शुक्ल यजुर्वेदः - त्रयस्त्रिंशोऽध्यायः



अस्याजरासो दमामरित्राऽ अर्चद्धूमासोऽ अग्नयः पावकाः । श्वितीचयः स्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ १ ॥ हरयो धूमकेतवो वातजूताऽ उप द्यवि । यतन्ते वृथगग्नयः ॥ २ ॥ यजा नो मित्रावरुणा यजा देवाँ २ऽ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥ ३ ॥ युक्ष्वा हि देवहूतमाँ २ऽ अश्वाँ २ऽ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥ ४ ॥ द्वे विरूपे चरतः स्वर्थेऽ अन्यान्या वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्रोऽ अन्यस्यां ददृशे सुवर्चाः ॥ ५ ॥ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽ अध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विशे ॥ ६ ॥ त्रीणि शता त्री सहस्राण्यग्निं त्रिँशच्च देवा नव चासपर्यन् । औक्षन्घृतैरस्तृणन्बर्हिरस्माऽ आदिद्धोतारं न्यसादयन्त ॥ ७ ॥ मूर्धानं दिवोऽ अरतिं पृथिव्या वैश्वानरमृतऽ आ जातमग्निम् । कविँ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥ ८ ॥ अग्निर्वृत्राणि जङ्‍घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्रऽ आहुतः ॥ ९ ॥ विश्वेभिः सोम्यं मध्वग्नऽ इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ॥ १० ॥ आ यदिषे नृपतिं तेजऽ आनट् शुचि रेतो निषिक्तं द्यौरभीके । अग्निः शर्धमनवद्यं युवानँ स्वाध्यं जनयत्सूदयच्च ॥ ११ ॥ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यँ सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महाँसि ॥ १२ ॥ त्वाँ हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने । इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥ १३ ॥ त्वेऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥ १४ ॥ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रोऽ अर्यमा प्रातर्यावाणोऽ अध्वरम् ॥ १५ ॥ विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामवऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥ १६ ॥ महोऽ अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवोऽ अद्या वृणीमहे ॥ १७ ॥ आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्तऽ इन्द्र । याहि वायुर्न नियुतो नोऽ अच्छा त्वँ हि धीभिर्दयसे वि वाजान् ॥ १८ ॥ गावऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ १९ ॥ यदद्य सूरऽ उदितेऽनागा मित्रोऽ अर्यमा । सुवाति सविता भगः ॥ २० ॥ आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् । रसा दधीत वृषभम् । तं प्रत्नथायं वेनः ॥ २१ ॥ आतिष्ठन्तं परि विश्वेऽ अभूषञ्च्छ्रियो वसानश्चरति स्वरोचिः । महत्तद्‍वृष्णोऽ असुरस्य नामा विश्वरूपोऽ अमृतानि तस्थौ ॥ २२ ॥ प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखँ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ २३ ॥ बृहन्निदिध्मऽ एषां भूरि शस्तं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥ २४ ॥ इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाँ २ऽ अभिष्टिरोजसा ॥ २५ ॥ इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्षणीतिः । अहन्व्यँसमुशधग्वनेष्वाविर्धेनाऽ अकृणोद्राम्याणाम् ॥ २६ ॥ कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं तऽ इत्था । सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्तेऽ अस्मे । महाँ २ऽ इन्द्रो यऽ ओजसा कदा चन स्तरीरसि कदा चन प्रयुच्छसि ॥ २७ ॥ आ तत्तऽ इन्द्रायवः पनन्ताभि यऽ ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं ये पुरुपुत्रां महीँ सहस्रधारां बृहतीं दुदुक्षन् ॥ २८ ॥ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्तऽ आनजे । तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥ २९ ॥ विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो योऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ ३० ॥ उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ३१ ॥ येना पावक चक्षसा भुरण्यन्तं जनाँ २ऽ अनु । त्वं वरुण पश्यसि ॥ ३२ ॥ दैव्यावध्वर्यूऽ आ गतँ रथेन सूर्यत्वचा । मध्वा यज्ञँ समञ्जाथे । तं प्रत्नथायं वेनश्चित्रं देवानाम् ॥ ३३ ॥ आ नऽ इडाभिर्विदथे सुशस्ति विश्वानरः सविता देवऽ एतु । अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ३४ ॥ यदद्य कच्च वृत्रहन्नुदगाऽ अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥ ३५ ॥ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनम् ॥ ३६ ॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततँ सं जभार । यदेदयुक्त हरितः सधस्थादाद्‍रात्री वासस्तनुते सिमस्मै ॥ ३७ ॥ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । अनंतमन्यद्‍रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥ ३८ ॥ बण्महाँ २ऽ असि सूर्य बडादित्य महाँ २ऽ असि । महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ२ऽ असि ॥ ३९ ॥ बट् सूर्य श्रवसा महाँ२ऽ असि सत्रा देव महाँ२ऽ असि । मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ४० ॥ श्रायन्तऽ इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमानऽ ओजसा प्रति भागं न दीधिम ॥ ४१ ॥ अद्या देवाऽ उदिता सूर्यस्य निरँहसः पिपृता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीऽ उत द्यौः ॥ ४२ ॥ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ४३ ॥ प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिटऽ इयाते । विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ ४४ ॥ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान्मारुतं गणम् ॥ ४५ ॥ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥ ४६ ॥ अधि न इन्द्रैषां विष्णो सजात्यानाम् । इता मरुतोऽ अश्विना । तं प्रत्नथायं वेनो ये देवासऽ आ नऽ इडाभिर्विश्वेभिः सोम्यं मध्वोमासश्चर्षणीधृतः ॥ ४७ ॥ अग्नऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रोऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ ४८ ॥ इन्द्राग्नी मित्रावरुणादितिँ स्वः पृथिवीं द्यां मरुतः पर्वताँ२ऽ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शँसँ सवितारमूतये ॥ ४९ ॥ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शँसते स्तुवते धायि पज्रऽ इन्द्रज्येष्ठाऽ अस्माँ२ऽ अवन्तु देवाः ॥ ५० ॥ अर्वाञ्चोऽ अद्या भवता यजत्राऽ आ वो हार्दि भयमानो व्ययेयम् । त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥ ५१ ॥ विश्वेऽ अद्य मरुतो विश्वऽ उती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवाऽ अवसा गमन्तु विश्वमस्तु द्रविणं वाजोऽ अस्मे ॥ ५२ ॥ विश्वे देवाः श्रृणुतेमँ हवं मे येऽ अन्तरिक्षे यऽ उप द्यवि ष्ठ । येऽ अग्निजिह्वाऽ उत वा यजत्राऽ आसद्यास्मिन्बर्हिषि मादयध्वम् ॥ ५३ ॥ देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वँ सुवसि भागमुत्तमम् । आदिद्दामानँ सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥ ५४ ॥ प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारँ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥ ५५ ॥ इन्द्रवायुऽ इमे सुताऽ उप प्रयोभिरा गतम् । इन्दवो वामुशन्ति हि ॥ ५६ ॥ मित्रँ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीँ साधन्ता ॥ ५७ ॥ दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातँ रुद्रवर्त्तनी । तं प्रत्नथायं वेनः ॥ ५८ ॥ विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यँ सध्र्यक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥ ५९ ॥ नहि स्पशमविदन्नन्यमस्माद्वैश्वानरापुरऽ एतारमग्नेः । एमेनमवृधन्नमृताऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥ ६० ॥ उग्रा विघनिना मृधऽ इन्द्राग्नी हवामहे । ता नो मृडातऽ ईदृशे ॥ ६१ ॥ उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाँ २ऽ इयक्षते ॥ ६२ ॥ ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्ठौ । ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमँ सगणो मरुद्‍भिः ॥ ६३ ॥ जनिष्ठाऽ उग्रः सहसे तुराय मन्द्रऽ ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥ ६४ ॥ आ तू नऽ इन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान्महीभिरूतिभिः ॥ ६५ ॥ त्वमिन्द्र प्रतूर्तिष्वभि विश्वाऽ असि स्पृधः । अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥ ६६ ॥ अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ ६७ ॥ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वोऽर्वाची सुमतिर्ववृत्यादँहोश्चिद्या वरिवोवित्तरासत् ॥ ६८ ॥ अदब्धेभि सवितः पायुभिष्ट्वँ शिवेभिरद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोऽ अघशँसऽ ईशत ॥ ६९ ॥ प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥ ७० ॥ गावऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ ७१ ॥ काव्ययोराजानेषु क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थऽ आ ॥ ७२ ॥ दैव्यावध्वर्यू आ गतँ रथेन सूर्यत्वचा । मध्वा यज्ञँ समञ्जाथे । तं प्रत्नथायं वेनः ॥ ७३ ॥ तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् । रेतोधाऽ आसन्महिमानऽ आसन्त्स्वधाऽ अवस्तात्प्रयतिः परस्तात् ॥ ७४ ॥ आ रोदसीऽ अपृणदा स्वर्महज्जातं यदेनमपसोऽ अधारयन् । सोऽ अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥ ७५ ॥ उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा । आङ्गूषैराविवासतः ॥ ७६ ॥ उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥ ७७ ॥ ब्रह्माणि मे मतयः शँ सुतासः शुष्मऽ इयर्ति प्रभृतो मेऽ अद्रिः । आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नोऽ अच्छ ॥ ७८ ॥ अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ २ऽ अस्ति देवता विदानः । न जायमानो मशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ ७९ ॥ तदिदास भुवनेषु ज्येष्ठं यतो जज्ञऽ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ ८० ॥ इमाऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ ८१ ॥ यस्यायं विश्वऽ आर्यो दासः शेवधिपाऽ अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सोऽ अज्यते रयिः ॥ ८२ ॥ अयँ सहस्रमृषिभिः सहस्कृतः समुद्रऽ इव पप्रथे । सत्यः सोऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ ८३ ॥ अदब्धेभिः सवितः पायुभिष्ट्वँ शिवेभिरद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोऽ अघशँसऽ ईयत ॥ ८४ ॥ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । अन्तः पवित्रऽ उपरि श्रीणानोऽयँ शुक्रोऽ अयामि ते ॥ ८५ ॥ इन्द्रवायू सुसन्दृशा सुहवेह हवामहे । यथा नः सर्वऽ इज्जनोऽनमीवः सङ्‍गमे सुमनाऽ असत् ॥ ८६ ॥ ऋधगित्था स मर्त्यः शशमे देवतातये । यो नूनं मित्रावरुणावभिष्टयऽ आचक्रे हव्यदातये ॥ ८७ ॥ आ यातमुप भूषतं मध्वः पिबतमश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥ ८८ ॥ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्‍क्तिराधसं देवा यज्ञं नयन्तु नः ॥ ८९ ॥ चन्द्रमाऽ अप्स्वन्तरा सुपर्णो धावते दिवि । रयिं पिशङ्‍गं बहुलं पुरुस्पृहँ हरिरेति कनिक्रदत् ॥ ९० ॥ देवं देवं वोऽवसे देवं देवमभिष्टये । देवं देवँ हुवेम वाजसातये गृणन्तो देव्या धिया ॥ ९१ ॥ दिवि पृष्टोऽ अरोचताग्निर्वैश्वानरो बृहन् । क्ष्मया वृधानऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥ ९२ ॥ इन्द्राग्नीऽ अपादियं पूर्वागात्पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच्चरत्त्रिँशत्पदा न्यक्रमीत् ॥ ९३ ॥ देवासो हि ष्मा मनवे समन्यवो विश्वे साकँ सरातयः । ते नोऽ अद्य तेऽ अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ ९४ ॥ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । देवास्तऽ इन्द्र सख्याय येमिरे बृहद्‍भानो मरुद्‍गण ॥ ९५ ॥ प्र वऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥ ९६ ॥ अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा । इमाऽ उ त्वा यस्यायमयँ सहस्रमूर्ध्वऽ ऊ षु णः ॥ ९७ ॥ ॥ इति त्रयस्त्रिंशोऽध्याय ॥


ॐ तत् सत्



GO TOP