अव्यक्तोपनिषद् -

स्वाज्ञानासुरराड्‌ग्रासस्वज्ञाननरकेसरी ।
प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥


ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ॥ सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद् अनिराकरणं मे अस्तु अनिराकरणं मे अस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ । पुरा किल इदं न किंच नासीत् । न द्यौः न अन्तरिक्षं न पृथिवी । केवलं ज्योतीरूपम् । अनादि अनन्तं अन्अणु अस्थूलरूपं अरूपं रूपवद् अविज्ञेयं । ज्ञानरूपं आनन्दमयं आसीत् । तद् अनन्यत् तद् द्वेधा अभूद् । हरितं एकं रक्तं अपरम् । तत्र यद् रक्तं तत् पुंसो रूपं अभूत् । यद् हरितं तन् मायायाः । तौ समगच्छतः । तयोः वीर्यं एवं अनन्दत् । तद् अवर्धत । तद् अण्डं अभूत् ह इमम् । तत्परिणममानं अभूत् । ततः परमेष्ठी व्यजायत । सो अभिजिज्ञासत किं मे कुलं किं मे कृत्यं इति । तं ह वाक् अदृश्यमानाभि उवाच । भोभो प्रजापते त्वं अव्यक्तात् उत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किं अव्यक्तं यस्माद् अहं आसिषम् । किं तद् व्यक्त यन्मे कृत्यमिति । स अब्रवीद् अविज्ञेयं हि तत् सौम्य तेजः । यद् अविज्ञेयं तदव्यक्तम् । तत् चेत् जिज्ञाससि मां अवगच्छेति । स होवाच कैषा त्वं ब्रह्मवाक् यद् असि शंस आत्मानं इति । सा तु अब्रवीत् तपसा मां विजिज्ञासस्व इति । स ह सहस्रं समा ब्रह्मचर्यं अध्युवासाध्युवास ॥ १ ॥

अथ अपश्यद् ऋचं आनुष्टुभीं परमां विद्यां यस्य अङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् । विश्वेदेवाः प्रतिष्ठिताः । यः तां न वेद किं अन्यैर्वेदैः करिष्यति । तां विदित्वा स च रक्तं जिज्ञासयामास । तां एवं अनूचानां गायन् आसिष्ट । सहस्रं समा आदि अंत निहितो ओंकारेण पदानि अगायत् । सहस्त्रं समाः तथैव अक्षरशः । ततो अपश्यत् ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणा आच्छादित मौलिं मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मक नयनत्रयम् । ततः प्रजापतिः प्रणिपपात नमोनम इति । तथैव अर्चाथ तमस्तात् । उग्रं इत्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरं इत्याह वीरो वा एष वीर्यवत्त्वात् । महाविष्णुं इत्याह महतां वा अयं महान् रोदसी व्याप्य स्थितः । ज्वलन्तं इत्याह ज्वलन् इव खलु असौ अवस्थितः । सर्वतोमुखं इत्याह सर्वतः खलु अयं मुखवान् विश्वरूपत्वात् । नृसिंहं इत्याह यथा यजुरेवैतत् । भीषणं इत्याह भीषा वा अस्माद् आदित्य उदेति । भीतश्चन्द्रमा । भीतो वायुर्वाति । भीतो अग्निर्दहति । भीतः पर्जन्यो वर्षति । भद्रं इत्याह भद्रः खलु अयं श्रिया जुष्टः । मृत्योर्मृत्युं इत्याह मृत्योर्वा अयं मृत्युः अमृतत्वं प्रजानामन्नादानाम् । नमामि इत्याह यथा यजुरेवैतत् । अहं इत्याह यथा यजुरेवैतत् ॥ २ ॥

अथ भगवान् तं अब्रवीत् प्रजापते प्रीतोऽहं किं तवेप्सितं, तद् आशंसेति । स होवाच भगवन् अव्यक्ताद् उत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराश्रावि । तत्र अव्यक्तं भवान् इति अज्ञायि व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् । यद् व्यज्यते तद् व्यक्तस्य व्यक्तत्वं इति । स होवाच न शक्नोमि जगत् स्रष्टुं उपायं मे कथयेति । तं उवाच पुरुषः । प्रजापते शृणु सृष्टेः उपायं परमं, यं विदित्वा सर्वं ज्ञास्यसि । सर्वत्र शक्ष्यसि, सर्वं करिष्यसि । मयि अग्नौ स्वात्मानं हविर्ध्यायेत् तयैव अनुष्टुभर्चा । ध्यानयज्ञो अयं एव । एतद् वै महोपनिषद् देवानां गुह्यम् । न ह वा एतस्य साम्ना न अर्चा न यजुषा अर्थो नु विद्यते । य इमा वेद स सर्वान् कामान् अवाप्य सर्वान् लोकान् जित्वा मां एवाभि उपैति न स पुनरावर्तते । य एवं वेद् इति ॥ ३ ॥

प्रजापतिः तं यज्ञाय वसीयांसं आत्मानं मन्यमानो मनोयज्ञेन एजे । सप्रणवया तयि एव अर्चा हविर्ध्यात्वा आत्मानं आत्मनि अग्नौ जुहुयात् । सर्वं अजानात् सर्वत्र अशकत् सर्वं अकरोत् । य एवं विद्वान् इमं ध्यानयज्ञं अनुतिष्ठेत् स सर्वज्ञो अनन्तशक्तिः सर्वकर्ता भवति । स सर्वान् लोकान् जित्वा ब्रह्म परं प्राप्नोति ॥ ४ ॥

