शुक्ल यजुर्वेद - पञ्चमोऽध्यायः



अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ॥ १ ॥ अ॒ग्नेर्ज॒नित्र॑नमसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्व॒ छन्द॑सा मन्थामि॒ जग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥ २ ॥ भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञँहिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ ३ ॥ अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पुत्रो अ॑भिशस्ति॒पावा॑ । स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो हव्यँ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ॥ ४ ॥ आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनूनप्त्रे॑ शाक्व॒राय॒ शक्व॑न ओजि॑ष्ठाय । अना॑धृष्टमस्यनाधृ॒ष्यं देवाना॒मोजोऽन॑भिशस्त्यभिसस्ति॒पा अ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषँ स्वि॒ते मा॑ धाः ॥ ५ ॥ अग्ने॑ व्रतपा॒स्व्ते व्र॑तपा॒ या तव॑ त॒नू॒रीयँ सा मयि॒ यो मम॑ त॒नूरे॒शा सा त्वयि॑ । स॒ह नौ व्रतपते व्र॒तान्यन्यु॑ मे दीक्षां दीक्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥ ६ ॥ अँ॒शुरँ॑शुष्टे देव सो॒माप्य॑यता॒मिद्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व । आप्या॑यया॒स्मान्त्स्वखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय । एश्टा॒ रायः॒ प्रेषे भगाय ऋ॒तुमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥ ७ ॥ या ते॑ अग्नेऽयःश॒या त॒नूर्वर्षि॑ष्टा गह्वरे॑ष्ठाआ । उ॒ग्रं वचो॒ अपावधीत्त्वे॒षं वचो॒ अपावधी॒त्स्वाहा॑ । या ते॑ रजःश॒या त॒नूर्वर्षि॑ष्टा गह्वरे॑ष्ठाआ । उ॒ग्रं वचो॒ अपावधीत्त्वे॒षं वचो॒ अपावधी॒त्स्वाहा॑ । या ते॑ हरिश॒या त॒नूर्वर्षि॑ष्टा गह्वरे॑ष्ठाआ । उ॒ग्रं वचो॒ अपावधीत्त्वे॒षं वचो॒ अपावधी॒त्स्वाहा॑ ॥ ८ ॥ त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात् । वि॒देद॒ग्निर्मभो॒ नामा ऽग्ने॑ अङ्‍गिर॒ आयु॑ना॒ नाम्नेहि॒ योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामा ऽग्ने॑ अङ्‍गिर॒ आयु॑ना॒ नाम्नेहि॒ यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम य॒ज्ञियं॒ ते॒न त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामा ऽग्ने॑ अङ्‍गिर॒ आयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये ॥ ९ ॥ सिँ॒॒ह्य॒सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒॒ह्य॒सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्वस्व सिँ॒॒ह्य॒सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥ १० ॥ इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात्पा॑तु॒ मनो॑जवास्त्वा पि॒ट्रुभि॑र्दक्षिण॒तः पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वर्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि ॥ ११ ॥ सिँ॒ह्य॒सि॒ स्वाहा॑ सिँ॒ह्य॒स्यादित्यवनिः॒ स्वाहा॑ सिँ॒ह्य॒सि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सिँ॒ह्य॒सि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒स्वाहा॑ सिँ॒ह्यस्या स्वाहा॑ व॑ह दे॒वान् यज॑मानाय॒ स्वहा॑ भू॒तेभ्य॑स्त्वा ॥ १२ ॥ ध्रु॒वो॒ऽसि पृथि॒वीं दृँ॑ह ध्रुव॒क्षिद॑स्य॒न्तरिक्षं दृहाच्युत॒क्षिद॑सि॒ दिवं॑ दृँहा॒ग्नेः पुरी॑षमसि ॥ १३ ॥ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृ॒हतो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ एनम॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥ १४ ॥ इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाँसु॒रे स्वाहा॑ ॥ १५ ॥ इरा॑वती धेनुमती॒ हि भू॒तँ सू॑यव॒सिनी॒ मन॑वे द्श॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वहा॑ ॥ १६ ॥ दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्व्रतम् । स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ॥ १७ ॥ विष्णो॒र्नुकं॑ वी॒र्या॒णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजाँ॑सि । यो अस्क॑भाय॒दुत्त॑रँ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥ १८ ॥ दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्व प्र् य॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्व ॥ १९ ॥ प्र तद्विष्णु॑ स्तवते वी॒र्ये॒ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ २० ॥ विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि । वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्व ॥ २१ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒ दम॒हँ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि । भ्रु॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीभिन्द्रा॑य॒ वाचं॑ वद ॥ २२ ॥ र॒क्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वी मि॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्यां कि॑रामि ॥ २३ ॥ स्व॒राड॑सि सपत्न॒हा सत्र॒राड॑स्यभिमाति॒हा ज॑न॒रडसि स्क्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ॥ २४ ॥ र॒क्षो॒हणो॑ वो वलग॒हनः॒ प्रोक्षामि वैष्ण॒वान् रक्षो॒हणो॑ वो वलग॒हनोऽव॑नयामि वैष्ण॒वान् रक्षो॒हणो॑ वो वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् रक्षो॒हणो॑ वां वलग॒हना॒ उप॑ दधामि वैष्ण॒वी र॒क्षो॒हणौ॑ वां वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वैष्ण॒वम॑सि वैष्ण॒वा स्थ॑ ॥ २५ ॥ देवस्य॑ त्वा सवितुः प्र॑सवेऽश्विनो॑बाहुभ्यां॑ पूष्नो हस्ता॑भ्याम् । आ द॑दे नार्य॑सीदमहँ रक्ष॑सां ग्रीवा अपि॑ कृन्तामि । यवो॑ऽसि यवयास्मद्‍द्वेषो॑ यवयारा॑तीर्दिवे त्वाऽन्तरि॑क्षाय त्वा पृथिव्यै त्वा शुन्ध॑न्ताँल्लोकाः पि॑तृषद॑नाः पितृषद॑नमसि ॥ २६ ॥ उद्दिवँ॑ स्तभनान्तरिक्षं पृण दृँह॑स्व पृथिव्यां द्यु॑तानस्त्वा॑ मारुतो मि॑नोतु मित्रावरु॑णौ ध्रुवेण धर्म॑णा । ब्रह्मवनि॑ त्वा क्षत्रवनि॑ रयस्पोषवनि पर्यू॑हामि । ब्रह्म॑ दृँह क्षत्रं दृँहायु॑र्दृँह प्रजां दृँ॑ह ॥ २७ ॥ ध्रुवासि॑ ध्रुवाऽयं यज॑मनोऽस्मिन्नयत॑ने प्रजया॑ पशुभि॑र्भूयात् । घृतेन॑ द्यावापृथिवी पूर्येथामिन्द्र॑स्य छदिर॑सि विश्वजनस्य॑ छाया ॥ २८ ॥ परि॑ त्व गिर्वणो गिर॑ एमा भ॑वन्तु विश्वतः॑ । वृद्धायुमनु वृद्ध॑यो जुश्टा॑ भवन्तु जुष्ट॑यः ॥ २९ ॥ इन्द्र॑स्य स्यूरसीन्द्र॑स्य ध्रुवोऽसि । ऐन्द्रम॑सि वैश्वदेवम॑सि ॥ ३० ॥ विभूर॑सि प्रवाह॑णो वह्नि॑रसि हव्यवाह॑नः । श्वात्रो॑ऽसि प्रचे॑तास्तुथोऽसि विश्ववे॑दाः ॥ ३१ ॥ उशिग॑सि कविरङ्‍घा॑रिरसि बम्भा॑रिरवस्यूर॑सि दुव॑स्वञ्छुन्ध्य्य्र॑सि मार्जालीयः॑ सम्राड॑सि कृशानुः॑ परिषद्यो॑ऽसि पव॑मानो नभो॑ऽसि प्रतक्वा॑ मृष्टोऽसि हव्यसूद॑न ऋतधा॑माऽसि स्वर्ज्योतिः ॥ ३२ ॥ समुद्रोऽसि विश्वव्य॑चा अजोऽस्येक॑पादहि॑रसि बुध्न्यो वाग॑स्यैन्द्रम॑सि सदोऽस्यृत॑स्य द्वारौ मा मा सन्ता॑प्तमध्व॑नामध्वपते प्र मा॑ तिर स्वस्ति मेऽस्मिन्पथि दे॑वयाने॑ भूयात् ॥ ३३ ॥ मित्रस्य॑ मा चक्षु॑षेक्षध्वमग्न॑यः सगराः सग॑रा स्थ सग॑रेण नाम्ना रौद्रेणानी॑केन पात मा॑ऽग्नयः पिपृत मा॑ऽग्नयो गोपायत॑ मा नमो॑ वोऽस्तु मा मा॑ हिँसिष्ट ॥ ३४ ॥ ज्योति॑रसि विश्वरू॑पं विश्वे॑षां देवनँ॑ समित् । त्वँ सो॑म तनूकृद्‍भ्यो द्वेषो॑भ्योऽन्यकृ॑तेभ्य उरु यन्तासि व॑रूथँ स्वहा॑ जुषाणो अप्तुराज्य॑स्य वेतु स्वहा॑ ॥ ३५ ॥ अग्ने न॑य सुपथा॑ राये अस्मान्विश्वानि देव वयुना॑नि विद्वान् । यूओध्यस्मज्जु॑हुराणमेनो भूयि॑ष्ठां ते नम॑ उक्तिं विधेम ॥ ३६ ॥ अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यँ शत्रू॑ञ्जयतु॒ जर्हृषाणः॒ स्वाहा ॥ ३७ ॥ उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वहा॑ ॥ ३८ ॥ देव॑ सवितरे॒ष ते॒ सोम॒स्तँ र॑क्षस्व॒ मा त्वा॑ दभन् । ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ उपा॑गा इ॒दम॒हं म॑नु॒ष्या॒न्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्व॑रुणस्य॒ पाशा॑म्नुच्ये ॥ ३९ ॥ अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यँ सा मयि॑ । य॒था॒य॒थं नौ व्र॒तपते व्रतान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रमँ॒स्तानु॒ तप॒स्तप॑स्पतिः ॥ ४० ॥ उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य मस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥ ४१ ॥ अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑म॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः । तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैनँ॑ हिँसीः ॥ ४२ ॥ द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हिँसीः पृ॒थिव्या सम्भ॑व । अ॒यँ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय । अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हेम ॥ ४३ ॥ ॥ इति पञ्चमोऽध्यायः ॥


ॐ तत् सत्



GO TOP