अग्निपुराणम्

सप्तत्रिंशोऽध्यायः

संक्षेपतः सर्वदेवसाधारणः पवित्रारोपणविधिः -


अग्निरुवाच -
सङ्‌क्षेपात् सर्वदेवानां पवित्रारोहणं शृणु ।
पवित्र सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि ॥ १ ॥
जगद्योने समागच्छ परिवारगणैः सह ।
निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकं ॥ २ ॥
जगत्सृजे नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥ ३ ॥
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥ ४ ॥
इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥ ५ ॥
व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।
सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥ ६ ॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥ ७ ॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।
गणेश्वर नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥ ८ ॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।
शक्तिदेवि नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥ ९ ॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।
नारायणमयं सूत्रमनिरुद्धमयं वरम् ॥ १० ॥
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।
कामदेवमयं सूत्रं सङ्‌कर्षणमयं वरम् ॥ ११ ॥
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।
वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदम् ॥ १२ ॥
संसारसागरोत्तारकारणं प्रददामि ते ।
विश्वरूपमयं सूत्रं सर्वदं पापनाशनम् ॥ १३ ॥
अतीतानागतकुलसमुद्धारं ददामि ते ।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद् ददे ॥ १४ ॥
इति आदिमहापुराणे आग्नेये
सङ्‌क्षेपतः सर्वदेवसाधारणः पवित्रारोपणं नाम सप्तत्रिंशोऽध्यायः ॥


GO TOP