|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ त्रिंशोऽध्यायः ॥
श्रीपराशर उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् । सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ १ ॥ ततः शङ्खमुपाध्मासीत्स्वर्गद्वारगतो हरिः । उपतस्थुस्तथा देवाः सार्घ्यहस्ता जनर्जनम् ॥ २ ॥ स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ३ ॥ स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे । ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ४ ॥ ततः प्रीता जगन्माता धातारं जगतां हरिम् । तुष्टवादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५ ॥ अदितिरुवाच नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ६ ॥ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । त्रिगुणातीत निर्द्वन्द्व शुद्धसत्त्व हृदि स्थित ॥ ७ ॥ सितदीर्घादिनिःशेषकल्पनापरिवर्जित । जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ८ ॥ सन्ध्या रात्रिरहो भूमिर्गगनं वायुरम्बु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ९ ॥ सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् । ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ १० ॥ देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः । कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ११ ॥ पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः । वृक्षगुल्मलता बह्व्यःसमस्तास्तृणजातयः ॥ १२ ॥ स्थूला मध्यास्तथा सूक्ष्माः सूक्ष्मात्सूक्ष्मतराश्च ये । देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ १३ ॥ माया तवेयमज्ञातपरमार्थातिमोहिनी । अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ १४ ॥ अस्वे स्वमिति भावोऽत्र यत्पुंसामुपजायते । अहं ममेति भावो यत्प्रायेणैवाभिजायते । संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ १५ ॥ यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ १६ ॥ ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा । विष्णुमायामहावर्तमोहान्धतमसावृताः ॥ १७ ॥ आराध्य त्वामभीप्सन्ते कामानात्मभवक्षयम् । यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ १८ ॥ मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च । आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ १९ ॥ कौपीनाच्छादनप्राया वाञ्चा कल्पद्रुमादपि । जायते यदपुण्यानां सोपराधः स्वदोषजः ॥ २० ॥ तत्प्रसीदाखिलजगन्मायामोहकराव्यय । अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ २१ ॥ नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः । नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ २२ ॥ एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् । न जानामि परं यत्ते प्रसीद परमेश्वर ॥ २३ ॥ श्रीपराशर उवाच अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २४ ॥ अदितिरुवाच एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः । अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ २५ ॥ श्रीपराशर उवाच ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् । सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २६ ॥ अदितिरुवाच मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव वा । भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ २७ ॥ श्रीपराशर उवाच अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत्पूजयामास बहुमानपुरःसरम् ॥ २८ ॥ शची च सत्यभामायै पारिजातस्य पुष्पकम् । न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ २९ ॥ ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । देवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ३० ॥ ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ३१ ॥ मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् । पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ३२ ॥ तुतोष परमप्रीत्या तरुराजमनुत्तमम् । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम । कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ३३ ॥ यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ३४ ॥ न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी । सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ३५ ॥ सत्यं तद्यदि गोविन्द नोपचारकृतं मम । तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ३६ ॥ बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् । सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ३७ ॥ श्रीपराशर उवाच इत्युक्तः स प्रहस्यैनां पारिजातं गरुत्मति । आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ३८ ॥ भो शची देवराजस्य महिषी तत्परीग्रहम् । पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ३९ ॥ उत्पन्नो देवराजाय दत्तः सोऽपि ददौ पुनः । महिष्यै सुमहाभाग देव्यै शच्यै कुतूहलात् ॥ ४० ॥ शचीविभूषणार्थाय देवैरमृतमन्थने । उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ४१ ॥ देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् । मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ४२ ॥ अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति । वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ४३ ॥ तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । विपाककटु यत्कर्म तन्न शंसन्ति पण्डिताः ॥ ४४ ॥ श्रीपराशर उवाच इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी । का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ४५ ॥ सामान्यः सर्वलोकस्य यद्येषोऽमृतमन्थने । समुत्पन्नस्तरुः कस्मादेको गृह्णाति वासवः ॥ ४६ ॥ यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः । सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ४७ ॥ भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची । तत्कथ्यतामलं क्षान्त्या सत्या हारयति द्रुमम् ॥ ४८ ॥ कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्येतदिति गर्वोद्धताक्षरम् ॥ ४९ ॥ यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव । मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५० ॥ जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ ५१ ॥ श्रीपराशर उवाच इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् । श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५२ ॥ ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रययौ पारिजातार्थमिन्द्रो योद्धुं द्विजोत्तम ॥ ५३ ॥ ततः परिघनिस्त्रिंशगदाशूलवरायुधाः । बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ ५४ ॥ ततो निरिक्ष्य गोविन्दो नागराजोपरिस्थितम् । शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५५ ॥ चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच शरसङ्घातान् सहस्रायुतशः शितान् ॥ ५६ ॥ ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् । मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राण्यनेकशः ॥ ५७ ॥ एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५८ ॥ पाशं सलिलराजस्य समाकृष्योरगाशनः । चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५९ ॥ यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् । पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ६० ॥ शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । चकार शौरिरर्कं च दृष्टिदृष्टहतौजसम् ॥ ६१ ॥ नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः । चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ६२ ॥ साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सायकैः । शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ६३ ॥ गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः । भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ६४ ॥ ततः शतसहस्रेण देवेन्द्रमधुसूदनौ । परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ६५ ॥ ऐरावतेन गरुडो युयुधे तत्र संकुले । देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ६६ ॥ भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् । जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ६७ ॥ ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम । वज्रचक्रकरौ दृष्ट्वा देवराजजनार्दनौ ॥ ६८ ॥ क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ६९ ॥ प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ ७० ॥ त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् । पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ७१ ॥ कीदृशं देवराज्यं ते पारिजातस्रगुज्ज्वलाम् । अपक्येतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ ७२ ॥ अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि । नीयतां पारिजातोयं देवाःसन्तु गतव्यथाः ॥ ७३ ॥ परिगर्वावलेपेन बहुमानपुरःसरम् । न ददर्श गृहं यातामुपचारेण मां शची ॥ ७४ ॥ स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा । ततः कृतवती शक्र भवता सह विग्रहम् ॥ ७५ ॥ तदलं पारीजातेन परस्वेन हृतेन मे । रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ७६ ॥ श्रीपराशर उवाच इत्युक्तो वै निववृते देवराजस्तया द्विज । प्राह चैनामलं चण्डि सख्युः खेदोक्तिविस्तरैः ॥ ७७ ॥ न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः । जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ७८ ॥ यस्माज्जगत्सकलमेतदनादिमध्या- द्यस्मिन्यतश्च न भविष्यति सर्वभूतात् । तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ७९ ॥ सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्मा विदितसकलबैद्यैर्ज्ञायते यस्य नान्यैः । तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ८० ॥ इति श्रीपिष्णुमहापुराणे पञ्चमेंऽशे त्रिंशोध्यायः (३०) |