अथ प्रजापतिः लोकान् सिसृक्षमाणः तस्या एव विद्याया यानि त्रिंशद् अक्षराणि तेभ्यः त्रीन् च लोकान् । अथ द्वे द्वे अक्षरे ताभ्यां उभयतो दधार । तस्या एव अर्चो द्वात्रिंशद्भिः अक्षरैः तान् देवान् निर्ममे । सर्वैः एव स इंद्रो अभवत् । तस्माद् इंद्रो देवानां अधिको अभवत् । य एवं वेद समानानां अधिको भवेत् । तस्या एकादशभिः पादैः एकादश रुद्रान् निर्ममे । तस्या एकादशभिः एकादश आदित्या निर्ममे । सर्वैः एव स विष्णुः अभवत् । तस्माद् विष्णुः आदित्यानां अधिको अभवत् । य एवं वेद समानानां अधिको भवेत् । स चतुर्भिश्चतुर्भिः अक्षरैः अष्टौ वसून् अजनयत् । स तस्या आद्यैः द्वादशभिः अक्षरैः ब्राह्मणं अजनयत् । दशभिः दशभिः विट्क्षत्रे । तस्माद् ब्राह्मणो मुख्यो भवति । एवं तन् मुख्यो भवति य एवं वेद । तूष्णीं शूद्रं अजनयत् तस्मात् शूद्रो निर्विद्योऽभवत् । न वेदं दिवा न नक्तं आसीद् अव्यावृतम् । स प्रजापतिः आनुष्टुभाभ्यां अर्धर्चाभ्यां अहोरात्रौ अकल्पयत् । ततो व्यैच्छत् व्येवास्मा उच्छति । अथो तम एव अपहते । ऋग्वेदं अस्या आद्यात् पादाद् अकल्पयत् । यजुः द्वितीयात् । साम तृतीयात् । अथर्व अङ्गिरसः चतुर्थात् । यद् अष्टाक्षरपदा तेन गायत्री । यद् एकादशपदा तेन त्रिष्टुप् । यत् चतुष्पदा तेन जगती, यद् द्वात्रिंशद् अक्षरा तेन् अनुष्टुप् । सा वा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद । सर्वं जगद् आनुष्टुभ एव उत्पन्नं अनुष्टुप् प्रतिष्ठितं प्रतितिष्ठति यश्च एवं वेद ॥ ५ ॥

अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं अनु इमाः प्रजाः सृजेयं इति चिन्तयन् उग्रं मिति इमां ऋचं गातुं उपाक्रामत् । ततः प्रथमपादाद् उग्ररूपो देवः प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपः तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् । उभाभ्यां अंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजायन्ते । य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमां ऋचं उद्गायन् उद्ग्रथित जटाकलापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारं इति । इन्द्रो वै किल देवानां अनुजावर आसीत् । तं प्रजापतिः अब्रवीद् गच्छ देवानां अधिपतिः भव इति । सोऽगच्छत् । तं देवा ऊचुः अनुजावरोऽसि त्वं अस्माकं कुतः तवाधिपत्यं इति । स प्रजापतिं अभ्येति उवाच एवं देवा ऊचुः अनुजावरस्य कुतः तवाधिपत्यं इति । तं प्रजापतिरिन्द्रं त्रिकलशैः अमृतपूर्णैः आनुष्टुभाभिं अर्चितैः अभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्ष, पाञ्चजन्येन वामतो, द्वयेनैव सुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसि मन्त्रं आनुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् । तस्मै विद्यां आनुष्टुभीं प्रादात् । ततो देवाः तं आधिपत्याय अनुमेनिरे । स स्वराडभूत् । य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपि कथं अपां जयेयं इति । स प्रजापतिं उपाधावत् । तस्मात् प्रजापतिः कमठाकारं इन्द्र नाग भुजगेन्द्राधारं भद्रासनं प्रादात् । स पृथिवीं अभ्यजयत् । ततः स उभयोः लोकयोः अधिपतिः अभूत् । य एवं वेद उभयोः लोकयोः अधिपतिः भवति । स पृथिवीं जयति । यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो परमात्मानं मन्यते । स एतं आसीनं अधितिष्ठेत् । प्रतिष्ठितो अशिथिलो भ्रातृव्येभो वसीयान् भवति यश्चैवं वेद यश्चैवं वेद ॥ ६ ॥

य इमां विद्यां अधीते स सर्वान् वेदान् अधीते । स सर्वैः क्रतुभिर्यजते । स सर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । स ब्रह्मवर्चसं महदाप्नुयात् । आब्रह्मणः पूर्वान् आकल्पांश्च उत्तरांश्च वंशान् पुनीते । न एनं अपस्मारादयो रोगा आदिधेयुः । सयक्षाः सप्रेतपिशाचा अपि एनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा पापिनः पुण्यान् लोकान् अवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः । पितरं इव एनं सर्वे मन्यन्ते । राजानश्च अस्य आदेशकारिणो भवन्ति । न च आचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् । न च अस्माद् उपावरोहेत् । जीवन्मुक्तश्च भवति । देहान्ते तमसः परं धाम प्राप्नुयात् । यत्र विराण् नृसिंहो अवभासते तत्र खलु उपासते । तत् स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन् एव आत्मनि लीयन्ते । न च पुनरावर्तन्ते । न च इमां विद्यां अश्रद्दधानाय ब्रूयान् न असूयावते न आनूचानाय न विष्णुभक्ताय न अनृतिने न अतापसे न अदान्ताय न अशान्ताय न अदीक्षिताय ना अधर्मशीलाय न हिंसकाय न अब्रह्मचारिण इति एषोपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ॥ सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद् अनिराकरणं मे अस्तु अनिराकरणं मे अस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ हरिः ॐ तत्सत् ॥ इत्यव्यक्तोपनिषत्समाप्ता ॥