॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ त्रयोदशोऽध्यायः ॥

पराशर उवाच
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत ।
शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥ १ ॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ २ ॥
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ३ ॥
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥ ४ ॥
कुरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाञ्छुचिः ।
अग्निष्टोमोऽतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नड्वलायां महौजसः ॥ ५ ॥
कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् ।
अङ्‌गं सुमनसं ख्यातिं क्रतुमङ्‌गिरसं शिबिम् ॥ ६ ॥
अङ्‌गात्सुनीथापत्यं वै वेनमेकमजायत ।
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ ७ ॥
वेनस्य पाणौ मथिते सम्बभूव महामुने ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्यते ॥ ८ ॥
येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥ ९ ॥
मैत्रेय उवाच
किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः ।
यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम ॥ १० ॥
पराशर उवाच
सुनीथा नाम या कन्या मृत्योः प्रथमजाभवत् ।
अङ्‌गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ ११ ॥
स मातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥ १२ ॥
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः ।
घोषयामास स तदा पृथिव्यां पृथिवीपतिः ॥ १३ ॥
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन ।
भोक्ता यज्ञस्य कस्त्वन्यो ह्यहं यज्ञपतिः प्रभुः ॥ १४ ॥
ततस्तमृषयः पूर्वं सम्पूज्य पृथिवीपतिम् ।
ऊचुः सामकलं वाक्यं मैत्रेय समुपस्थिताः ॥ १५ ॥
ऋषय ऊचुः
भो भो राजन् शृणुष्व त्वं यद्‌वदाम महीपते ।
राज्यदेहोपकाराय प्रजानां च हितं परम् ॥ १६ ॥
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥ १७ ॥
यज्ञेन यज्ञपुरुषो विष्णुः सम्प्रीणितो नृप ।
अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥ १८ ॥
यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे सम्पूज्यते हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ १९ ॥
वेन उवाच
मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः ।
कोऽयं हरिरिति ख्यातो यो वै यज्ञेश्वरो मतः ॥ २० ॥
ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः ।
हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः ॥ २१ ॥
एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ २२ ॥
एवं ज्ञात्वा मयाज्ञप्तं यद्यथा क्रियतां तथा ।
न दातव्यं न होतव्यं न यष्टव्यं च भो द्विजाः ॥ २३ ॥
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ २४ ॥
ऋषय ऊचुः
देह्यनुज्ञां महाराज मा धर्मो यातु सङ्‍क्षयम् ।
हविषां परिणामोऽयं यदेतदखिलं जगत् ॥ २५ ॥
पराशर उवाच
इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः ।
यदा ददाति नानुज्ञां तदा प्रोक्तः पुनः पुनः ॥ २६ ॥
ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः ।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ २७ ॥
यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥ २८ ॥
इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणा नृपम् ।
निजघ्नुर्निहतं पूर्वं भगवन्निन्दनादिना ॥ २९ ॥
ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज ।
किमेतदिति चासन्नान्पप्रच्छुस्ते जनांस्तदा ॥ ३० ॥
आख्यातं च जनैस्तेषां चौरीभूतैरराजके ।
राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥ ३१ ॥
तेषामुदीर्णवेगानां चौराणां मुनिसत्तमाः ।
सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥ ३२ ॥
ततः संमन्त्र्य ते सर्वे मुनयस्तस्य भूभृतः ।
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ ३३ ॥
मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः खर्वाटास्योऽतिह्रस्वकः ॥ ३४ ॥
किं करोमीति तान्सर्वान्स विप्रानाह चातुरः ।
निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ॥ ३५ ॥
ततस्तत्सम्भवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ ३६ ॥
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥ ३७ ॥
ततोऽस्य दक्षिणं हस्तं ममन्थुस्ते द्विजोत्तमाः ॥ ३८ ॥
मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ३९ ॥
आद्यमाजगवं नाम खात्पपात ततो धनुः ।
शराश्च दिव्या नभसः कवचं च पपात ह ॥ ४० ॥
तस्मिञ् जाते तु भूतानि सम्प्रहृष्टानि सर्वशः ॥ ४१ ॥
सत्पुत्रेण च जातेन वेनोऽपि त्रिदिवं ययौ ।
पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना ॥ ४२ ॥
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥ ४३ ॥
पितामहश्च भगवान्देवैराङ्‌गिरसैः सह ।
स्थावराणि च भूतानि जङ्‌गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ॥ ४४ ॥
हस्ते तु दक्षिणे चक्रं दृष्ट्‍वा तस्य पितामहः ।
विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ॥ ४५ ॥
विष्णुचिह्नं करे चिह्नं सर्वेषां चक्रवर्तिनाम् ।
भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि ॥ ४६ ॥
महता राजराज्येन पृथुर्वैन्यः प्रतापवान् ।
सोऽभिषिक्तो महातेजा विधिवद्‌धर्मकोविदैः ॥ ४७ ॥
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥ ४८ ॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्‌गश्च नाभवत् ॥ ४९ ॥
