|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ षष्ठोऽध्यायः ॥
श्रीपराशर उवाच
कदाचिच्छकटस्याधः शयानो मधुसूदनः । चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ १ ॥ तस्य पादप्रहारेण शकटं परिवर्तितम् । विध्वस्तकुम्भभाण्डं तद्विपरीतं पपात वै ॥ २ ॥ ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज । आजगामाथ ददृशे बालमुत्तानशायिनम् ॥ ३ ॥ गोपाः केनेति केनेदं शकटं परिवर्तितम् । तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ ४ ॥ रुदता दृष्टमस्माभिः पादविक्षेपपातितम् । शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ ५ ॥ ततः पुनरतीवासन्गोपा विस्मयचेतसः । नन्दगोपोपि जग्राह बालमत्यन्तविस्मितः ॥ ६ ॥ यशोदा शकटारूढभग्नभाण्डकपालिका । शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ ७ ॥ गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥ ८ ॥ ज्येष्ठं च राममित्याह कृष्णं चैव तथावरम् । गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ ९ ॥ स्वल्पेनैव तु कालेन रिङ्गिणौ तौ तदा व्रजे । घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ १० ॥ करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ ११ ॥ गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः । तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ १२ ॥ यदा यशोदा तौ बालावेकस्थानचरावुभौ । शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १३ ॥ दाम्ना मध्ये ततो बद्ध्वा बबन्ध तमुलूखले । कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १४ ॥ यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित । इत्युक्त्वाथ निजं कर्म सा चकार कुटुम्बिनी ॥ १५ ॥ व्याग्रायामथ तस्यां स कर्षमाम उलूखलम् । यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ १६ ॥ कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् । भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ १७ ॥ ततः कटकटाशब्दसमाकर्णनतत्परः । आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ १८ ॥ नवोद्गताल्पदन्तांशुसितहासं च बालकम् । तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे ॥ १९ ॥ ततश्च तामोदरतां स ययौ दामबन्धनात् ॥ २० ॥ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः । मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ २१ ॥ स्थानेनेह न नः कार्यं व्रजामोन्यन्महावनम् । उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ २२ ॥ पूतनाया विनाशश्च शकटस्य विपर्ययः । विना वातादिदोषेण द्रुमयोः पतनं तथा ॥ २३ ॥ वृन्दावनमितः स्थानात्तस्माद्गच्छाम मा चिरम् । यावद्भौममहोत्पातदोषो नाभिभवेद्व्रजम् ॥ २४ ॥ इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः । ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्बथ ॥ २५ ॥ ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा । यूथशो वत्सपालाश्च कालयन्तो व्रजौकसः ॥ २६ ॥ द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा । काकभाससमाकीर्णं व्रजस्थानमभूद्द्विज ॥ २७ ॥ वृन्दावनं भगवता कृष्णेना क्लिष्टकर्मणा । शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ २८ ॥ ततस्तत्रातिरूक्षेऽपि घर्मकाले द्विजोत्तम । प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ २९ ॥ स समावासितः सर्वो व्रजो वृन्दावने ततः । शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ ३० ॥ वत्सपालौ च संवृत्तौ रामदामोदरौ ततः । एक स्थनस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ ३१ ॥ बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ । गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ ३२ ॥ काकपक्षधरौ बालौ कुमाराविव पावकी । हसन्तौ च रमन्तौ च चेरतुः स्म महावनम् ॥ ३३ ॥ क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः । गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ ३४ ॥ कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे । सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ ३५ ॥ प्रावृट्कालस्ततोऽतीव मेघौघस्थगिताम्बरः । बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ॥ ३६ ॥ प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही । तथा मारकतीवासीत्पद्मरागविभूषिता ॥ ३७ ॥ ऊहुरुन्मार्गवाहीनि निम्नगाम्भांसि सर्वतः । मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ ३८ ॥ न रेजेऽन्तरितश्चन्द्रो निर्मलो मलिनैर्घनैः । सद्वादिवादो मूर्खणां प्रगल्भाभिरिवोक्तिभिः ॥ ३९ ॥ निर्गुणेनापि चापेन शक्रस्य गगने पदम् । अवाप्यताविवेकस्य नृपस्यैव परिग्रहे ॥ ४० ॥ मेघपृष्ठे बलाकानां रराज विमला ततिः । दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशोभना ॥ ४१ ॥ न बबन्धाम्बरे स्थैर्यं विद्युदत्यन्तचञ्चला । मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ ४२ ॥ मार्गा बभूवुरस्पष्टास्तृणशष्पचयावृताः । अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ ४३ ॥ उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने । कृष्णरामौ मुदायुक्तौ गोपालैश्चेरतुः सह ॥ ४४ ॥ क्वचिद्गोभिः समं रम्यं गेयतानरतावुभौ । चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ ४५ ॥ क्वचित्कदम्बस्रक्चित्रौ मयूरस्रग्विराजितौ । विलिप्तौ क्वचिदासातां विविधैर्गिरिधातुभिः ॥ ४६ ॥ पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ । क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ ४७ ॥ गायतामन्यगोपानां प्रशंसापरमौ क्वचित् । मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ ४८ ॥ इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ । क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ ४९ ॥ विकाले च समं गोभिर्गोपवृन्दसमन्वितौ । विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ ५० ॥ गोपैः समानैः सहितौ क्रीडन्तावमराविव । एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ ५१ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे षष्ठोऽध्यायः (६) |