ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - त्रिंशोऽध्यायः
सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं
शिवप्राशस्त्यं बह्महत्यादिपदार्थपरिभाषानिरूपणम् -
यम उवाच
हरिसेवारतः शुद्धो योगी सिद्धो व्रती सति ।
तपस्वी ब्रह्मचारी च न याति नरकं यतिः ॥ १ ॥
कटुवाचा बान्धवांश्च खेलत्वेन च यो नरः ।
दग्धान्करोति बलवान्वह्निकुण्डं प्रयाति सः ॥ २ ॥
गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने ।
पशुयोनिमवाप्नोति रौद्रे दग्धस्त्रिजन्मनि ॥ ३ ॥
ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् ।
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४ ॥
तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः ।
तप्तस्थले वह्निकुण्डे पक्षी च सप्तजन्मसु ॥ ५ ॥
रविवारार्कसंक्रान्त्याममायां श्राद्धवासरे ।
वस्त्राणां क्षारसंयोगं करोति यो हि मानवः ॥ ६ ॥
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।
स व्रजेद्राजको योनिं सप्तजन्मसु भारते ॥ ७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
यो हरेद्भारते वर्षे विट्कुण्डं च प्रयाति सः ॥ ८ ॥
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति ।
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ ९ ॥
परकीयतडागे च तडागं यः करोति च ।
उत्सृजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १० ॥
तद्रेणुभानवर्षं च तद्भोजी तत्र तिष्ठति ।
भारते गोधिका चैव स भवेत्सप्तजन्मसु ॥ ११ ॥
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः ।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १२ ॥
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत् ।
श्लेष्ममूत्रगरं चैव तद्भोजी तत्र तिष्ठति ॥ १३ ॥
पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् ।
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १४ ॥
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति ।
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १५ ॥
दृष्ट्वाऽतिथिं वक्रचक्षुः करोति यो हि मानवः ।
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ १६ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ १७ ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।
ततो नरो भवेद्भूमौ दरिद्रः सप्तजन्मसु ॥ १८ ॥
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि ।
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ १९ ॥
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ।
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।
ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ॥ २० ॥
पुमांसं कामिनी वाऽपि कामिनी वा पुमानथ ।
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २१ ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।
योनिकृमिः शताब्दं च भवेद्भुवि ततः शुचिः ॥ २२ ॥
संताड्य चगुरुं विप्रं रक्तपातं च कारयेत् ।
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ २३ ॥
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते ।
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण च ॥ २४ ॥
अश्रु स्रवन्तं गायन्तं भक्तं दृष्टा च गद्गदम् ।
श्रीकृष्णगुणसंगीते हसत्येव हि यो नरः ॥ २५ ॥
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम् ।
ततो भवेत्स चण्डालो त्रिजन्मनि ततः शुचिः ॥ २६ ॥
करोति खलतां शश्वदशुद्धहृदयो नरः ।
कुण्डं गात्रमलानां च स च याति दशाब्दकम् ॥ २७ ॥
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्ध्रुवम् ॥ २८ ॥
बधिरं यो सहत्येव निन्दत्येव हि मानवः ।
स वसेत् कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ २९ ॥
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।
सप्तजन्मस्वङ्गहीनस्ततः शुद्धिं लभेद्ध्रुवम् ॥ ३० ॥
लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः ।
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवर्षकम् ॥ ३१ ॥
ततोभवेत्स शशको मीनश्च सप्तजन्मसु ।
एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ॥ ३२ ॥
स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः ।
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ॥ ३३ ॥
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ।
तं च कुण्डे प्रहारं च करोति यमकिङ्करः ॥ ३४ ॥
मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा ।
ततो हि भारते पापी कन्याविट्सु कृमिर्भवेत् ॥ ३५ ॥
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ।