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥ ५० ॥
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ५१ ॥
तस्मिन्नेव महायज्ञो जज्ञे प्राज्ञोऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५२ ॥
स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् ।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥ ५३ ॥
ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली ।
अद्यजातस्य नो कर्म ज्ञायतेऽस्य महीपतेः ॥ ५४ ॥
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः ।
स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥ ५५ ॥
ऋषय ऊचुः
करिष्यत्येष यत् कर्म चक्रवर्ती महाबलः ।
गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥ ५६ ॥
पराशर उवाच
ततः स नृपतिस्तोषं तच्छ्रुत्वा परमं ययौ ।
सद्गुणैः श्लाघ्यतामेति तस्माल्लभ्या गुणा मम ॥ ५७ ॥
तस्माद्यदद्य स्तोत्रे मे गुणनिर्वर्णनं त्विमौ ।
करिष्येते करिष्यामि तदेवाहं समाहितः ॥ ५८ ॥
यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः ।
तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥ ५९ ॥
अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः ।
भविष्यैः कर्मभिः सम्यक् सुस्वरौ सूतमागधौ ॥ ६० ॥
सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः ।
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥ ६१ ॥
धर्मज्ञाश्च कृतज्ञाश्च दयावान् प्रियभाषकः ।
मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुवत्सलः ॥ ६२ ॥
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ ६३ ॥
सूतेनोक्तान् गुणानित्थं स तदा मागधेन च ।
चकार हृदि तादृक् च कर्मणा कृतवानसौ ॥ ६४ ॥
ततः स पृथिवीपालः पालयन् वसुधामिमाम् ।
इयाज विविधैर्यज्ञैर्महद्‌भिर्भूरिदक्षिणैः ॥ ६५ ॥
तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः ।
ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके ।
तमूचुस्तेन ताः पृष्टास्तत्रागमनकारणम् ॥ ६६ ॥
प्रजा ऊचुः
अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः ।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥ ६७ ॥
त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥ ६८ ॥
पराशर उवाच
ततोऽथ नृपतिर्दिव्यमादायाजगवं धनुः ।
शरांश्च दिव्यान्कुपितः सोऽन्वधावद्‌वसुंधराम् ॥ ६९ ॥
ततो ननाश त्वरिता गौर्भूत्वा तु वसुंधरा ।
सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ ७० ॥
यत्र यत्र ययौ देवी सा तदा भूतधारिणी ।
तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥ ७१ ॥
ततस्तं प्राह वसुधा पृथुं पृथुपराक्रमम् ।
प्रवेपमाना तद्बाणपरित्राणपरायणा ॥ ७२ ॥
पृथिव्युवाच
स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि ।
येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ ७३ ॥
पृथुरुवाच
एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ ७४ ॥
पृथिव्युवाच
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ ७५ ॥
पृथुरुवाच
त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्‌मुखीम् ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ ७६ ॥
पराशर उवाच
ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम् ।
प्रवेपिताङ्‌गी परमं साध्वसं समुपागता ॥ ७७ ॥
पृथिव्युवाच
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ।
तस्माद्‌वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ ७८ ॥
समस्ता या मया जीर्णा नरनाथ महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ ७९ ॥
तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर ।
तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥ ८० ॥
समां च कुरु सर्वत्र येन क्षीरं समन्ततः ।
वरौषधीबीजभूतं वीर सर्वत्र भावये ॥ ८१ ॥
पराशर उवाच
तत उत्सारयामास शैलान् शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्धिताः ॥ ८२ ॥
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत् ॥ ८३ ॥
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥ ८४ ॥
यत्र यत्र समं त्वस्या भूमेरासीन्नराधिपः ।
तत्र तत्र प्रजाः सर्वा निवासं समरोचयत् ॥ ८५ ॥
आहारः फलमूलानि प्रजानामभवत्तदा ।
कृच्छ्रेण महता सोऽपि प्रणष्टास्वोषधीषु वै ॥ ८६ ॥
स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ।
सस्यजातानि सर्वाणि प्रजानां हितकाम्यया ॥ ८७ ॥
तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ॥ ८८ ॥
प्राणप्रदाता स पृथुर्यस्माद्‌भूमेरभूत्पिता ।
ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ॥ ८९ ॥
ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रिभिः ।
गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥ ९० ॥
तत्तत् पात्रमुपादाय तत्तद्‌दुग्धं मुने पयः ।
वत्सदोग्धृविशेषाश्च तेषां तद्योनयोऽभवन् ॥ ९१ ॥
सैषा धात्री विधात्री च धारिणी पोषणी तथा ।
सर्वस्य जगतः पृथ्वी विष्णुपादतलोद्‌भवा ॥ ९२ ॥
एवं प्रभावः स पृथुः पुत्रो वेनस्य वीर्यवान् ।
जज्ञे महीपतिः पूर्वं राजाभूज्जनरञ्जनात् ॥ ९३ ॥
य इदं जन्म वैन्यस्य पृथोः सङ्‌कीर्तयेन्नरः ।
न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ ९४ ॥
दुस्स्वप्नोपशमं नृणां शृण्वतामेतदुत्तमम् ।
पृथोर्जन्म प्रभावश्च करोति सततं नृणाम् ॥ ९५ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे त्रयोदशोऽध्यायः



GO TOP