॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ द्वितीयोऽध्यायः ॥

मैत्रेय उवाच
प्रोक्तान्येानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥ १ ॥
श्रीपराशर उवाच
सूर्यस्य पत्‍नी संज्ञाभूत्तनया विश्वकर्मणः ।
मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ २ ॥
असहन्ती तु सा भर्तुस्तेजच्छायां युयोज वै ।
भर्तृशुश्रूषणेऽरण्यं स्वयं च तपसे ययौ ॥ ३ ॥
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् ।
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ४ ॥
छायासंज्ञा ददौ शापं यमाय कुपिता यदा ।
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ५ ॥
ततो विवस्वानाख्याते तयैवारण्यसंस्थिताम् ।
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ६ ॥
वाजिरूपधरः सोऽथ तस्यां देवावथाश्विनौ ।
जनयामास रेवन्तं रेतसोऽन्ते च भास्करः ॥ ७ ॥
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः ।
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ८ ॥
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् ।
कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ९ ॥
यत्तस्माद्वैष्णवं तेजश्शातितं विश्वकर्मणा ।
जाज्वल्यमानमपतत्तद्‍भूमौ मुनिसत्तम ॥ १० ॥
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् ।
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ११ ॥
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् ।
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ १२ ॥
छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः ।
पूर्वजस्यासवर्णोऽसौ सावर्णिस्तेन कथ्यते ॥ १३ ॥
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ १४ ॥
सावर्णिस्तु मनुर्योऽसौ मैत्रेय भविता ततः ।
सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ १५ ॥
तेषां गणश्च देवानामेकैको विंशकः स्मृतः ।
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ १६ ॥
दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः ।
मत्पुत्रश्च तथा व्यास ऋष्यशृङ्‍गश्च सप्तमः ॥ १७ ॥
विष्णु प्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ १८ ॥
विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे ।
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ १९ ॥
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ २० ॥
पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा ।
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ २१ ॥
तेषामिन्द्रो महावीर्यो भविष्यत्यद्‍भुतो द्विज ॥ २२ ॥
सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा ।
ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ २३ ॥
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ ।
पृथुश्रवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥ २४ ॥
दसमो ब्रह्मसावर्णिर्भविष्यति मुने मनुः ।
सुधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ २५ ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ २६ ॥
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः ।
नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ २७ ॥
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुन्धराम् ॥ २८ ॥
एकादशश्च भविता धर्मसावर्णिको मनुः ॥ २९ ॥
विहङ्‍गमाः कामागमा निर्वाणा ऋषयस्तथा ।
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै वृषः ॥ ३० ॥
निःस्वरश्चाग्नितेजाश्च वपुष्मान्घृणिरारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३१ ॥
सर्वत्रगःसुधर्मा च देवानीकादयस्तथा ।
भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥ ३२ ॥
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥ ३३ ॥
हरिता रोहिता देवास्तथा सुमनसो द्विज ।
सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३४ ॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३५ ॥
देववानुपदेवश्च देवश्रेष्ठादयस्तथा ।
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३६ ॥
त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३७ ॥
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः ।
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३८ ॥
दिवस्पतिर्महावीर्यस्तेषामिन्द्रो भविष्यति ॥ ३९ ॥
निर्मोहस्तत्त्वदर्शि च निष्प्रकम्प्यो निरुत्सुकः ।
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ४० ॥
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥ ४१ ॥
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः ।
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ४२ ॥
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा ।
वाचावृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ४३ ॥
अग्निबाहुः शुचिः शुक्रो मागधोऽग्निध्र एव च ।
युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ४४ ॥
ऊरुगम्भीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ४५ ॥
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ४६ ॥
कृते कृते स्मृतेर्विप्र प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ४७ ॥
भवन्ति ये मनोः पुत्रा यावन्मन्वंतरं तु तैः ।
तदन्वयोद्‍भवैश्चैव तावद्‍भूः परीपाल्यते ॥ ४८ ॥
मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः ।
मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणः ॥ ४९ ॥
चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ।
सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ५० ॥
तावत्प्रमाणा च निशा ततो भवति सत्तम ।
ब्रह्मरूपधरः शेते शेषाहावम्बुसम्प्लवे ॥ ५१ ॥
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः ।
स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥ ५२ ॥
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः ।
सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः ॥ ५३ ॥
मनवो भूभुजःसेन्द्रा देवाःसप्तर्षयस्तथा ।
सात्त्विकोंऽशः स्थितिकरो जगतो द्विजसत्तम ॥ ५४ ॥
चदुर्युगोऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः ।
युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ५५ ॥
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ।
ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ५६ ॥
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः ।
दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ५७ ॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ५८ ॥
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः ।
कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ५९ ॥
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च ।
हन्ति चान्तेष्वनन्तात्मा नास्त्यस्माद्‌व्यतिरेकि यत् ॥ ६० ॥
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः ।
तदत्रान्यत्र वा विप्र सद्‍भावः कथितस्तव ॥ ६१ ॥
मन्वन्तराण्यशेषाणि कथितानि मया तवा ।
मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ६२ ॥
इति श्रिविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (२)



GO TOP