॥ अध्यात्मोपनिषत् ॥



यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते ।
निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


या उपनिषदाचे स्वरूप गद्यपद्यात्मक आहे. प्रथम एक गद्य खंड असून नंतर एकाहत्तर श्‍लोक आले आहेत. हे शुक्ल यजुर्वेदाचे आहे. जीवात्म्याने देहबुद्धीचा त्याग करून अंतरात्म्याचा शोध घ्यावा आणि परतत्त्वाशी एकरूप होऊन जीवन्मुक्त व्हावे, चिरंतन-शाश्वत सुख मिळवावे, आनंदरूप व्हावे असे या उपनिषदात प्रतिपादन केले आहे. प्रथम गद्य खंडात अंतरात्म्याचे स्वरूप वर्णन करताना म्हटले आहे, शरीरातील हृदयरूपी गुफेमध्ये एक 'अजन्मा नित्य' वास करतो. याचे शरीर पृथ्वी आहे. हा पृथ्वीच्या अंतर्गत रहातो परंतु पृथ्वी याला जाणत नाही. जल व तेज हे त्याचे शरीर आहे. जलामध्ये व तेजामध्ये हा असतो परंतु त्यांना हा माहीत नाही. आकाश व वायू याचे शरीर आहे. त्यांच्यामध्ये हा स्थित आहे पण आकाश व वायू याला जाणत नाहीत. अशाच प्रकारे मन, बुद्धी, अहंकार, चित्त, अव्यक्त, अक्षर, मृत्यू हे सर्व ज्याचे शरीर आहे, ज्यांच्यामध्ये तो रहातो परंतु या कोणालाच त्याचे ज्ञान नाही असा तो सर्वभूतस्थित, पापरहित अंतरात्मा आहे आणि तोच दिव्य देव नारायण आहे. देह, इंद्रिये या अनात्म गोष्टीविषयी आसक्ती ठेवणे हा एक अध्यास (भ्रम) आहे आणि म्हणूनच ज्ञात्या विद्वान माणसाने ब्रह्मनिष्ठेच्या द्वारा हा भ्रम दूर केला पाहिजे. नंतरच्या श्‍लोकांमध्ये माणसाला ब्रह्मरूप होण्यास सांगितले आहे. मातापित्याकडून मिळालेला मल-मांसरूप देह हा क्षणभंगुर समजून त्यागावा. महाकाशामध्ये घटाकाश मिसळते त्याप्रमाणे परमात्म्यामध्ये आत्मा एकरूप करून अखंड अद्वैत अनुभवावे, शांत व्हावे, अहंकार-बुद्धी आनंदरूप चिदात्म्यामध्ये स्थापावी. ज्याप्रमाणे आरशात प्रतिबिंब दिसते त्याप्रमाणे जगताचा आभास ज्यामध्ये दिसतो ते ब्रह्म मीच आहे असे जाणून कृतार्थ व्हावे. क्रियेचा नाश झाल्यावर चिंतेचा विनाश होतो. चिंतेचा विनाश झाल्याने वासनेचा नाश होतो. वासनेचा नाशच मोक्ष आहे. जीवन्मुक्ती आहे. वैराग्याचे फल ज्ञान आहे. उपरती ज्ञानाचे फल आहे. आत्मानंदाचा अनुभव घेऊन जी शांती मिळते ते उपरतीचे फल आहे. 'तत् त्वमसि' यातील जीव-ब्रह्म ऐक्याला जाणावे. परमात्म्याची माया आणि जीवाची अविद्या या दोन उपाधींचा त्याग केल्यावर सच्चिदानंद परब्रह्म जाणता येते. शेवटी असे म्हटले आहे की आदि-अंतरहित, विकाररहित, चैतन्यमय अद्वैत, निर्गुण ब्रह्मच सर्व काही आहे. गुरूने शिष्याला हा उपदेश केल्यावर शेवटी शिष्य म्हणतो, 'मी या क्षणी जगत् पहात होतो ते कुठे अदृश्य झाले ?' शिष्य स्वतःची अवस्था वर्णन करताना म्हणतो, 'मी असंग आहे. शरीररहित आहे. मीच श्रीहरी आहे. अत्यंत शांत आहे. अनंत आहे. परिपूर्ण आहे. शुद्ध ज्ञानस्वरूप आहे. मी कर्ता नाही, भोक्ता पण नाही. मी केवळ सदाशिव आहे.' ('अकर्ता‍ऽहमभोक्ताऽहमविकारोऽहमव्ययः । शुद्धो बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥') ही अध्यात्मविद्या परमात्म्याकडून अपान्तरतम्याला (म्हणजे व्यासांना) मिळाली, त्यांनी ती ब्रह्मदेवाला दिली. ब्रह्मदेवाने घोर अंगिरसाला दिली. त्याने ती रैक्वाला दिली. रैक्वाने रामाला देऊन रामाद्वारे सर्व उपासकांपर्यंत पोचविली.



