॥ रामोत्तरतापिनि उपनिषत् ॥


॥ प्रथमः खण्डः ॥


अविमुक्तोपासनम् -

ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् ।
यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ १ ॥
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षीभवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् ॥ २ ॥
एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
इति प्रथमः खण्डः ॥

रामषडक्षरस्य तारकत्वम् -

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं
किं तारकं किं तारयतीति ॥ १ ॥
स होवाच याज्ञवल्क्यः - तारकं
दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्माय
नमश्चन्द्राय नमो भद्राय नम इत्येतद्‌ब्रह्मात्मिकाः
‌ सच्चिदानन्दाख्या इत्युपासितव्यम् ॥ २ ॥
अकारः प्रथमाक्षरो भवति ।
उकारो द्वितीयाक्षरो भवति ।
मकारस्तृतीयाक्षरो भवति ।
अर्धमात्रश्चतुर्थाक्षरो भवति ।
बिन्दुः पञ्चमाक्षरो भवति ।
नादः षष्ठाक्षरो भवति ।
तारकत्वात्तारको भवति ।
तदेव तारकं ब्रह्म त्वं विद्धि ।
तदेवोपासितव्यमिति ज्ञेयम् ।
गर्भजन्मजरामरणसंसारमहद्भयात् संतारयतीति ।
तस्मादुच्यते षडक्षरं तारकमिति ॥ ३ ॥

तारकजपफलम् -

य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते ।
स पाप्मानं तरति । स मृत्युं तरति ।
स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति ।
स वीरहत्यां तरति स सर्वहत्यां तरति ।
स संसारं तरति । स सर्वं तरति ।
अविमुक्तमाश्रितो भवति ।
स महान्भवति । सोऽमृतत्वं च गच्छति ॥ ४ ॥

रामस्य प्रणवार्थत्वम् -

अत्रैते श्लोका भवन्ति ।
अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ ५ ॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ ६ ॥
श्रीरामसांनिध्यवशाज्जगदाधारकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ७ ॥
सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिका ।
प्रणवत्वात् प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ८ ॥ इति ॥

प्रणवतदर्थयाथात्म्यम् -

ओमित्येतदक्षरमिदं सर्वं तस्य उपव्याख्यानं
भूतं भव्यं भविष्यदिति सर्वमोङ्‌कार एव ।
यच्चान्यत्-त्रिकालातीतं तदपि ओङ्‌कार एव ।
सर्वं ह्येतद्‌ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ ९ ॥
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्‌ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ १० ॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्‌ग एकोनविंशतिमुखः
प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ११ ॥
यत्र सुप्तो न कंचन कामं कामयते
न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ १२ ॥
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ १३ ॥
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं
नाप्रज्ञं न प्रज्ञानघनमदृश्यमव्यवहार्य-
मग्राह्यमलक्षणंमचिन्त्यमव्यपदेश्य-
मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १४ ॥

प्रत्यग्ब्रह्मणोरेकीकरणम् -

सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्त अविद्यातमोमोहोऽहमेवेति संभाव्याहम् ॥ १५ ॥
ओं तत् सद्यत् परं ब्रह्म रामचन्द्रश्चिदात्मकः ।
सोऽहमोन्तद्रामभद्रपरंज्योती रसोऽहमोम् ॥ १६ ॥
इत्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥ १७ ॥

रामज्ञानान्मुक्तिः -

सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥
य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ १९ ॥
इति द्वितीयः खण्डः ॥

॥ अथ तृतीयः खण्डः ॥

बाह्यान्तराविमुक्तयाथात्म्यम् -

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं -
य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा
तं कथमहं विजानीयामिति ॥ १ ॥
स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो ।
य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥ २ ॥
सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति ॥ ३ ॥
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥ ४ ॥
का वै वरणा का च नासीति ॥ ५ ॥
जन्मान्तरकृतान् सर्वान् दोषान् वारयतीति तेन वरणा भवतीति ।
सर्वानिन्द्रियकृतान् पापान् नाशयतीति तेन नासी भवतीति ॥ ६ ॥
कतमं चास्य स्थानं भवतीति ॥ ७ ॥
भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥
सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ ८ ॥

मुमूर्षूणां शिवकृतरामतारकोपदेशः -

अथ तं प्रत्युवाच -
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥ ९ ॥
ततः प्रसन्नो भगवान् श्रीरामः प्राह शंकरम् ।
वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ १० ॥ इति ॥
अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ -
मणिकर्ण्यां मम क्षेत्रे गङ्‌गायां वा तटे पुनः ।
म्रियेत देही तज्जन्तोर्मुक्तिं नातो वरान्तरम् ॥ ११ ॥ इति ॥
अथ स होवाच श्रीरामः -
क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः ।
कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ १२ ॥
अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
अहं संनिहितस्तत्र पाषाणप्रतिमाऽऽदिषु ॥ १३ ॥
क्षेत्रेऽस्मिन् योऽर्चयेद्‌भक्त्या मन्त्रेणानेन मां शिव ।
ब्रह्महत्याऽऽदिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १४ ॥
त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ १५ ॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ १६ ॥
इति श्रीरामचन्द्रेणोक्तम् ॥
इति तृतीयः खण्डः