त्रिजन्मनि वराहश्च कुक्कुरः सप्तजन्मसु ॥ ३६ ॥
सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु ।
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्ध्रुवम् ॥ ३७ ॥
व्रतानामुपवासानां श्राद्धादीनां च संयमे ।
न करोति क्षौरकर्म सोऽशुचिः सर्वकर्मसु ॥ ३८ ॥
स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि ।
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥ ३९ ॥
सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते ।
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ॥ ४० ॥
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ।
शताब्दाच्छुद्धिमाप्नोति स्वकुलं लभते ध्रुवम् ॥ ४१ ॥
पितृणां यो विष्णुपदे पिण्डं नैव ददाति च ।
स तिष्ठत्यस्थिकुण्डे च स्वलोमाब्दं महोल्बणे ॥ ४२ ॥
ततः स्वयोनिं संप्राप्य खञ्जः सप्तसु जन्मसु ।
भवेन्महादरिद्रश्च ततः शुद्धो हि दण्डतः ॥ ४३ ॥
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ।
प्रतप्तताम्रकुण्डे च शतवर्षं स तिष्ठति ॥ ४४ ॥
अवीरान्नं च यो भुञ्जते ऋतुस्नातान्नमेव च ।
लौहकुण्डे शताब्दं च स च तिष्ठति तप्तके ॥ ४५ ॥
स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु ।
महाव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः ॥ ४६ ॥
यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ।
शतवर्षप्रमाणं च घर्मकुण्डे स तिष्ठति ॥ ४७ ॥
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ।
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ॥ ४८ ॥
ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ।
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध्रुवम् ॥ ४९ ॥
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा ।
तीक्ष्णकण्टककुण्डे सा तद्भोजी तत्र तिष्ठति ॥ ५० ॥
ताडिता यमदूतेन दण्डेन च चतुर्युगम् ।
तत उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचिः ॥ ५१ ॥
विषेण जीविनं हन्ति निर्दयो यो हि पामरः ।
विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति ॥ ५२ ॥
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु ।
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्ध्रुवम् ॥ ५३ ॥
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः ।
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ॥ ५४ ॥
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम् ।
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ॥ ५५ ॥
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा ।
दन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ॥ ५६ ॥
ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः ।
क्लिष्टेन जन्मनैकेन ततः शुद्धो भवेन्नरः ॥ ५७ ॥
यो भुङ्क्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः ।
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ॥ ५८ ॥
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ।
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततः शुचिः ॥ ५९ ॥
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः ।
शूद्राणां शवदाही च पूयकुण्डं व्रजेद् ध्रुवम् ॥ ६० ॥
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते ।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥ ६१ ॥
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ।
महाशूलो दरिद्रश्च ततः शुद्धः पुनर्द्विजः ॥ ६२ ॥
लघुं क्रूरं महान्तं वा सर्पं हन्ति च यो नरः ।
स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः ॥ ६३ ॥
सर्पेण भक्षितः सोऽपि यमदूतेन ताडिता ।
वसेच्च सर्पविड्जीवी ततः सर्पो भवेद्ध्रुवम् ॥ ६४ ॥
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः ।
महाक्लेशेन तन्मृत्युः सर्पेण भक्षणं ध्रुवम् ॥ ६५ ॥
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः ।
स दंशमशके कुण्डे जन्ममानदिनाब्दकम् ॥ ६६ ॥
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत् ।
बद्धहस्तपदादिश्च यमदूतेन ताडितः ॥ ६७ ॥
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता ।
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ॥ ६८ ॥
यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः ।
स एव गारले कुण्डे जीवमानदिनाब्दकम् ॥ ६९ ॥
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ।
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ॥ ७० ॥
दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ।
स कुण्डं वज्रदंष्ट्राणां कीटानां वै प्रयाति च ॥ ७१ ॥
तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम् ।
शब्दकृद्भक्षितस्तैश्च ततः शुद्धो भवेन्नरः ॥ ७२ ॥
अर्थलोभेन यो भूपः प्रजादण्डं करोति च ।
वृश्चिकानां च कुण्डेषु तल्लोमाब्दं वसेद्ध्रुवम् ॥ ७३ ॥
ततो वृश्चिकजातिश्च सप्त जन्मसु जायते ।
ततो नरश्चाङ्गहीनो व्याधियुक्तो भवेद्ध्रुवम् ॥ ७४ ॥
यः खादति गुरुं स्वं च धूर्तो धूर्ततया खलः ।
स कुण्डे वज्रदंष्ट्राणां वसेन्मन्वन्तरावधि ॥ ७५ ॥
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।
संध्याहीनश्च मूढश्च हरिभक्तिविहीनकः ॥ ७६ ॥
स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु ।
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ७७ ॥
कारागारे सान्धकारे निबध्नाति प्रजाश्च यः ।
प्रमत्तः स्वल्पदोषेण गोलकुण्डं प्रयाति सः ॥ ७८ ॥
तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम् ।
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ ७९ ॥
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।
ततो भवेन्नीचभृत्यस्ततः शुद्धो नरो भुवि ॥ ८० ॥
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यः सति ।
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ ८१ ॥
ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम् ।
ततः सद्यो विशुद्धो हि दण्डेनैव नरः पुनः ॥ ८२ ॥
वक्षःश्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः ।
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ ८३ ॥
स वसेत्काककुण्डे च काकैश्च क्षुण्णलोचनः ।
ततः स्वलोममानाब्दं ततश्चान्धस्त्रिजन्मनि ॥ ८४ ॥
स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः ।
स च संचानकुण्डं च स्वलोमाब्दं वसेद्ध्रुवम् ॥ ८५ ॥
ताडितो यमदूतेन संचानैः क्षुण्णलोचनः ।
ततो भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ ८६ ॥
सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी ।
भारते स्वर्णकारश्च स च स्वर्णवणिक्ततः ॥ ८७ ॥
यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि ।
स स्वलोमप्रमाणाब्दं वज्रकुण्डं प्रयाति वै ॥ ८८ ॥
तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः ।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ८९ ॥
भारते देवचौरश्च देवद्रव्यादिहारकः ।
सुदुष्करं वज्रकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९० ॥
देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत् ।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ९१ ॥
रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः ।
तप्तपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९२ ॥
त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि ।
जन्मैक शङ्खचिल्लश्च ततोऽन्ये श्वेतपक्षिणः ॥ ९३ ॥
ततो रक्तविकारी च शूली वै मानवो भवेत् ।
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९४ ॥
रौप्यकांस्यादिपात्रं च यो रेहत्सुरविप्रयो ।
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९५ ॥
स भवेदश्वजातिश्च भारते सप्तजन्मसु ।
ततोऽधिकाङ्गयुक्तश्च पादरोगी ततः शुचिः ॥ ९६ ॥
पुश्चल्यन्नं च यो भुङ्क्ते पुंश्चलीजीव्यजीवनः ।
स्वलोममानवर्षं च लालाकुण्डे वसेद्ध्रुवम् ॥ ९७ ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।
ततश्चक्षुः शूलरोगी ततः शुद्धः क्रमेण सः ॥ ९८ ॥
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि ।
स च तप्तमषीकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९९ ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ १०० ॥
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि ।
ततश्च तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ १०१ ॥
धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।
आसनं च तथा तल्पं चूर्णकुण्डं प्रयाति सः ॥ १०२ ॥
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ १०३ ॥
ततो भवेन्मानवश्च कासव्याधियुतो भुवि ।
वंशहीनो दरिद्रश्चाप्यल्पायुश्च ततः शुचिः ॥ १०४ ॥
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः ।
स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ १०५ ॥
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ १०६ ॥
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः ।
प्रयाति वक्रकुण्डं च वसेत् तत्र युगं सति ॥ १०७ ॥
ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मसु ।
दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ १०८ ॥
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।
कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ १०९ ॥
