|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ द्वाविंशोऽध्यायः ॥
श्रीपराशर उवाच -
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ १ ॥ नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये दधद्ब्रह्म यज्ञानां तपसामपि ॥ २ ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ ३ ॥ प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ ४ ॥ पितॄणां धर्मराजं तं यमं राज्येऽभ्यषेचयत् । ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ ॥ ५ ॥ पतत्रिणां तु गरुडं देवानामपि वासवम् । उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ ६ ॥ मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः । शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ ७ ॥ हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् । नखिनां देष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ ८ ॥ वनस्पतीनां राजानां प्लक्षमैवाभ्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ ९ ॥ एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ १० ॥ पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ ११ ॥ दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ १२ ॥ पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १३ ॥ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ १४ ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १५ ॥ एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १६ ॥ ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १७ ॥ ये तु देवाधिपतयो ये च दैत्याधिपास्तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १८ ॥ पशुनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १९ ॥ वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः । अतीता वर्तमानाश्च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भावाः ॥ २० ॥ न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ २१ ॥ सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ २२ ॥ चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ २३ ॥ एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानां चान्यभागशः ॥ २४ ॥ कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ २५ ॥ एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् । मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ २६ ॥ सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् । सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ २७ ॥ आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ २८ ॥ अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते । कालस्वरूपो भागो यस्सर्वभूतानि चापरः ॥ २९ ॥ विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ ३० ॥ ब्रह्म दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ ३१ ॥ विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ ३२ ॥ रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलयायैता जनार्दनविभूतयः ॥ ३३ ॥ जगदादौ तथा मध्ये सृष्टिराप्रलयाद् द्विज । धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ ३४ ॥ ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ ३५ ॥ कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ ३६ ॥ एवमेव विभागोयं स्थितावप्युपदिश्यति । चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ ३७ ॥ यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ ३८ ॥ हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् । जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वतुः ॥ ३९ ॥ एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ ४० ॥ सृष्टिस्थित्यन्तकालेषु त्रिधैवं सम्प्रवर्तते । गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ ४१ ॥ तच्च ज्ञानमयं व्यापि स्वासंवेद्यमनौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ ४२ ॥ श्रीमैत्रेय उवाच - चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ ४३ ॥ श्रीपराशर उवाच - मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ ४४ ॥ योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् । साध्यं च परमं ब्रह्म पुनर्नवर्ततेयतः ॥ ४५ ॥ साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ ४६ ॥ युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः । तदालम्बनविज्ञानं द्वितीयोंऽशो महामुने ॥ ४७ ॥ उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोऽन्यो मयोदितः ॥ ४८ ॥ ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने । तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ ४९ ॥ निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ ५० ॥ प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ५१ ॥ तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ ५२ ॥ एवम्प्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ ५३ ॥ तद्ब्रह्म परमं योगी यतो नावर्तते पुनः । श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ ५४ ॥ द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च । क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ ५५ ॥ अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणि यथा । परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ ५६ ॥ तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ ५७ ॥ ब३ह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः । ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ ५८ ॥ ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः । न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ ५९ ॥ तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ ६० ॥ सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्तं यद्योगिभिः पुर्वं योगारम्भेषु चिन्त्यते ॥ ६१ ॥ सालम्बनो महायोगः सबीजो यत्र संस्थितः । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ ६२ ॥ स परः परशक्तीनां ब्रह्मणः समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ ६३ ॥ यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् । ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ ६४ ॥ क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ ६५ ॥ श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्ति भगवन्विष्णुस्तन्ममाख्यातुमर्हसि ॥ ६६ ॥ श्रीपराशर उवाच नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममाभवत् ॥ ६७ ॥ आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ ६८ ॥ श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ ६९ ॥ भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः । बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ ७० ॥ चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ ७१ ॥ पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसङ्घाता भूतमाला च वै द्विज ॥ ७२ ॥ यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ ७३ ॥ बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् । विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ ७४ ॥ इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च । भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ ७५ ॥ अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ ७६ ॥ सविकारं प्रधानं च पुमांसमखिलं जगत् । बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ ७७ ॥ या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् । तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ ७८ ॥ कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवानपापो हरिरव्ययः ॥ ७९ ॥ भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ ८० ॥ लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः । आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ ८१ ॥ देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः । ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ ८२ ॥ ऋचो यजूंषि सामानि तथैवाथर्वणानि वै । इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ ८३ ॥ वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ ८४ ॥ काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ ८५ ॥ यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ ८६ ॥ अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ ८७ ॥ इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज । यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ ८८ ॥ कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सर्वं मैत्रेयाप्नोति मानवः ॥ ८९ ॥ देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् । भवन्ति शृण्वतः पुंसो देवाद्या वरदा मुने ॥ ९० ॥ इति श्रिविष्णुमहापुराणे प्रथमेंऽशे द्वाविंशोऽध्यायः इति श्रीपराशरमुनिविरचिते श्रिविष्णुपरत्वनिर्णायके श्रीमद् विष्णुमहापुराणे प्रथमांशः समाप्तः । |