॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ अष्टमोऽध्यायः ॥

पराशर उवाच
व्याख्यातमैतद्‍ब्रह्मण्डसंस्थानं तव सुव्रत ।
ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै ॥ १ ॥
योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥ २ ॥
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै ।
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ३ ॥
त्रिनाभिमति पञ्चारे षण्नेमिन्यत्रयात्मके ।
संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥ ४ ॥
हयाश्च सप्तच्छदांसि तेषां नामानि मे शृणु ।
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च ।
अनुष्टुप्पङ्‍क्तिरित्युक्ता छन्दांसि हरयो रवेः ॥ ५ ॥
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः ।
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥ ६ ॥
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो ।
ह्रस्वोऽक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै ।
द्वितीयेऽक्षे तु तच्चक्रं सस्थितं मानसाचले ॥ ७ ॥
मानसोत्तरशैलस्य पूर्वतो वासवी पुरी ।
दक्षिणे तु यमस्यान्या प्रतीच्यां वरुणस्य च ।
उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ ८ ॥
वस्वौकसारा शक्रस्य याम्या संयमनी तथा ।
पुरी सुखा जलेशस्य सोमस्य च विभावरी ॥ ९ ॥
काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।
मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥ १० ॥
अहोरात्रव्यवस्थानकारणं भगवान् रविः ।
देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥ ११ ॥
दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः ।
सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः ॥ १२ ॥
उदयास्तमने चैव सर्वकालं तु सम्मुखे ।
विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ १३ ॥
यैर् यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ १४ ॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ १५ ॥
शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् ।
विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥ १६ ॥
उदितो वर्धमानाभिरामध्याह्नात्तपन् रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति ॥ १७ ॥
उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ ।
यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥ १८ ॥
ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।
ये ये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् ।
ते ते निरस्तास्तद्‍भासा प्रतीपमुपयान्ति वै ॥ १९ ॥
तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि ।
सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः ॥ २० ॥
प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे ।
विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते ॥ २१ ॥
वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज ।
अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ २२ ॥
तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी ।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ २३ ॥
दक्षिणोत्तरभूम्यर्धे समुत्तिष्ठति भास्करे ।
आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥ २४ ॥
आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् ।
दिनं विशति चैवाम्भो भास्करेस्तमुपेयुषि ।
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ २५ ॥
एवं पुष्करमध्येन यदा याति दिवाकरः ।
त्रिंशद्‍भागन्तु मेदिन्यास्तदा मौहूर्तिकी गतिः ॥ २६ ॥
कुलालचक्रपर्यन्तो भ्रमन्नेष दिवाकरः ।
करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः ॥ २७ ॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः ।
ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥ २८ ॥
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ।
प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥ २९ ॥
ततो रात्रिः क्षयं याति वर्धतेऽनुदिनं दिनम् ॥ ३० ॥
ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः ।
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ ३१ ॥
कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते ।
दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्तते ॥ ३२ ॥
अतिवेगितया कालं वायुवेगबलाच्चरन् ।
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ ३३ ॥
सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्ते दक्षिणायने ।
त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज ।
मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ३४ ॥
कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ३५ ॥
तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति ।
अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम् ॥ ३६ ॥
अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ३७ ॥
त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः ।
मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥ ३८ ॥
अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ ३९ ॥
कुलालचक्रनाभिस्तु यथा तत्रैववर्तते ।
ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥ ४० ॥
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु ।
दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ ४१ ॥
मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः ।
शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥ ४२ ॥
एक प्रमाणमेवैष मार्गं याति दिवाकरः ।
अहोरात्रेण यो भुङ्‍क्ते समस्ता राशयो द्विज ॥ ४३ ॥
षडेव राशीन् यो भुङ्‍क्ते रात्रावन्यांश्च षड्दिवा ॥ ४४ ॥
राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने ।
तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥ ४५ ॥
दिनादेर्दिर्घह्रस्वत्वं तद्‍भोगेनैव जायते ।
उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥ ४६ ॥
दक्षिणे त्वयने चैव विपरीतां विवस्वतः ॥ ४७ ॥
उषा रात्रिः समाख्याता व्युष्टिश्चाप्युच्यते दिनम् ।
प्रोच्यते च तथा सन्ध्या उषाव्युष्ट्योर्यदन्तरम् ॥ ४८ ॥
सन्ध्याकाले च सम्प्राप्ते रौद्रे परमदारुणे ।
मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति खादितुम् ॥ ४९ ॥
प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् ।
अक्षयत्वं शरीराणां मरणं च दिने दिने ॥ ५० ॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् ।
ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ॥ ५१ ॥
ओङ्‍कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ।
तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ ५२ ॥
अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः ।
सूर्योज्योतिः सहस्रांशुस्तया दीप्यति भास्करः ॥ ५३ ॥
ओङ्‍कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः ।
तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ ५४ ॥
वैष्णुवोंऽशः परः सूर्यो योऽन्तर्ज्योतिरसम्प्लवम् ।
अभिधायक ओङ्‍कारस्तस्य तत्प्रेरकं परः ॥ ५५ ॥
तेन सम्प्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् ।
दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥ ५६ ॥
तस्मान्नोल्लङ्‍घनं कार्यं सन्ध्योपासनकर्मणः ।
स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ॥ ५७ ॥
ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः ।
वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ ५८ ॥
काष्ठा निमेषा दश पञ्च चैव
     त्रिंशच्च काष्ठा गणयेत्कलां च ।
त्रिंशत्कलश्चैव भवेन्मुहूर्त-
     स्तैस्त्रिंशता रात्र्यहनी समेते ॥ ५९ ॥
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम् ।
सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥ ६० ॥
रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ ।
प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ॥ ६१ ॥
तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु सङ्‍गवः ।
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्‍गवात् ॥ ६२ ॥
तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः ।
त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥ ६३ ॥
आपराह्णे व्यतीते तु कालः सायाह्न एव च ।
दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ॥ ६४ ॥
दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥ ६५ ॥
वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे ।
अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥ ६६ ॥
शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते ।
तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ ६७ ॥
कर्कटावस्थिते भानौ दक्षिणायनमुच्यते ।
उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ ६८ ॥
त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया ।
तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ ६९ ॥
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ।
ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥ ७० ॥
संवत्सरादयः पञ्च चतुर्मासविकल्पिताः ।
निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥ ७१ ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।
वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः ॥ ७२ ॥
यः श्वेतस्योत्तरः शैलः शृङ्‍गवानिति विश्रुतः ।
त्रीणि तस्य तु शृङ्‍गाणि यैरयं शृङ्‍गवान्स्मृतः ॥ ७३ ॥
दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा ।
शरद्वसन्तयोर्मध्ये तद्‍भानुः प्रतिपद्यते ।
मेषादौ च तुलादौ च मैत्रेय विषुवस्थितम् ॥ ७४ ॥
तदा तुल्यमहोरात्रं करोति तिमिरापहः ।
दशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ॥ ७५ ॥
प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी ।
विशाखानां चतुर्थेंऽशे मुने तिष्ठत्यसंशयम् ॥ ७६ ॥
विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् ।
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ ७७ ॥
तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते ।
तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ॥ ७८ ॥
ब्रह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम् ।
दत्तदानस्तु विषुवे कृतकृत्योऽभिजायते ॥ ७९ ॥
अहोरात्रार्धमासास्तु कलाः काष्ठाः क्षणास्तथा ।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ ८० ॥
तपस्तपस्यै मधुमाधवौ च
     शुक्रः शुचिश्चायनमुत्तरं स्यात् ।
नभोनभस्यौ च इषस्तथोर्ज-
     स्सहसहस्याविति दक्षिणं तत् ॥ ८१ ॥
लोका लोकश्च यश्शैलः प्रागुक्तो भवतो मया ।
लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥ ८२ ॥
सुधामा शङ्‍खपाच्चैव कर्दमस्यात्मजो द्विज ।
हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ॥ ८३ ॥
निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः ।
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ ८४ ॥
उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् ।
पितृयानः स वै पन्था वैश्वानरपथाद्‍बहिः ॥ ८५ ॥
तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः ।
भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ।
प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥ ८६ ॥
चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे ।
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ८७ ॥
जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै ।
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥ ८८ ॥
एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ।
सवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम् ॥ ८९ ॥
नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ॥ ९० ॥
तत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः ।
सन्ततिं ते जुगुप्सन्ति तस्मान्मृत्युर्जितश्च तैः ॥ ९१ ॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
उदक्पन्थानमर्यम्णः स्थितान्याभूतसम्प्लवम् ॥ ९२ ॥
ते सम्प्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् ।
इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥ ९३ ॥
पुनश्च कामासंयोगाच्छब्दादेर्देषदर्शनात् ।
इत्येभिः कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ॥ ९४ ॥
आभूतसम्प्लवं स्थानममृतत्वं विभाव्यते ।
त्रैलोक्यस्थितिकालोऽयमपुनर्मार उच्यते ॥ ९५ ॥
ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः ।
आभूतसम्प्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥ ९६ ॥
यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः ।
क्षयमायाति तावत्तु भूमेराभूतसम्प्लवात् ॥ ९७ ॥
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ ९८ ॥
निर्धूतदोषपङ्‍कानां यतीनां संयतात्मनाम् ।
स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ ९९ ॥
अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम् ॥ १०० ॥
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥ १०१ ॥
यत्रोतमेतत्प्रोतं च यद्‍भूतं सचराचरम् ।
भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ १०२ ॥
दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ १०३ ॥
यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः ।
ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज ॥ १०४ ॥
मेघेषु सङ्‍गता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम् ।
आप्यायनं च सर्वेषां देवादीनां महामुने ॥ १०५ ॥
ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः ।
वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥ १०६ ॥
एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् ।
आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ १०७ ॥
ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित् ।
गङ्‍गा देवाङ्‍गनाङ्‍गानामनुलेपनपिञ्जरा ॥ १०८ ॥
वामपादाम्बुजाङ्‍गुष्ठनखस्त्रोतोविनिर्गताम् ।
विष्णोर्बिभार्ति यां भक्त्या शिरस्साहर्निशं ध्रुवः ॥ १०९ ॥
ततः सप्तर्षयो यस्याः प्राणायामपरायणाः ।
तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ ११० ॥
वार्योघैः सन्ततैर्यस्याः प्लावितं शशिमण्डलम् ।
भूयोधिकतरां कान्तिं वहत्येतदुह क्षये ॥ १११ ॥
मेरुपृष्टे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् ।
जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ ११२ ॥
सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता ।
एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥ ११३ ॥
भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् ।
दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ॥ ११४ ॥
शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराः ।
प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥ ११५ ॥
स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति ।
अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥ ११६ ॥
दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।
समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ ११७ ॥
यस्यामिष्ट्‌वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् ।
द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ ११८ ॥
स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथा ।
केशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥ ११९ ॥
श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता ।
या पावयति भूतानि कीर्तिता च दिने दिने ॥ १२० ॥
गङ्‌गा गङ्‍गेति यैर्नाम योजनानां शतेष्वपि ।
स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ १२१ ॥
यतः सा पावनायालं त्रयाणां जगतामपि ।
समुद्‍भूता परं तत्तु तृतीयं भगवत्पदम् ॥ १२२ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशेऽष्टमोऽध्यायः (८)



GO TOP