उपनिषद प्रारंभ


हरिः ॐ ॥ अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन् यं पृथिवी न वेद ।
यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः । यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन् यं तेजो न वेद ।
यस्य वायुः शरीरं यो वायुमन्तरे संचरन् यं वायुर्न वेद । यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद ।
यस्य मनः शरीरं यो मनोऽन्तरे संचरन् यं मनो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यं बुद्धिर्न वेद ।
यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन् यं अहंकारो न वेद । यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ।
यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद । यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन् यं अक्षरं न वेद ।
यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद । स एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः ।
अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ॥ १ ॥
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धि तद्‌वृत्तिसाक्षिणम् ।
सोऽहमित्येव तद्‌वृत्त्या स्वान्यत्रात् आत्ममतिं त्यजेत् ॥ २ ॥
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ३ ॥
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ॥ ४ ॥
निद्राया लोकवार्तायाः शब्दादेः आत्मविस्मृतेः ।
क्वचित् न अवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ ५ ॥
मातापित्रोर्मलोद्‌भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवत् दूरं ब्रह्मीभूय कृती भव ॥ ६ ॥
घटाकाशं महाकाश इवात्मानं परात्मनि ।
विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७ ॥
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ ८ ॥
चिदात्मनि सदानन्दे देहरूढामहंधियम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ ९ ॥
यत्रैष जगदाभासो दर्पणान्तःपुरं यथा ।
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥ १० ॥
अहंकारग्रहान्मुक्तः स्वरूपं उपपद्यते ।
चन्द्रवत् विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ११ ॥
क्रियानाशात् भवेत् चिन्ता नाशोऽस्मात् वासनाक्षयः ।
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ १२ ॥
सर्वत्र सर्वतः सर्व ब्रह्ममात्रावलोकनम् ।
सद्‌भावभावानादाढ्याद् वासनालयमश्नुते ॥ १३ ॥
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याहुः विद्यायां ब्रह्मवादिनः ॥ १४ ॥
यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्‌मुखम् ॥ १५ ॥
जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः ।
समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६ ॥
अज्ञानहृदयग्रन्थेः निःशेषविलयस्तदा ।
समाधिना अविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ १७ ॥
अत्रात्मत्वं दृढीकुर्वन् अहमादिषु संत्यजन् ।
उदासीनतया तेषु तिष्ठेत् घटपटादिवत् ॥ १८ ॥
ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येत् एकात्मना स्थितम् ॥ १९ ॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
स्वयं विश्वं इदं सर्वं स्वस्मात् अन्यत् न किंचन ॥ २० ॥
स्वात्मन्यारोपिता शेष आभासवस्तुनिरासतः ।
स्वयमेव परंब्रह्म पूर्णं अद्वयं अक्रियम् ॥ २१ ॥
असत्कल्पो विकल्पोऽयं विश्वं इत्येकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२ ॥
द्रष्टृदर्शनदृश्यादि भावशून्ये निरामये ।
कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥ २३ ॥
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ २४ ॥
एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् ।
सुषुप्तौ सुखमात्रायां भेदः केन अवलोकितः ॥ २५ ॥
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेयि प्रत्यग् रूपे परात्मनि ॥ २६ ॥
अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।
बहिरन्तः सदानन्द रसास्वादनमात्मनि ॥ २७ ॥
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।
स्वानन्दानुभवच्छान्तिः एष एव उपरतेः फलम् ॥ २८ ॥