॥ अथ चतुर्थः खण्डः ॥

रामसाक्षात्कारप्रदाः मंत्राः -

अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाच -
अथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति ।
स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ।
स होवाच याज्ञवल्क्यः -
पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो
ब्रह्मा पुनरेतया गाथया नमस्करोति -
विश्वरूपधरं विष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥
मनसा संस्मरन् ब्रह्म तुष्टाव परमेश्वरम् ।
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा यत्परं ब्रह्म
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्चाखण्डैकरसात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च ब्रह्मानन्दामृतं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यस्तारकं ब्रह्म
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यो ब्रह्मा विष्णुर्महेश्वरो
यः सर्वदेवात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्ये सर्वे वेदाः साङ्‌गाः सशाखाः
सेतिहासपुराणाः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यो जीवात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यो सर्वभूतान्तरात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्ये देवासुरमनुष्यादिभावाः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्ये मत्स्यकूर्माद्यवताराः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यश्च प्राणः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ११ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्योऽन्तःकरणचतुष्टयात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यश्च यमो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यश्चान्तको
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यश्च मृत्युः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यच्चामृतं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यानि च पञ्चमहाभूतानि
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्यः स्थावरजङ्‌गमात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्ये पञ्चाग्नयो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान्याः सप्त महाव्याहृतयो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या विद्या
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या सरस्वती
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या लक्ष्मी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या गौरी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या जानकी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च त्रैलोक्यं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सूर्यो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सोमो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यानि च नक्षत्राणि
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च नवग्रहा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ लोकपालाः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ वसवो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चैकादश रुद्राः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च द्वदिशादित्याः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च भूतं भव्यं भविष्यत्
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यद्ब्रह्माण्डस्य बहिर्व्याप्तम्
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो हिरण्यगर्भो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या प्रकृति
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चोंकारो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चतस्रोऽर्धमात्राः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः परमपुरुषो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महेश्वरो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महादेवो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः ॐ नमो भगवते वासुदेवाय
यो महाविष्णुः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो महावुष्णुः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो परमात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो विज्ञानात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् सः अद्वैतपरमानन्द आत्मा
यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥


तान् ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति ।
तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति ।
सोऽमृतत्वं गच्छतीति महोपनिषत् ॥
इति चतुर्थोखण्डः ॥

॥ अथ पञ्चमोखण्डः ॥

रामषडक्षरमाहात्म्यम् -

अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच
श्रीराममन्त्रराजस्य माहात्म्यं अनुब्रूहीति । ॥ १ ॥
स होवाच याज्ञवल्क्यः ।
स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः ।
तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ २ ॥
अखण्डैकरसानन्दस्तारकब्रह्मवाचकः ।
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ ३ ॥
नमःपदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ।
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ४ ॥ इति ॥
य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते ।
सोऽग्निपूतो भवति । स वायुपूतो भवति ।
स आदित्यपूतो भवति । स सोमपूतो भवति ।
स ब्रह्मपूतो भवति । स विष्णुपूतो भवति ।
स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
स सर्वक्रतुभिरिष्टवान् भवति । तेन इतिहासपुराणानां रुद्राणां
शतसहस्राणि जप्तानि फलानि भवन्ति ।
श्रीरामचन्द्रमनुस्मरणेन गायत्र्याः शतसहस्राणि
जप्त्वानि फलानि भवन्ति ।
प्रणवानामयुतकोटिजपा भवन्ति ।
दश पूर्वान् दशोत्तरान् पुनाति ।
स पङ्क्तिपावनो भवति । स महान् भवति ।
सोऽमृतत्वं च गच्छति ॥ ॥ ५ ॥

मंत्रराजमाहात्म्यप्रतिपादकश्लोकाः -

अत्रैते श्लोका भवन्ति ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ६ ॥
गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः ।
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ७ ॥
षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः ।
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ८ ॥
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
सर्वं दहति निःशेषं तूलाचलमिवानलः ॥ ९ ॥
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ १० ॥
कोटिकोटिसहस्राणि उपपातकजान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ११ ॥
भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः ।
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १२ ॥
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ १३ ॥
ग्राम्यारण्यपशुघ्नत्वं संचितं दुरितं च यत् ।
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १४ ॥
अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमुद्‌भवम् ।
सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १५ ॥
श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् ।
रत्ना्देश्चापहारेण तदप्याशु विनाशयेत् ॥ १६ ॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १७ ॥
गत्वापि मातरं मोहादगम्याश्चैव योषितः ।
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १८ ॥
महापातकपापिष्ठ सङ्‌गत्या संचितं च यत् ।
नाशयेत्तत्कथालाप शयनासनभोजनैः ॥ १९ ॥
पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
तदनुष्ठानमात्रेण सर्वं एतद्विलीयते ॥ २० ॥
यत् प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि ।
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ २१ ॥
पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् ॥ २२ ॥
कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि ।
पापं च नापनोद्यं यत् तदप्याशु विनाशयेत् ॥ २३ ॥
आत्मतुल्यसुवर्णादि दानैर्बहुविधैरपि ।
किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २४ ॥
अवस्थात्रितयेष्वेवं बुद्धिपूर्वमघं च यत् ।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २५ ॥
अवस्थात्रितयेष्वेवं मूलबन्धमघं च यत् ।
तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २६ ॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्‌भवाः ।
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २७ ॥
येषु येष्वपि देशेषु रामभद्र उपास्यते ।
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २८ ॥
शान्तः प्रसन्नवदनो नक्रोधो भक्तवत्सलः ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २९ ॥
सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ ३० ॥

तदेतदृचाभ्युक्तम् -

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद् विदुस्त इमे समासते ॥ ३१ ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ३२ ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ३३ ॥
ॐ सत्यमित्युपनिषत् ॥ ३४ ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्‌गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