॥ अथर्वशिरोपनिषत् - अथर्ववेदीय शैव उपनिषत् ॥


अथर्वशिरसामर्थमनर्थप्रोचवाचकम् ।
सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वॄद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


हे अथर्ववेदाचे उपनिषद् असून गद्यात्मक आहे. गद्यात्मक उपनिषद. याचे सात विभाग केले आहेत. या उपनिषदात रुद्रमहिमा वर्णन केला आहे. रुद्रच ॐकार रूप आहे. ईशान रूप, महेश्वर रूप रुद्राचेच रूप आहे असे प्रतिपादन केले आहे. हे उपनिषद् अथर्ववेदाचे आहे. देवगण एकदा भगवान रुद्राकडे गेले आणि त्यांनी त्याच्या रूपाविषयी पृच्छा केली. तेव्हा रुद्राने उत्तर दिले, 'मीच नित्य-अनित्य, व्यक्त-अव्यक्त, ब्रह्म-अब्रह्म आहे. मीच या जगतातील सर्व काही आहे. मी वेदरूप आहे. ज्योतीरूप आहे. सर्व दिशांना मीच व्यापले आहे.' सर्व देवांनी नंतर चराचर व्यापणार्‍या रुद्राची स्तुती करून त्याला वंदन केले. जो ॐकार आहे तोच प्रणव आहे. जो प्रणव आहे तो सर्वव्यापी आहे. तोच अनंत आहे. तेच तारक रूप आहे. जे तारक रूप आहे तेच सूक्ष्म रूप आहे, शुक्ल रूप आहे. तेच विद्युतरूप, परब्रह्मरूप आहे. जे परब्रह्म आहे तेच एकरूप आहे. तेच स्वरूप आहे. तेच ईशानरूप आहे. जो ईशानरूप आहे तोच भगवान महेश्वर आहे. भगवान रुद्राच्या वरील सर्व रूपांची कारणमीमांसा चौथ्या भागात केली आहे. रुद्र या जगताचे नियमन करतो. तो प्रत्येक व्यक्तीमध्ये व्याप्त आहे. सर्वांचा लय त्याच्याच ठिकाणी होतो. विश्वाचे सृजन व रक्षण तोच करतो. याचे ध्यान केल्याने परमशांतीचा लाभ होतो. त्या रुद्राची प्रथम मात्रा ब्रह्माची-रक्तवर्ण आहे. तिचे ध्यान केल्याने ब्रह्मपदाचा लाभ होतो. दुसरी मात्रा विष्णूची-कृष्णवर्ण आहे. तिच्या चिंतनाने विष्णुपद प्राप्त होते. तिसरी मात्रा ईशानदेवाची-पीत रंगाची आहे जिचे ध्यान करण्याने ईशानपद प्राप्त होते. अर्ध चतुर्थमात्रा शुद्ध स्फटिकाप्रमाणे असून तिच्या चिंतनाने मुक्तीची प्राप्ती होते. या मात्रेची उपासना केल्याने कर्मबंध नाहीसा होतो. तुटून पडतो. सहाव्या भागात रुद्राचे सामर्थ्य वर्णन केले आहे. रुद्राने शयन केल्यावर सर्व प्राण्यांचा अंत होतो असे येथे नमूद केले आहे. शेवटच्या भागात हे उपनिषद् वाचणारा अतिशय पवित्र होतो. सूर्य, अग्नी, वायू, सोम, सत्याप्रमाणे पवित्र होतो असे प्रतिपादिले आहे. त्याला सर्व तीर्थांचे पुण्य प्राप्त होते.



ॐ देवा ह वै स्वर्गं लोकं आयन् ते रुद्रं अपृच्छन्, को भवान् इति । सोऽब्रवीद् अहं एकः प्रथमं आसं वर्तामि च भविष्यामि च, न अन्यः कश्चित् मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं, नित्य-अनित्योऽहं, व्यक्त अव्यक्तो ब्रह्माहं, अब्रह्माहं, प्राञ्चः प्रत्यञ्चोऽहं, दक्षिणाञ्च उदञ्चोहं, अधश्चोर्ध्वं चाहं, दिशश्च प्रतिदिशश्चाहं, पुमान् अपुमान् स्त्रियश्च अहं, गायत्रि अहं, सावित्रि अहं, त्रिष्टुभ् जगति अनुष्टुप् चाहं छन्दोऽहं, गार्हपत्यो दक्षिणाग्निः आहवनीयोऽहं, सत्योऽहं, गौरहं, गौर्यहं ऋक् अहं यजुः अहं सामाहं अथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहं आपोऽहं तेजोऽहं गुह्योहं अरण्योऽहं अक्षरं अहं क्षरं अहं पुष्करं अहं पवित्रं अहं अग्रं च मध्यं च बहिश्च पुरस्तात् ज्योतिरिति अहमेव सर्वे मामेव स सर्वे स मां यो मां वेद स सर्वान् देवान् वेद सर्वांश्च वेदान् साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान् ब्राह्मणेन हविर्हविषा आयुः आयुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रं अपृच्छन् ते देवा रुद्रं अपश्यन् । ते देवा रुद्रं अध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥ १ ॥

ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥ १ ॥
यो वै रुद्रः स भगवान्यश्च विष्णुस्तस्मै वै नमोनमः ॥ २ ॥
यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः ॥ ३ ॥
यो वै रुद्रः स भगवान्यश्च इन्द्रस्तस्मै वै नमोनमः ॥ ४ ॥
यो वै रुद्रः स भगवान्यश्च अग्निस्तस्मै वै नमोनमः ॥ ५ ॥
यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः ॥ ६ ॥
यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः ॥ ७ ॥
यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः ॥ ८ ॥
यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः ॥ ९ ॥
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमोनमः ॥ १० ॥
यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः ॥ ११ ॥
यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः ॥ १२ ॥
यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः ॥ १३ ॥
यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः ॥ १४ ॥
यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः ॥ १५ ॥
यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः ॥ १६ ॥
यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः ॥ १७ ॥
यो वै रुद्रः स भगवान्याश्च आपस्तस्मै वै नमोनमः ॥ १८ ॥
यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः ॥ १९ ॥
यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः ॥ २० ॥
यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः ॥ २१ ॥
यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः ॥ २२ ॥
यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः ॥ २३ ॥
यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः ॥ २४ ॥
यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः ॥ २५ ॥
यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः ॥ २६ ॥
यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः ॥ २७ ॥
यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः ॥ २८ ॥
यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः ॥ २९ ॥
यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः ॥ ३० ॥
यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः ॥ ३१ ॥
यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः ॥ ३२॥ ॥ २॥

भूस्ते आदिः, मध्यं भुवः, स्वः ते शीर्षं, विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतं-अहुतं दत्तं-अमदत्तं सर्वं-असर्वं विश्वं-अविश्वं कृतं-अकृतं परं-अपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनं अस्मान् कृणवदरातिः, किमु धूर्तिरमृतं मार्त्यस्य । सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगत् हितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यं अग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन तेजसा तस्माद् उपसंहर्त्रे महाग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्य उत्तरतः शिरो दक्षिणतः पादौ, य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तः तत् तारं यत् तारं तत् सूक्ष्मं तत् यत् सूक्ष्मं तत् शुक्लं यत् शुक्लं तद् वैद्युतं यद् वैद्युतं तत्परं ब्रह्म, यत्परं ब्रह्म स एकः, य एकः स रुद्रः, यो रुद्रो स ईशानः, य ईशानः स भगवान् महेश्वरः ॥ ३ ॥

अथ कस्माद् उच्यत ओङ्कारो यस्माद् उच्चार्यमाण एव प्राणान् ऊर्ध्वं उत्क्रामयति तस्माद् उच्यते ओङ्कारः । अथ कस्माद् उच्यते प्रणवः यस्माद् उच्चार्यमाण एव ऋक् यजुः साम अथर्व अङ्‌गिरसो ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्माद् उच्यते प्रणवः । अथ कस्माद् उच्यते सर्वव्यापी यस्माद् उच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपं ओतप्रोतं अनुप्राप्तो व्यतिषक्तश्च तस्माद् उच्यते सर्वव्यापी । अथ कस्माद् उच्यते अनन्तो यस्माद् उच्चार्यमाण एव तिर्यग् ऊर्ध्वं अधस्तात् च अस्यान्तो न उपलभ्यते तस्माद् उच्यते अनन्तः । अथ कस्माद् उदुच्यते तारं यस्माद् उच्चारमाण एव गर्भ जन्म व्याधि जरा मरण संसारमहाभयात् तारयति त्रायते च तस्माद् उच्यते तारम् । अथ कस्माद् उच्यते शुक्लं यस्माद् उच्चार्यमाण एव क्लन्दते क्लामयति च तस्माद् उच्यते शुक्लम् । अथ कस्माद् उच्यते सूक्ष्मं यस्माद् उच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराणि अधितिष्ठति सर्वाणि च अङ्गानि अभिमृशति तस्माद् उच्यते सूक्ष्मम् । अथ कस्माद् उच्यते वैद्युतं यस्माद् उच्चार्यमाण एव अव्यक्ते महति तमसि द्योतयति तस्माद् उच्यते वैद्युतम् । अथ कस्माद् उच्यते परं ब्रह्म यस्मात् परं अपरं परायणं च बृहद् बृहत्या बृंहयति तस्माद् उच्यते परं ब्रह्म । अथ कस्माद् उच्यते एको यः सर्वान् प्राणान् संभक्ष्य संभक्षणेनाजः संसृजति विसृजति च । तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषां इह संगतिः । साकं स एको भूतश्चरति प्रजानां तस्माद् उच्यत एकः । अथ कस्माद् उच्यते रुद्रः यस्माद् ऋषिभिः न अन्यैर्भक्तैः द्रुतमस्य रूपं उपलभ्यते तस्माद् उच्यते रुद्रः । अथ कस्माद् उच्यते ईशानः यः सर्वान् देवान् ईशते ईशानीभिः जननीभिश्च परमशक्तिभिः । अभि त्वा शूर नोनुमो दुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थिष इति तस्माद् उच्यते ईशानः । अथ कस्माद् उच्यते भगवान् महेश्वरः, यस्मात् भक्ता ज्ञानेन भजन्ति अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्य आत्मज्ञानेन योगेश्वैर्येण महति महीयते तस्माद् उच्यते भगवान् महेश्वरः । तदेतद् रुद्रचरितम् ॥ ४ ॥

