॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ सप्तमोऽध्यायः ॥

श्रीपराशर उवाच
तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुः श्रुतायुः शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥
तथामावसोर्भीमनामा पुत्रोऽभवत् ॥ २ ॥
भीमस्य काञ्चनः काञ्चनात्सुहोत्रस्तस्यापि जह्नुः ॥ ३ ॥
योऽसौ यज्ञवाटमखिलं गङ्‍गाम्भसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्‍गामपिबत् ॥ ४ ॥
अथैनं देवर्षयः प्रसादयामासुः ॥ ५ ॥
दुहितृत्वे चास्य गङ्‍गामनयन् ॥ ६ ॥
जह्नोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥
तस्याप्यजकस्ततो बलाकाश्वः तस्मात्कुशस्तस्यापि कुशाम्बुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥
तेषां कुशाम्बः शक्रतुल्यो मुत्रो भवेदिति तपश्चकार ॥ ९ ॥
तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ १० ॥
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥
गाधिश्च सत्यवतीं कन्यामजनयत् ॥ १२ ॥
तां च भार्गवः ऋचीको वव्रे ॥ १३ ॥
गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसां अनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥
तेनाप्यृषिणा वरुणसकाशाद् उपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ १५ ॥
ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥
ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ॥
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास ॥ १८ ॥
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्य इत्युक्त्वा वनं जगाम ॥ १९ ॥
उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥
तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ २३ ॥
अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥
आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥
नूनं त्वया त्वन्मातृसात्कृतश्चारुरुपयुक्तो न युक्तामेतत् ॥ २६ ॥
मया हि तत्र चरौ सकलैश्वर्यवीर्य शौर्यबलसम्पदारोपिता त्वदीयचरावऽपि अखिलशान्तिज्ञानतितिक्षादि ब्राह्मणगुणसम्पत् ॥ २७ ॥
तच्च विपरीतं कुर्वत्याः तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ २८ ॥
प्रणिपत्य चैनमाह ॥ २९ ॥
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥
एवमस्त्विति ॥ ३१ ॥
अनन्तरं च सा जमदग्निमजीजनत् ॥ ३२ ॥
तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥
सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥
जमदग्निरिक्ष्वाकुवंशोद्‍भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतः सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥
विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर्दत्तः ततश्च देवरातनामाभवत् ॥ ३७ ॥
ततश्चान्ये मधुश्चन्दोधनञ्जयकृत देवाष्टककच्छपहरिराख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत् ॥ ३९ ॥
इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमोऽध्यायः (७)


GO TOP