|
शुक्ल यजुर्वेदः - त्रिंशोऽध्यायः
देव सवितः देव प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गंधर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु ॥ १ ॥
तत्सतुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ २ ॥
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्नऽ आ सुव ॥ ३ ॥
विभक्तारँ हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम् ॥ ४ ॥
ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय
वीरहणं पाप्मने क्लीबमाक्रयायाऽ अयोगूं कामाय पुँश्चलूमतिक्रुष्टाय मागधम् ॥ ५ ॥
नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नरिष्ठायै भीमलं नर्माय रेभँ हसाय
कारिमानन्दाय स्त्रीपखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्याय तक्षाणम् ॥ ६ ॥
तपसे कौलालं मायायै कर्मारँ रूपाय मणिकारँ शुभे वपँ शरव्यायाऽ इषुकारँ हेत्यै
धनुष्कारं कर्मणे ज्याकारं दिष्टाय रज्जुसर्जं मृत्यवे मृगयुमन्तकाय श्वनिनम् ॥ ७ ॥
नदीभ्यं पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गंधर्वाप्सरोभ्यो
व्रात्यं प्रयुरभ्यऽ उन्मत्तँ सर्पदेवजनेभ्योऽप्रतिपदमयेभ्यः कितवमीर्यतायाऽ
अकितवं पिशाचेभ्यो विदलकारीं यातुधानेभ्यः कण्टकीकारीम् ॥ ८ ॥
सन्धये जारं गेहायोपपतिमार्त्यै परिवित्तं निर्ऋत्यै परिविविदानमराध्याऽ एदिधिषुः पतिं
निष्कृत्यै पेशस्कारीँ संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् ॥ ९ ॥
उत्सादेभ्यः कुब्जं प्रमुदे वामनं द्वार्भ्यः स्रामँ स्वप्नायान्धमधर्माय बधिरं पवित्राय भिषजं
प्रज्ञानाय नक्षत्रदर्शमाशिक्षायै प्रश्निनमुपशिक्षायाऽ अभिप्रश्निनं मर्यादायै प्रश्नविवाकम् ॥ १० ॥
अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसेऽजपालमिरायै कीनाशं कीलालाय
सुराकारं भद्राय गृहषँ श्रेयसे वित्तधमाध्यक्ष्यायानुक्षत्तारम् ॥ ११ ॥
भायै दार्वाहारं प्रभायाऽ अग्न्येधं बध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय
पेशितारं मनुष्यलोकाय प्रकरितारं सर्वेभ्यो लोकेभ्यऽ उपसेक्तारमवऽ ऋत्यै वधायोपमन्थितारं मेधाय
वासःपल्पूलीं प्रकामाय रजयित्रीम् ॥ १२ ॥
ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारमौपद्रष्ट्र्यायानुक्षत्तारं बलायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनमरिष्ट्याऽ अश्वसादँ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम् ॥ १३ ॥
मन्यवेऽयस्तापं क्रोधाय निसरं योगाय योक्तारं शोकायाभिसर्तारं क्षेमाय विमोक्तारमुत्कूलनिकूलेभ्यस्त्रिष्ठिनं वपुषे मानस्कृतं शीलायाञ्जनीकारीं निर्ऋत्यै कोशकारीं यमायासूम् ॥ १४ ॥
यमाय यमसूमथर्वभ्योऽवतोकाँ संवत्सराय पर्यायिणि परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराँ संवत्सराय पलिक्नीमृभुभ्योऽजिनसन्धँ साध्येभ्यश्चर्मम्नम् ॥ १५ ॥
मरोभ्यो धैवरमुपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारमवाराय केवर्त तीर्थेभ्यऽ आंदं विषमेभ्यो मैनालं स्वनेभ्यः पर्णकं गुहाभ्यः किरातँ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् ॥ १६ ॥
बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं जागरणमभूत्यै स्वपनमार्त्यै जनवादिनं वृद्ध्याऽ अपगल्भँ सँशराय प्रच्छिदम् ॥ १७ ॥
अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनमास्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छमन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाणऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् ॥ १८ ॥
प्रतिश्रुत्कायाऽ अर्तनं घोषाय भषमन्ताय बहुवादिनमनन्ताय मूकँ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्ममवरस्पराय शङ्खध्मं वनाय वनपमन्यतोरण्याय दावपम् ॥ १९ ॥
नर्माय पुँश्चलूँ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकमभिक्रोशकं तान्महसे
वीणावादं पाणिघ्नं तूणवध्मं तान्नृत्तायानन्दाय तलवम् ॥ २० ॥
अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालमन्तरिक्षाय वँशनर्तिनं दिवे खलतिँ सूर्याय हर्यक्षं
नक्षत्रेभ्यः किर्मिरं चंद्रमसे किलासमह्ने शुक्लं पिङ्गाक्षँ रात्र्यै कृष्णं पिङ्गाक्षम् ॥ २१ ॥
अथैतानष्टौ विरूपाना लभतेऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च । अशूद्राऽ अब्राह्मणास्ते प्राजापत्याः । मागधः पुँश्चली कितवः क्लीबोऽशूद्राऽ अब्राह्मणास्ते प्राजापत्याः ॥ २२ ॥
॥ इति त्रिंशोऽध्याय ॥
ॐ तत् सत् |