ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकोनत्रिंशोऽध्यायः

सावित्र्युपाख्याने यमसावित्रिसंवादे नरककुण्डसंख्यानम् -


नारायण उवाच
यमस्तस्यै विष्णुमन्त्रं दत्त्वा च विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १ ॥
यम उवाच
शुभकर्मविपाकं च श्रुतं नानाविधं सति ।
कर्माशुभविपाके च कथयामि निशामय ॥ २ ॥
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा ।
कुकर्मणा च नरकं याति नानाविधं नरः ॥ ३ ॥
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।
नानापुराणभेदेन नामभेदानि तानि च ॥ ४ ॥
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् ।
भयंकराणि घोराणि हे वत्से कुत्सितानि च ॥ ५ ॥
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च ।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ६ ॥
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्ड मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ७ ॥
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ८ ॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नखकुण्डं च दुस्तरम् ॥ ९ ॥
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ १० ॥
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम् ।
घर्मकुण्डं तप्तकुण्डं सुराकुण्डं प्रकीर्तितम् ॥ ११ ॥
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १२ ॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १३ ॥
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १४ ॥
संचालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १५ ॥
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं सुदारुणम् ।
चक्रकुण्डं वज्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १६ ॥
ज्वालाकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि ।
तप्तसूर्यमसीपत्रं क्षुरधारं सुचीमुखम् ॥ १७ ॥
गोधामुखं नक्रमुखं गजदंशं च गोमुखम् ।
कुम्भीपाकं कालसूत्रमवटोदमरुंतुदम् ॥ १८ ॥
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।
उल्कामुखमन्धकूपं वेधनं दण्डताडनम् ॥ १९ ॥
जालबन्धं देहचूर्णं दलनं शोषणंकरम् ।
शूर्पं ज्वालामुखं जिह्मं धूमान्धं नागवेष्टनम् ॥ २० ॥
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।
नियुक्तैः किंकरगणै रक्षितानि च संततम् ॥ २१ ॥
दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयंकरैः ।
शक्तिहस्तैर्गदाहस्तैर्मदमत्तैश्च दारुणैः ॥ २२ ॥
तमोयुक्तैर्दयाहीनैर्दुर्निवार्यैश्च सर्वतः ।
तेजस्विभिश्च निःशङ्‌कैस्ताम्रपिङ्‌गललोचनैः ॥ २३ ॥
योगयुक्तैः सिद्धयोगैर्नानारूपथरैर्वरैः ।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २४ ॥
स्वकर्मनिरतैः शैवैः शास्तः सौरैश्च गाणपैः ।
अदृष्टैः पुण्यकृद्‌भिश्च सिद्धयोगिभिरेव च ॥ २५ ॥
स्वधर्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः ।
बलवद्‌भिश्च निःशङ्‌कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २६ ॥
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् ।
येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २७ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
सावित्र्युपाख्याने यमसावित्रिसंवादे
नरककुण्डसंख्यानं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥


GO TOP