श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - तृतीयोऽध्यायः
नाभिचरिते ऋषभावतारः -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं
यज्ञपुरुषमवहितात्मायजत ॥ १ ॥
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः
प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणा-
विधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्
भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं
निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयोहृदयङ्गमं
मनोनयनानन्दनावयवाभिराममाविश्चकार ॥ २ ॥
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं
पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलस -
च्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमृत-
मणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवर -
मुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्ग -
भूषणविभूषितमृत्विक्सदस्यगहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनत-
शीर्षाण उपतस्थेः ॥ ३ ॥
ऋत्विज ऊचुः
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां
नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान्
प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य
प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी
रूपनिरूपणम् ॥ ४ ॥
सकलजननिकायवृजिननिरसनशिवतम -
प्रवरगुणगणैकदेशकथनादृते ॥ ५ ॥
परिजनानुरागविरचितशबलसंशब्दसलिल-
सितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया
सपर्यया किल परम परितुष्यसि ॥ ६ ॥
अथानयापि न भवत इज्ययोरुभारभरया
समुचितमर्थमिहोपलभामहे ॥ ७ ॥
आत्मन एवानुसवनमञ्जसाऽव्यतिरेकेण
बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८ ॥
तद्यथा बालिशानां स्वयमात्मनः श्रेयः
परमविदुषां परम परमपुरुष प्रकर्षकरुणया
स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन् स्वयं
नापचित एवेतरवदिहोपलक्षितः ॥ ९ ॥
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षे-
र्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत् ॥ १० ॥
असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीनामनवरतपरि-
गुणितगुणगणपरममङ्गलायनगुणगणकथनोऽसि ॥ ११ ॥
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भण -
दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वरमरण-
दशायामपि सकलकश्मलनिरसनानि तव
गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥ १२ ॥
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशी-
माशासान ईश्वरमाशिषां स्ंवर्गापवर्गयोरपि
भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनद-
मिवाधनः फलीकरणम् ॥ १३ ॥
को वा इह ते ऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषयविषरया-
नावृतप्रकृतिरनुपासितमहच्चरणः ॥ १४ ॥
यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-
स्तत्रार्थधिया मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥ १५ ॥
श्रीशुक उवाच
इति निगदेनाभिसूयमानो भगवाननिमिषर्षभो
वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह ॥ १६ ॥
श्रीभगवानुवाच
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वर-
मसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो
भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि
ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्
द्विजदेवकुलम् ॥ १७ ॥
तत आग्नीध्रीयेऽशकलयावतरिष्याम्यात्म-
तुल्यमनुपलभमानः ॥ १८ ॥
श्रीशुकउवाच
इति निशामयन्त्या मेरुदेव्याः पतिम-
भिधायान्तर्दधे भगवान् ॥ १९ ॥
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान्
परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया
तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो
वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां
शुक्लया तनुवावततार ॥ २० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|