शुक्ल यजुर्वेदः - एकोनविंशोऽध्यायः



स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताममृतेन । मधुमतीं मधुमता सृजामि सँ सोमेन । सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥ १ ॥ परीतो षिञ्चता सुतँ सोमो यऽ उत्तमँ हविः । दधन्वा यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥ २ ॥ वायोः पूतः पवित्रेण प्रत्यङ्‍क्सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा । वायोः पूतः पवित्रेण प्राङ्‍क्सोमो अतिद्रुत । इन्द्रस्य युज्यः सखा ॥ ३ ॥ पुनाति ते परिस्रुतँ सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ ४ ॥ ब्रह्म क्षत्रं पवते तेजऽ इन्द्रियँ सुरया सोमः सुतऽ आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥ ५ ॥ कुविदङ्‍ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमऽ उक्तिं यजन्ति । उपयामगृहीतोऽस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णऽ एष ते योनिस्तेजसे त्वावीर्याय त्वा बलाय त्वा ॥ ६ ॥ नाना हि वां देवहितँ सदस्कृतं मा सँ सृक्षाथां परमे व्योमन् । सुरा त्वमसि सुष्मिणी सोमऽ एष मा मा हिँसीः स्वं योनिमाविशन्ती ॥ ७ ॥ उपयामगृहीतोऽस्याश्विनं तेजः सारस्वतं वीर्यमैन्द्रं बलम् । एष ते योनिर्मोदाय त्वानन्दाय त्वा महसे त्वा ॥ ८ ॥ तेजोऽसि तेजो मयि धेहि वीर्यमसि वीर्यं मयि धेहि बलमसि बलं मयि धेह्योजोऽस्योजो मयि धेहि मन्युरसि मन्युं मयि धेहि सहोऽसि सहो मयि धेहि ॥ ९ ॥ या व्याघ्रं विषूचिकोभौ वृकं च रक्षति । श्येनं पतत्रिणँ सिँहँ सेमं पात्वँहसः ॥ १० ॥ यदापिपेष मातरं पुत्रः प्रमुदितो धयन् । एतत्तदग्नेऽ अनृणो भवाम्यहतौ पितरौ मया । सम्पृच स्थ सं मा भद्रेण पृङ्‍क्त विपृच स्थ वि मा पाप्मना पृङ्‍क्त ॥ ११॥ देवा यज्ञमतन्वत भेषजं भिषजाश्विना । वाचा सरस्वती भिषगिन्द्रायेन्द्रियाणि दधतः ॥ १२ ॥ दीक्षायै रूपँ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपँ सोमस्य लाजाः सोमाँशवो मधु ॥ १३ ॥ आतिथ्यरूपं मासरं महावीरस्य नग्नहुः । रूपमुपसदामेतत्तिस्रो रात्रीः सुरासुता ॥ १४ ॥ सोमस्य रूपं क्रीतस्य परिस्रुत्परिषिच्यते । अश्विभ्यां दुग्धं भेषजमिन्द्रायैन्द्रँ सरस्वत्या ॥ १५ ॥ आसन्दी रूपँ राजासन्द्यै वेद्यै कुम्भी सुराधानी । अन्तरऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥ १६ ॥ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूपऽ आप्यते प्रणीतोऽ अग्निरग्निना ॥ १७ ॥ हविर्धानं यदश्विनाग्नीध्रं यत्सरस्वती । इन्द्रायैन्द्रँ सदस्कृतं पत्नीशालं गार्हपत्यः ॥ १८ ॥ प्रैषेभिः प्रैषानाप्नोत्याप्रीभिराप्रीर्यज्ञस्य । प्रयाजेभिरनुयाजान्वषट्कारेभिराहुतीः ॥ १९ ॥ पशुभिः पशूनाप्नोति पुरोडाशैर्हवीँष्या । छन्दोभिः सामिधेनीर्याज्याभिर्वषट्कारान् ॥ २० ॥ धानाः करम्भः सक्तवः परीवापः पयो दधि । सोमस्य रूपँ हविषऽ आमिक्षा वाजिनं मधु ॥ २१ ॥ धानानाँ रूपं कुवलं परीवापस्य गोधूमाः । सक्तूनाँ रूपं बदरमुपवाकाः करम्भस्य ॥ २२ ॥ पयसो रूपं यद्यवा दध्नो रूपं कर्कन्धूनि । सोमस्य रूपं वाजिनँ सौम्यस्य रूपमामिक्षा ॥ २३ ॥ आश्रावयेति स्तोत्रियाः प्रत्याश्रावोऽ अनुरूपः । यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥ २४ ॥ अर्धऽ ऋचैरुक्थानाँ रूपं पदैराप्नोति निविदः । प्रणवैः शस्त्राणाँ रूपं पयसा सोमऽ आप्यते ॥ २५ ॥ अश्विभ्यां प्रातःसवनमिन्द्रेणैन्द्रं माध्यंदिनम् । वैश्वदेवँ सरस्वत्या तृतीयमाप्तँ सवनम् ॥ २६ ॥ वायव्यैर्वायव्यान्याप्नोति सतेन द्रोणकलशम् । कुम्भीभ्यामम्भृणौ सुते स्थालीभि स्थालीराप्नोति ॥ २७ ॥ यजुर्भिराप्यन्ते ग्रहा ग्रहै स्तोमाश्च विष्टुतीः । छन्दोभिरुक्थाशस्त्राणि साम्नावभृथऽ आप्यते ॥ २८ ॥ इडाभिर्भक्षानाप्नोति सूक्तवाकेनाशिषः । संयुना पत्नीसंयाजान्त्समिष्टयजुषा सँस्थाम् ॥ २९ ॥ व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥ ३० ॥ एतावद्रूपं यज्ञस्य यद्देवैर्ब्रह्मणा कृतम् । तदेतत्सर्वमाप्नोति यज्ञे सौत्रामणी सुते ॥ ३१ ॥ सुरावन्तं बर्हिषदँ सुवीरं यज्ञँ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु मदेमेन्द्रँ यजमानाः स्वर्काः ॥ ३२ ॥ यस्ते रसः सम्भृतऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन सरस्वतीमश्विनाविन्द्रमग्निम् ॥ ३३ ॥ यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय । इमं तँ शुकं मधुमन्तमिन्दुँ सोमँ राजानमिह भक्षयामि ॥ ३४ ॥ यदत्र रिप्तँ रसिनः सुतस्य यदिन्द्रोऽ अपिवच्छचीभिः । अहं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ॥ ३५ ॥ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् ॥ ३६ ॥ पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा । पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै ॥३७ ॥ अग्नऽ आयूँषि पवसऽ आ सुवोर्जमिषं च नः । आरे बाध्स्व दुच्छुनाम् ॥ ३८ ॥ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥ ३९ ॥ पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूँ१ऽ रनु ॥ ४० ॥ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म ते न पुनातु मा ॥ ४१ ॥ पवमानः सोऽ अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ॥ ४२ ॥ उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः ॥ ४३ ॥ वैश्वदेवी पुनती देव्यागाद्यस्यामिमा बह्व्यस्तन्वो वीतपृष्ठाः । तया मदन्तः सधमादेषु वयँ स्याम पतयो रयीणाम् ॥ ४४ ॥ ये समानाः समनसः पितरो यमराज्ये । तेषाँल्लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥ ४५ ॥ ये समानाः समनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिँल्लोके शतँ समाः ॥ ४६ ॥ द्वे सृतीऽ अश्रृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥ ४७ ॥ इदं हविः प्रजननं मेऽ अस्तु दशवीरँ सर्वगणँ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतोऽ अस्मासु धत्त ॥ ४८ ॥ उदीरतामवरऽ उत्परासऽ उन्मध्यमाः पितरः सोम्यासः । असुं यऽ ईयुरवृकाऽ ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ ४९ ॥ अङ्‌‍गिरसो नः पितरो नवग्वाऽ अथर्वाणो भृगवः सोम्यासः । तेषां वयँ सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ ५० ॥ ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः सँरराणो हवीँष्युशन्नुशद्‍भिः प्रतिकाममत्तु ॥ ५१ ॥ त्वँ सोम प्रचिकितो मनीषा त्वँ रजिष्ठमनु नेषि पन्थाम् । तव प्रणीती पितरो नऽ इन्दो देवेषु रत्नमभजन्त धीराः ॥ ५२ ॥ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीँ१ऽ रपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥ ५३ ॥ त्वँ सोम पितृभिः संविदानोऽनु द्यावापृथिवीऽ आ ततन्थ । तस्मै तऽ इन्दो हविषा विधेम वयँ स्याम पतयो रयिणाम् ॥ ५४ ॥ बर्हिषदः पितरऽ ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । तऽ आ गतावसा शन्तमेनाथा नः शं योररपो दधात ॥ ५५ ॥ आहं पितॄन्त्सुविदत्राँ २ऽ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्तऽ इहागमिष्ठाः ॥ ५६ ॥ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । तऽ आ गमन्तु तऽ इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ ५७ ॥ आ यन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तोऽधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ ५८ ॥ अग्निष्वात्ताः पितरऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः । अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयिँ सर्ववीरं दधातन ॥ ५९ ॥ येऽ अग्निष्वात्ता येऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते । तेभ्यः स्वराडसुनीतिमेतां यथावशं तन्वं कल्पयाति ॥ ६० ॥ अग्निष्वात्तानृतुमतो हवामहे नाराशँसे सोमपीथं यऽ आशुः । ते नो विप्रासः सुहवा भवन्तु वयं स्याम पतयो रयीणाम् ॥ ६१ ॥ आच्या जानु दक्षिणतो निपद्येमं यज्ञमभि गृणीत विश्वे । मा हिँसिष्ट पितरः केन चिन्नो यद्वऽ आगः पुरुषता कराम ॥ ६२ ॥ आसीनासोऽ अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत तऽ इहोर्जं दधात ॥ ६३ ॥ यमग्ने कव्यवाहन त्वं चिन्मन्यसे रयिम् । तन्नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ ६४ ॥ योऽ अग्निः कव्यवाहनः पितॄन्यक्षदृतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्यऽ आ ॥ ६५ ॥ त्वमग्नऽ ईडितः कव्यवाहनावाड्ढव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया तेऽ अक्षन्नद्धि त्वं देव प्रयता हवीँषि ॥ ६६ ॥ ये चेह पितरो ये च नेह याँश्च विद्म याँ २ऽ उ च न प्रविद्म । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञँ सुकृतं जुषस्व ॥ ६७ ॥ इदं पितृभ्यो नमोऽ अस्त्वद्य ये पूर्वासो यऽ उपरासऽ ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनँ सुवृजनासु विक्षु ॥ ६८ ॥ अधा यथा नः पितरः परासः प्रत्नासोऽ अग्नऽ ऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तोऽ अरुणीरप व्रन् ॥ ६९॥ उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि । उशन्नुशतऽ आवह पितॄन्हविषेऽ अत्तवे ॥ ७० ॥ अपां फेनेन नमुचेः शिरऽ इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः ॥ ७१ ॥ सोमो राजामृतँ सुतऽ ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७२ ॥ अद्‍भ्यः क्षीरं व्यपिबत् क्रुङ्‍~घाङ्‍गिरसो धिया । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु॥ ७३ ॥ सोममद्‍भ्यो व्यपिबच्छन्दसा हँसः शुचिशत् । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु॥ ७४ ॥ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७५ ॥ रेतो मूत्रं वि जहाति योनिं प्रविशदिन्द्रियम् । गर्भो जरायुणावृतऽ उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७६ ॥ दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधाच्छ्रद्धाँ सत्ये प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७७ ॥ वेदेन रूपे व्यपिवत्सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७८ ॥ दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत्पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ७९ ॥ सीसेन तन्त्रं मनसा मनीषिणऽ ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञँ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥ ८० ॥ तदस्य रूपममृतँ शचीभिस्तिस्रो दधुर्देवताः सँरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिस्त्वगस्य माँसमभवन्न लाजाः ॥ ८१ ॥ तदश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशोऽ अन्तरम् । अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥ ८२ ॥ सरस्वति मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितं नग्नहुर्धीरस्तसरं न वेम ॥ ८३ ॥ पयसा शुक्रममृतं जनित्रँ सुरया मूत्राज्जनयन्त रेतः । अपामतिं दुर्मतिं बाधमानाऽ ऊवध्यं वातं सव्वं तदारात् ॥ ८४ ॥ इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान । यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर्न मिनाति पित्तम् ॥ ८५ ॥ आन्त्राणि स्थालीर्मधु पिन्वमाना गुदाः पात्राणि सुदुधा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिरासन्दी नाभिरुदरं न माता ॥ ८६ ॥ कुम्भो वनिष्ठुर्जनिता शचीभिर्यस्मिन्नग्रे योन्यां गर्भोऽ अन्तः । प्लाशिर्व्यक्तः शतधारऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥ ८७ ॥ मुखं सदस्य शिरऽ इत् सतेन जिह्वा पवित्रमश्विनासन्त्सरस्वती । चप्यं न पायुर्भिषगस्य वालो वस्तिर्न शेषो हरसा तरस्वी ॥ ८८ ॥ अश्विभ्यां चक्षुरमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः कुवलैरुतानि पेशो न शुक्रमसितं वसाते ॥ ८९ ॥ अविर्न मेषो नसि वीर्याय प्राणस्य पन्थाऽ अमृतो ग्रहाभ्याम् । सरस्वत्युपवाकैर्व्यानं नस्यानि बहिर्बदरैर्जजान ॥ ९० ॥ इन्द्रस्य रूपमृषभो बलाय कर्णाभ्याँ श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारधं मुखात् ॥ ९१ ॥ आत्मन्नुपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम । केशा नशीर्षन्यशसे श्रियै शिखा सिँहस्य लोम त्विषिरिन्द्रियाणि ॥ ९२ ॥ अङ्‍गान्यात्मन् भिषजा तदश्विनात्मानमङ्‍गैः समधात् सरस्वती । इन्द्रस्य रूपँ शतमानमायुश्चन्द्रेण ज्योतिरमृतं दधानाः ॥ ९३ ॥ सरस्वती योन्यां गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाँ रसेन वरुणो न साम्नेन्द्रँ श्रियै जनयन्नप्सु राजा ॥ ९४ ॥ तेजः पशूनाँ हविरिन्द्रयावत् परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याममृतः सोमऽ इन्दुः ॥ ९५ ॥ ॥ इति एकोनविंशोऽध्यायः ॥


ॐ तत् सत्



GO TOP