॥ भावनोपनिषत् ॥


स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।
बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥


हे अथर्ववेदाचे उपनिषद् असून गद्यात्मक आहे. या उपनिषदात मानवी शरीराच्या विविध अवयवांची श्रीचक्राच्या विविध अंगोपांगांशी संगती दाखवून मानव शरीर म्हणजेच जणू श्रीचक्र अशी कल्पना केली आहे. प्रारंभी गुरु शब्दाचा अर्थ, गु म्हणजे अज्ञान, जो आपल्या ज्ञानाने नष्ट करतो, व ईशतत्त्वाची प्राप्ती करून देतो तो, असा सांगितला आहे. श्रीचक्राशी शरीराची तुलना करताना, शरीर जसे नऊ भागात विभागले आहे तसेच श्रीचक्र विमलपासून ईशानपर्यंत नऊ शक्तींनी युक्त आहे, असे प्रतिपादन केले आहे. यानंतर श्रीचक्राच्या मानसपूजेचे विवेचन आहे. पूजेसाठी ज्याप्रमाणे धूप, दीप, नैवेद्य, प्रदक्षिणा, नमस्कार इत्यादी विधी आहेत त्याप्रमाणे परब्रह्माच्या प्राप्तीसाठी मानसिक विधींचे वर्णन आहे. उदा. मन स्थिर ठेवून विषयांचे सेवन हीच फुले आणि त्यांचा स्वीकार हा धूप. योग आचरताना प्राण-अपान यांच्या एकतेने सुषुम्नामध्ये सत्-चित्-आनंद रूप जो प्रकाश तोच दीप, आणि आकाश म्हणजे देह आहे. ब्रह्मस्वरूपामध्ये निमग्न मनाचे कोठल्याही विषयात न गुंतणे, बद्ध न होणे हाच नैवेद्य. मूलाधारापासून ब्रह्मरंध्रापर्यंत व ब्रह्मरंध्रापासून मूलाधार या योगमार्गातील गमन-आगमनालाच प्रदक्षिणा म्हणावयाचे. भावना म्हणजे अमूर्ताचे ध्यान होय. तांत्रिक आणि मानसिक अशा दोन्ही पूजांचा संगम झालेला या उपनिषदात दाखविला आहे. मानसपूजेचे चोवीस उपचार सांगितले आहेत. कुंडलिनी शक्ती म्हणजे दुर्गा. तिची भावनापूजा केल्याने शक्तीचा प्रसाद होतो म्हणजे ती भक्तांचे रक्षण करते. जो साधक या उपनिषदाचे सम्यक् अध्ययन करतो आणि त्यातील गोष्टींचा साक्षात् अनुभव घेतो तो जीवन्मुक्त होतो असे यात प्रतिपादिले आहे. अशा साधकाला शिवयोगी म्हणतात.



आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्मान्डमन्डलं स्वप्रकाशं ध्यायेत् । श्रीगुरुः सर्वकारणभूता शक्तिः ॥ १ ॥

केन नवरन्ध्ररूपो देहः ॥ नवशक्तिरूपं श्रीचक्रम् ॥ वाराही पितृरूपा । कुरुकुल्ला बलिदेवता माता ॥ पुरुषार्थाः सागराः ॥ देहो नवरत्नद्वीपः ॥ आधारनवकमुद्राः शक्तयः । त्वगादि सप्तधातुभिरनेकैः संयुक्ताः संकल्पाः कल्पतरवः ॥ तेजः कल्पकोद्यानम् ॥ रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्‌रसाः षडृतवः । क्रियाशक्तिः पीठम् । कुण्डलिनी ज्ञानशक्तिर्गृहम् । इच्छाशक्तिर्महात्रिपुरसुन्दरी ॥ ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः । ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् ॥ नियतिसहिताः श्रृङ्गारादयो नव रसा अणिमादयः ॥ कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्याद्यष्टशक्त्तयः ॥ पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण-वाक्पाणिपादपायूपस्थमनोविकाराः षोदश शक्तयः ॥ वचनादानागमनविसर्गानन्दहानोपेक्षाबुद्धयोऽनङ्‌गकुसुमादिशक्तयोऽष्टौ ॥ अलम्बुसा कुहुर्विश्वोदरा वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः । सर्वसंक्षौभिण्यादिचतुर्दशारगा देवताः ॥ प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया इति दश वायवः । सर्वसिद्धिप्रदा देव्योबहिर्दशारगादेवताः ॥ एतद्वायुसंसर्गकोपाधिभेदेन रेचकपूरकशोषकदाहकप्लावका अमृतमिति प्राणमुख्यत्वेन पंचविधोऽस्ति ॥ क्षारको दारकः क्षोभको मोहको जृंभको इत्यपालनमुख्यत्वेन पंचविधोऽस्ति ॥ तेन मनुष्याणां मोहको दाहको भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं चतुर्विधमन्नं पाचयति ॥ एता दशवह्निकलाः सर्वात्वाद्यन्तर्दशारगा देवताः ॥ शीतोष्णासुखदुःखेच्छाः सत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ ॥ शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणाः मन इक्षुधनुः ॥ वश्यो बाणो रागः पाशः । द्वेषोऽङ्कुशः ॥ अव्यक्त महत्तत्त्वमहदहंकार इति कामेश्वरी वज्रेश्वरी भगमालिन्योऽन्तस्त्रिकोणग्रगा देवताः ॥ पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदश नित्याः श्रद्धानुरूपाधीदेवता । तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा देवता ॥ २ ॥

सलिलमिति सौहित्यकारणं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः । अस्तिनास्तीति कर्तव्यतानूपचारः । बाह्याभ्यन्तःकरणानां रूपग्रहणयोग्यताऽस्त्वित्यावाहनम् । तस्य बाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमानसम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदानन्दासनदानमर्घ्यम् । स्चच्छं स्वतःसिद्धमित्याचनीयम् । चिच्चन्द्रमयिति सर्वाङ्‌स्रवणं स्नानम् । चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् । प्रत्येकं सप्तविंशतिधा भिन्नत्वेन इच्छाज्ञानक्रियात्मक ब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम् । स्वव्यतिरिक्तवस्तुसङ्‌गरहितस्मरणं विभूषणम् । स्वच्छस्वपरिपूर्णतास्मरणं गन्धः । समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । तेषामेव सर्वदा स्वीकरणं धूपः । पवनावच्छिन्नोर्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः । समस्ततायातवर्ज्यं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं ताम्बूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरंध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । तुर्यावस्था नमस्कारः । देहशून्यप्रमातृतानिमज्जनं बलिहरणम् । सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः । स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ॥ ३ ॥

एवं मुहूर्तत्रयं भावनोपरो जीवन्मुक्तो भवतो । तस्य देवतात्मैक्यसिद्धिः । चिन्तितकार्याण्ययत्‍नेन सिद्ध्यन्ति । स एव शिवयोगीति कथ्यते ॥ ४ ॥

कादिहादिमतोक्तेन भावना प्रतिपादिता । जीवन्मुक्तो भवति । य एवं वेद । इत्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति भावोपनिषत् ॥