ततो भवेत्कूर्मजन्म त्रिजन्मनि च सूकरः ।
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ ११० ॥
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः ।
ज्वालाकुण्डं स वै याति भस्मकुण्डं च पातकी ॥ १११ ॥
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः ।
सप्तजन्मसु मत्स्यः स्यान्मूषकश्च ततः शुचिः ॥ ११२ ॥
सुगन्धीतैलं धात्रीं च गन्धद्रव्यं तथैव वा ।
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयो ॥ ११३ ॥
वसेद्दुर्गन्धकुण्डे च दुर्गन्धं च लभेत्सदा ।
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ ११४ ॥
दुर्गन्धिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि ।
सप्तजन्म सुगन्धिश्च ततो वै मानवो भवेत् ॥ ११५ ॥
बलेनैव खलत्वेन हिंसारूपेण वा सति ।
बली च यो हरेद्भूमिं भारते परपैतृकीम् ॥ ११६ ॥
स वसेत्तप्तशूले च भवेत्तप्तो दिवानिशम् ।
तप्ततैले यथा जीवो दग्धो भ्रमति संततम् ॥ ११७ ॥
भस्मसान्न भवत्येव भोगदेहो न नश्यति ।
सप्तमन्वन्तरं पापी संतप्तस्तत्र तिष्ठति ॥ ११८ ॥
शब्दं करोत्यनाहारो यमदूतेन ताडितः ।
षष्टिवर्षसहस्राणि विट्कृमिर्भारते ततः ॥ ११९ ॥
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ।
ततः स्वयोनिं संप्राप्य शुभकर्मा भवेत्पुनः ॥ १२० ॥
छिनत्ति जीवितः खड्गैर्दयाहीनः सुदारुणः ।
नरघाती हन्ति नरमर्थलोभेन भारते ॥ १२१ ॥
असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश ।
तेषु चेद्ब्राह्मणान्हन्ति शतमन्वन्तरं तदा ॥ १२२ ॥
छिन्नाङ्गश्च भवेत्पापी खड्गधारेण संततम् ।
अनाहारः शब्दकृच्च यमदूतेन ताडितः ॥ १२३ ॥
चण्डालः शतजन्मानि भारते सूकरो भवेत् ।
कुक्कुरः शतजन्मानि शृगालः सप्तजन्मसु ॥ १२४ ॥
व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि ।
सप्तजन्मसु गण्डी स्यान्महिषश्च त्रिजन्मनि ॥ १२५ ॥
ग्रामं वा नगरं वाऽपि दाहनं यः करोति च ।
क्षुरधारे वसेत्सोऽपि च्छिन्नाङ्गस्त्रियुगं सति ॥ १२६ ॥
ततः प्रेतो भवेत्सद्यो वह्निवक्रो भ्रमेन्महीम् ।
सप्तजन्मामेध्यभोजी खद्योतः सप्तजन्मसु ॥ १२७ ॥
ततो भवेन्महाशूली मानवः सप्तजन्मसु ।
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ॥ १२८ ॥
परकर्णोपजापेन परनिन्दां करोति यः ।
परदोषे महातोषी देवब्राह्मणनिन्दकः ॥ १२९ ॥
सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम् ।
ततो भवेद्वृश्चिकश्च सर्पः स्यात्सप्तजन्मसु ॥ १३० ॥
वज्रकीटः सरतजनौ भस्मकीटस्ततः परम् ।
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ॥ १३१ ॥
गृहिणां च गृहं भित्त्वा वस्तुस्तेयं करोति यः ।
गाश्च च्छागांश्च मेषांश्च याति गोधामुखं च सः ॥ १३२ ॥
ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ।
ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः ॥ १३३ ॥
त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ।
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ॥ १३४ ॥
भार्याहीनो बन्धुहीनः संतापी च ततः शुचिः ।
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम् ॥ १३५ ॥
ततो भवेन्मानवश्च महारोगी ततः शुचिः ।
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा ॥ १३६ ॥
स याति गजदंशं च महापापी युगत्रयम् ।
ताडितो यमदूतेन गजदन्तेन संततम् ॥ १ ३७ ॥
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ।
गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ॥ १३८ ॥
जलं पिबन्ती तृषितां गां वारयति यो नरः ।
तच्छुश्रूषाविहीनश्च गोमुखं याति मानवः ॥ १३९ ॥
नरकं गोमखाकारं कृमितप्तोदकान्वितम् ।
तत्र तिष्ठति संतप्तो यावन्मन्वन्तरावधि ॥ १४० ॥
ततो नरौऽपि गोहीनो महारोगी दरिद्रकः ।
सप्तजन्मन्यन्त्यजातिस्ततः शुद्धो भवेन्नरः ॥ १४१ ॥
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम् ।
यो हिगच्छेदगम्यां च संध्याहीनोऽप्यदीक्षितः ॥ १४२ ॥
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः ।
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ॥ १४३ ॥
गोहत्या ब्रह्महत्यां च स्त्रीहत्यां च करोति यः ।
मित्रहत्यां भ्रूणहत्यां महापापी च भारते ॥ १४४ ॥
कुम्भीपाकं स च वसेद्यावदिन्द्राश्चतुर्दश ।
ताडितो यमदूतेन घूर्ण्यमानश्च संततम् ॥ १४५ ॥
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ।
क्षणं च तप्ततैलेषु तप्ततोयेषु च क्षणम् ॥ १४६ ॥
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः ।
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ॥ १४७ ॥
काकश्च सप्तजन्मानि सर्पः स्यात्सप्तजन्मसु ।
षष्टिवर्षसहस्राणि ततो वै विट्कृमिर्भवेत् ॥ १४८ ॥
ततो भवेत्स वृषलो गलत्कुष्ठी दरिद्रकः ।
