ।
मुक्तिर्युष्मद्विधानां च न लये प्राकृतेऽपि च ॥ १६७ ॥
आविर्भावः सृष्टिविधौ तिरोभावो लयेऽपि च ।
यथा जागरणं सुप्तिर्भवत्येव क्रमेण च ॥ १६८ ॥
यथा भ्रमति कालश्च तथा विषयिणो ध्रुवम् ।
चक्रनेमिक्रमेणैव नित्यमेवेश्वरेच्छया ॥ १६९ ॥
पलमेकं भवेदेव यथा विपलषष्टिभिः ।
षष्टिभिश्च पलैर्दण्डो मुहूर्तो द्विगुणात्ततः ॥ १७० ॥
त्रिंशद्‌भिश्च मुहूर्तैश्च भवेदेव दिवानिशम् ।
दश पञ्च दिवारात्रिः पक्षमेकं विदुर्बुधाः ॥ १७१ ॥
पक्षाभ्यां शुक्लकृष्णाभ्यां मास एव विधीयते ।
ऋतुर्द्वाभ्यां च मासाभ्यां संख्याविद्‌भिः प्रकीर्तितः ॥ १७२ ॥
ऋतुत्रयेणायनं च ताभ्यां द्वाभ्यां च वत्सरः ।
त्रिंशत्सहस्राधिकैश्च त्रिचत्वारिंशलक्षकैः ॥ १७३ ॥
वत्सरैर्नरमानैश्च युगानां च चतुष्टयम् ।
षष्ठ्याऽधिकं पञ्चशते सहस्रे पञ्चविंशतौ ॥ १७४ ॥
युगे नराणां शक्रायुर्मनोरायुः प्रकीर्तितम् ।
दिग्लक्षेन्द्रनिपातेऽष्टसहस्राधिक एव च ॥ १७५ ॥
निपातो ब्रह्मणस्तत्र भवत्प्राकृतिको लयः ।
लये प्राकृतिके वत्स कृष्णस्य परमात्मनः ॥ १७६ ॥
चक्षुनिमेषः सृष्टिश्च पुनरुन्मीलने तथा ।
ब्रह्मसृष्टिलयानां च संख्या नास्ति श्रुतौ श्रुतम् ॥ १७७ ॥
यथा पृथिव्या रेणूनामित्यूचे चन्द्रशेखरः ।
एतेषां मोक्षणं नास्ति कथितानि च यानि तु ॥ १७८ ॥
सृष्टिसूत्रस्वरूपं हि चान्यद्‌वृणु वरं सुर ।
मुनीन्द्रस्य वचः श्रुत्वा देवेन्द्रो विस्मितो मुने ॥ १७९ ॥
आत्मनः पूर्वमैश्वर्यं वरयामास तत्र वै ।
तत्प्राप्स्यस्यचिरेणैवेत्युक्त्या स प्रत्ययौ गृहम् ।
इन्द्रो ललाभ ज्ञानं च न संपदापदं विना ॥ १८० ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दुर्वासःसुरेन्द्रसंवादे लक्ष्म्युपाख्याने
इन्द्रं प्रति दुर्वासःशापादिकथनं नाम षड्त्रिंशोऽध्यायः ॥ ३६ ॥


GO TOP