॥ त्रिपुरोपनिषत् ॥


त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥


हे एक गौण शाक्त उपनिषद् असून ऋग्वेदाचे आहे. हे पद्यात्मक असून याचे १७ श्‍लोक आहेत. स्थूल, सूक्ष्म व कारण या तिन्ही देहात वास करणारी चिच्छक्ती म्हणजेच त्रिपुरादेवी असून कर्म, उपासना, ज्ञान यांच्या सहाय्याने साधकाला आपल्या हृदयात तिचा साक्षात्कार अनुभवता येतो असे यात प्रतिपादन केले आहे. पंचमकारांनी योनीपूजा केल्याने परमसुखलाभ होतो हे शाक्तमत यामध्ये गौण मानले आहे. केवळ निष्काम साधकांनाच श्रीविद्येची सिद्धी होते. सकामांना होत नाही. देवीच्या निःस्वार्थ पूजेने मोक्षप्राप्ती कशी होते हे या उपनिषदात सांगितले आहे.



ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः सन्निविष्टाः ।
अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १॥

नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च ।
नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥ २॥

एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशात् ।
चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३॥

ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्‌रजोऽभूत् ।
आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला मण्डयन्ति ॥ ४॥

यास्त्रिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः ।
एतत्त्रयं पूरकं पूरकाणां मन्त्री प्रथते मदनो मदन्या ॥ ५ ॥

मदन्तिका मानिनी मङ्‌गला च सुभगा च सा सुन्दरी सिद्धिमत्ता ।
लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६॥

इमां विज्ञाय सुधिया मदन्ती परिसृता तर्पयन्तः स्वपीठम् ।
नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७॥

कामो योनिः कामकला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या ॥ ८॥

षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमादेशयन्तः ।
कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९॥

पुरं हत्त्रिमुखं विश्वमातू रवे रेखा स्वरमधं तदेषा ।
बृहत्तिथिर्दश पञ्च च नित्या सषोडकं पुरमध्यं बिभर्ति ॥ १० ॥

यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं चाधस्त्रीणि गुहासदनानि ।
कामी कलां कामरूपां चिकित्वा नरो जायते कामरूपश्च कामः ॥ ११ ॥

परिस्रुतं झषमाजं फलं च भक्तानि योनीः सुपरिकृताश्च ।
निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥

सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् ।
इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३॥

भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् ।
समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥ १४॥

परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः ।
शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५॥

इयं महोपनिषत्त्रैपुर्या यामक्षयं परमो गीर्भिरीट्टे ।
एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६॥

ॐ ह्रीम् ॐ ह्रीम् इत्युपनिषत् ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति त्रिपुरोपनिषत् ॥