यक्ष्मग्रस्तो वंशहीनो भार्याहीनस्ततः शुचिः ॥ १४९ ॥
सावित्र्युवाच
ब्रह्महत्या च गोहत्या किंविधा वाऽऽतिदेशिकी ।
का वा नृणामगम्या वा को वा संध्याविहीनकः ॥ १५० ॥
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही ।
द्विजः को वा ग्रामयाजी को वा विप्रश्च देवलः ॥ १५१ ॥
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः ।
एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ १५२ ॥
यम उवाच
श्रीकृष्णे च तदर्चायां मृन्मय्यां प्रकृतौ तथा ।
शिवे च शिवलिङ्गं वा सूर्ये सूर्यमणौ तथा ॥ १५३ ॥
गणेशे वा तदर्चायामेवं सर्वत्र सुन्दरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ १५४ ॥
स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ १५५ ॥
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ १५६ ॥
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ।
हरेः पादोदकेष्वन्यदेवपादोदके तथा ॥
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ १५७ ॥
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ १५८ ॥
माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे ।
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ॥ १५९ ॥
पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम् ।
यः करोति निषेधं च ब्रह्महत्यां लभेत्तु सः ॥ १६० ॥
ये निन्दन्ति हृषीकेशं तमन्त्रोपासकं तथा ।
पवित्राणां पवित्रं च ब्रह्महत्यां लभन्ति ते ॥ १६१ ॥
शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम् ।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ १६२ ॥
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् ।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ १६३ ॥
ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् ।
सर्वशक्तिस्वरूपां च प्रकृतिसर्वमातरम् ॥ १६४ ॥
सर्वदेवीस्वरूपां च सर्वाद्या सर्ववन्दिताम् ।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ १६५ ॥
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ।
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा ॥ १६६ ॥
पञ्च पर्वाणि पुण्यानि ये न कुर्वति मानवाः ।
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ १६७ ॥
अम्बुवीच्याबुखनने जले शौचादिकं च ये ।
कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ १६८ ॥
गुरुं च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
अनाथान्यो न पुष्णाति ब्रह्महत्या लभेत्तु सः ॥ १६९ ॥
विवाहो यस्य न भवेन्न पश्यति सुतं च यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ १७० ॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।
पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत्तु सः ॥ १७१ ॥
आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत् ।
याति गोविप्रयोर्मध्ये गोहत्या च लभेत्तु सः ॥ १७२ ॥
दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः ।
दिने दिने गवां हत्यां लभते नात्र संशयः ॥ १७३ ॥
ददाति गोभ्य उच्छिष्टं याजयेद्वृषवाहकम् ।
भोजयेद्वृषवाहान्नं स गोहत्या लभेद्ध्रुवम् ॥ १७४ ॥
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ १७५ ॥
पादं ददाति वह्नौ च गाश्च पादेन ताडयेत् ।
गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ १७६ ॥
यो भुडःक्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।
सूर्योदये च द्विर्भोजी स गोहत्यां लभेद्ध्रुवम् ॥ १७७ ॥
अवोरान्नं च यो भुङ्क्ते योनिजीवी च वै द्विजः ।
यस्त्रिसंध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् ॥ १७८ ॥
पितृंश्च पर्वकाले च तिथिकाले च देवताम् ।
न सेवतेऽतिथिं यो हि गोहत्या स लभेद्ध्रुवम् ॥ १७९ ॥
स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या ।
कटूक्त्या ताडयेत्कान्तं सा गोहत्यां लभेद्ध्रुवम् ॥ १८० ॥
गोमार्गखननं कृत्वा वपते सस्यमेव च ।
तडागे वा तदूर्ध्वं वा स गोहत्या लभेद्ध्रुवम् ॥ १८१ ॥
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।
अर्थलोभादथाज्ञानात्स गोहत्या लभेद्ध्रुवम् ॥ १८२ ॥
राजके दैवके यत्नाद्गोस्वामी गां न पालयेत् ।
दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम् ॥ १८३ ॥
प्राणिनं लङ्घयेद्यो हि देवार्चायां रतं जलम् ।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ॥ १८४ ॥
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।
देवद्वेषो गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥ १८५ ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।