एको ह देवः प्रदिशो नु सर्वाः, पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्मै य इमान् लोकान् ईशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले, संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनिमधितिष्ठतिति एको, येनेदं सर्वं विचरति सर्वम् । तं ईशानं वरदं देवमीड्यं, निचाय्येमां शान्तिं अत्यन्तमेति । क्षमां हित्वा हेतुजालास्य मूलं, बुद्ध्या संचितं स्थापयित्वा तु रुद्रे । रुद्रमेकत्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेण, पशवोऽनुनामयन्तं मृत्युपाशान् । तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति पशुपाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् ब्रह्मपदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् ईशानं पदम् । या सार्धचतुर्थी मात्रा सर्वदेवत्या अव्यक्तीभूता खं विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं, स गच्छेत् पत्पदमनामयम् । तदेतदुपासीत मुनयो वाग्वदन्ति, न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परं अपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये, विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं येनु पश्यन्ति धीराः तेषां शान्तिर्भवति नेतरेषाम् । यस्मिन् क्रोधं यां च तृष्णां, क्षमां च अक्षमां हित्वा हेतुजालस्य मूलम् । बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रं एकत्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेन एषमूर्जेण तपसा नियन्ता । अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म, सर्वं ह वा इदं भस्म, मन एतानि चक्षूंषि भस्मानि, यस्माद् व्रतमिदं पाशुपतं यद्‌भस्मनाङ्गानि संस्पृशेत् तस्माद्ब्रह्म, तदेतत् पाशुपतं पशुपाश विमोक्षणाय ॥ ५ ॥

योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्तु अग्नये । यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोनमः । यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन रुद्रेण जगद् ऊर्ध्वं धारितं, पृथिवी द्विधा त्रिधा धर्ता धारिता, नागा येऽन्तरिक्षे, तस्मै रुद्राय वै नमोनमः । मूर्धानमस्य संसीव्याथर्वा हृदयं च यत् । मस्तिष्काद् ऊर्ध्वं प्रेरयन् पवमानोऽधिशीर्षतः । तद्वा अथर्वणः शिरो देवकोशः समुज्झितः । तत्प्राणोऽभिरक्षति शिरोऽन्तमथो मनः । न च दिवो देवजनेन गुप्ता, न चान्तरिक्षाणि, न च भूम इमाः । यस्मिन् इदं सर्वं ओतप्रोतं, तस्माद् अन्यत् न परं किञ्चनास्ति । न तस्मात् पूर्वं न परं तदस्ति, न भूतं न उत भव्यं यदासीत् । सहस्रपादेकमूर्ध्ना व्याप्तं स एव इदं आवरीवर्ति भूतम् । अक्षरात्संजायते कालः कालाद्व्यापक उच्यते । व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रः तदा संहार्यते प्रजाः । उच्छ्वासिते तमो भवति, तमस आपो अप्सु अङ्गुल्या मथिते, मथितं शिशिरे, शिशिरं मथ्यमानं फेनं भवति, फेनात् अण्डं भवति, अण्डाद्ब्रह्मा भवति, ब्रह्मणो वायुः वायोः ॐकारः ॐकारात् सावित्री, सावित्र्या गायत्री, गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्ध्रुवम् । एतद् हि परमं तपः । आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति ॥ ६ ॥

य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति, अनुपनीत उपनीतो भवति, सोऽग्निपूतो भवति, स वायुपूतो भवति, स सूर्यपूतो भवति, स सर्वेर्देवैर्ज्ञातो भवति, स सर्वैर्वेदैः अनुध्यातो भवति, स सर्वेषु तीर्थेषु स्नातो भवति, तेन सर्वैः क्रतुभिरिष्टं भवति, गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति, इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवानां अयुतं जप्तं भवति । स चक्षुषः पङ्‌क्तिं पुनाति । आ सप्तमात् पुरुषयुगान् पुनाति इति आह भगवान् अथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा गणाधिपत्यं अवाप्नोति । तृतीयं जप्त्वा एवं एवानुप्रविशति ॐ सत्यं ॐ सत्यम् ॥ ७ ॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥
॥ इत्यथर्वशिर उपनिषत्समाप्ता ॥