संभ्रमान्न नमेद्यो हि स गोहत्या लभेद्ध्रुवम् ॥ १८६ ॥
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः।
विद्यार्थिने च विद्यां वै स गोहत्यां लभेद्ध्रुवम् ॥ १८७ ॥
गोहत्या ब्रह्महत्या च कथिता चाऽऽतिदेशिकी ।
यथा श्रुतं सूर्यवक्त्रात्किं भूयः श्रोतुमिच्छसि ॥ १८८ ॥
सावित्र्युवाच
वास्तव चाऽऽतिदेशे च संबन्धे पापपुण्ययोः ।
न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि ॥ १८९ ॥
यम उवाच
कुत्रापि वास्तवः श्रेष्ठो न्यूनोऽतिदेशिकः सदा ।
कुत्राऽऽतिदेशिकः श्रेष्ठो वास्तवोन्यून एव च ॥ १९० ॥
कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः ।
करोति तत्र नाऽऽस्थां यो गुरुहत्या लभेत्तु सः ॥ १९१ ॥
पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि ।
गुरौ पितृत्वमारोपाद्वस्तुतः श्रेष्ठ उच्यते ॥ १९२ ॥
पितुः शतगुणा माता मातुः शतगुणस्तथा ।
विद्यामन्त्रप्रदाता च गुरुः पूज्यः श्रुतेर्मतः ॥ १९३ ॥
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।
यथेष्टं देवपत्नी च पूज्या चाभीष्टदेवता ॥ १९४ ॥
विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः ।
राजाऽऽतिदेशिकाच्छ्रेष्ठो वास्तवो गुणलक्षतः ॥ १९५ ॥
सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः ।
ग्रहणे सूर्यशशिनोश्चात्रैव समता तयोः ॥ १९६ ॥
आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः ।
संमतः सर्ववेदानामित्याह कमलोद्भवः ॥ १९७ ॥
आतिदेशिकहत्याया भेदश्च कथितः सति ।
या या गम्या नृणामेव निबोध कथयामि ते ॥ १९८ ॥
स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता ।
अगम्या च तदन्या या चेति वेदविदो विदुः ॥ १९९ ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।
अत्यगम्याश्च या या वै निबोध कथयामि ते ॥ २०० ॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।
अत्यगम्याऽतिनिन्द्या च लोके वेदे पतिव्रते ॥ २०१ ॥
शूद्रश्चेद्ब्राह्मणी गच्छेद्ब्रह्महत्याशतं लभेत् ।
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद् ध्रुवम् ॥ २०२ ॥
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ।
स भ्रष्टो विप्रजातेश्च चण्डालात्सोऽधमः स्मृतः ॥ २०३ ॥
विष्ठासमश्च तत्पिण्डो मूत्रतूल्यं च तर्पणम् ।
तत्पितॄणां सुराणां च पूजने तत्समं सति ॥ २०४ ॥
कोटिजन्माजितं पुण्यं संध्यार्चातपसाऽर्जितम् ।
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः ॥ २०५ ॥
ब्राह्मणश्च सुरापीती विट्भोजी वृषलीपतिः ।
हरिवासरभोजी च कुम्भीपाकं व्रजेद् ध्रुवम् ॥ २०६ ॥
गुरुपत्नीं राजपत्नीं सपत्नीं मातरं प्रसूम् ।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सति ॥ २०७ ॥
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।
मातुः प्रसूं तत्त्वसारं गर्भिणीं भ्रातृकन्यकाम् ॥ २०८ ॥
शिष्या च शिष्यपत्नीं च भागिनेयस्य कामिनीम् ।
भ्रातुः पुत्रप्रियां चैवाप्यगम्यामाह पद्मजः ॥ २०९ ॥
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः ।
स्वमातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ॥ २१० ॥
अकर्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽतिनिन्दितः ।
स याति कुम्भीपाकं च महापापी सुदुस्तरम् ॥ २११ ॥
करोत्यशुद्धां संध्यां च संध्यां वा न करोति यः ।
त्रिःसंध्यां वर्जयेद्यो वा संध्याहीनश्च स द्विजः ॥ २१२ ॥
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।
योऽहंकारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ २१३ ॥
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे ॥ २१४ ॥
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।
वाराणस्यां बदर्यां च गङ्गासागरसंगमे ॥ २१५ ॥
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।
हरिद्वारे च केदारे सोमे बदरिकाश्रमे ॥ २१६ ॥
सरस्वतीनदीतोरे पुण्ये वृन्दावने वने ।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमालये ॥ २१७ ॥
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ॥ २१८ ॥
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्तितः ।
तथा देवोपजीवी यो देवलः परिकीर्तितः ॥ २१९ ॥
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।
संध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥ २२० ॥
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः ।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥ २२१ ॥
कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ २२२ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं
शिवप्राशस्त्यं बह्महत्यादिपदार्थपरिभाषानिरूपणं नाम त्रिंशोऽध्यायः ॥ ३० ॥
GO TOP
|