यदि उत्तरोत्तराभावे पूर्वपूर्वं तु निष्फलम् ।
निवृत्तिः परमा तृप्तिः आन्दोऽनुपमः स्वतः ॥ २९ ॥
मायोपाधिर्जगत् योनिः सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलः सत्यादि आत्मकस्तत्पदाभिधः ॥ ३० ॥
आलम्बनतया भाति योऽस्मत् प्रत्ययशब्दयोः ।
अन्तःकरणसंभिन्न बोधः स त्वं पदाभिधः ॥ ३१ ॥
मायाविद्ये विहायैव उपाधी परजीवयोः ।
अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥ ३२ ॥
इत्थं वाक्यैस्तथार्थानु सन्धानं श्रवणं भवेत् ।
युक्त्या संभावितत्वानु सन्धानं मननं तु तत् ॥ ३३ ॥
ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ३४ ॥
ध्यातृध्याने परित्यज्य क्रमात् ध्येयैकगोचरम् ।
निवातदीपवत् चित्तं समाधिरभिधीयते ॥ ३५ ॥
वृत्तयस्तु तदानीमपि अज्ञाता आत्मगोचराः ।
स्मरणाद् अनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥ ३६ ॥
अनादौ इह संसारे संचिताः कर्मकोटयः ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ३७ ॥
धर्ममेघं इमं प्राहुः समाधिं योगवित्तमाः ।
वर्षत्येष यथा धर्मामृतधाराः सहस्रशः ॥ ३८ ॥
अमुना वासनाजाले निःशेषं प्रविलापिते ।
समूल उन्मूलिते पुण्य पापाख्ये कर्मसंचये ॥ ३९ ॥
वाक्यं अप्रतिबद्धं सत् प्राक्परोक्ष अवभासिते ।
करामलकमवद् बोधं अपरोक्षं प्रसूयते ॥ ४० ॥
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभाव उदयाभावो बोधस्य परमावधिः ॥ ४१ ॥
लीनवृत्तेः अनुत्पत्तिः मर्यादोपरतेस्तु सा ।
स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥ ४२ ॥
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ।
ब्रह्मात्मनोः शोधितयोः एकभावावगाहिनि ॥ ४३ ॥
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४ ॥
देहेन्द्रियेषु अहंभाव इदंभावः तदन्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४५ ॥
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४६ ॥
साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४७ ॥
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञात ब्रह्मभावो बहिर्मुखः ॥ ४८ ॥
सुखादि अनुभवो यावत् तावत् प्रारब्धमिष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥ ४९ ॥
अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् ।
संचितं विलयं याति प्रबोधात् स्वप्नकर्मवत् ॥ ५० ॥
स्वं असङ्गं उदासीनं परिज्ञाय नभो यथा ।
न श्लिष्यते यतिः किंचित् कदाचित् भाविकर्मभिः ॥ ५१ ॥
न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथात्मोपाधि योगेन तद्‌धर्मैः नैव लिप्यते ॥ ५२ ॥
ज्ञानोदयात्पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति ।
अदत्त्वा स्वफलं लक्ष्यं उद्दिश्योत्सृष्टबाणवत् ॥ ५३ ॥
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ५४ ॥
अजरोऽस्मि अमरोऽस्मीति य आत्मानं प्रपद्यते ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ५५ ॥
प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ५६ ॥
प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि ॥ ५७ ॥
अध्यस्तस्य कुतस्तत्त्वं असत्यस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धं असतः कुतः ॥ ५८॥
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ॥ ५९ ॥
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ।
न तु देहादिसत्यत्व बोधनाय विपश्चिताम् ॥ ६० ॥
परिपूर्णमनाद्यन्तं अप्रमेयं अविक्रियम् ।
सद्‌घनं चिद्‌घनं नित्यं आनन्दघनमव्ययम् ॥ ६१ ॥
प्रत्यक् एकरसं पूर्णं अनन्तं सर्वतोमुखम् ।
अहेयं अनुपादेयं अनाधेयं अनाश्रयम् ॥ ६२ ॥
निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।
अनिरूप्यस्वरूपं यत् मनोवाचामगोचरम् ॥ ६३ ॥
सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ६४ ॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वं आत्मानं अखण्डितम् ।
स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि ॥ ६५ ॥
क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्‌भुतम् ॥ ६६ ॥
किं हेयं किमुपादेयं किं अन्यत् किं विलक्षणम् ।
अखण्डानन्दपीयूष पूर्णब्रह्ममहार्णवे ॥ ६७ ॥
न किंचिदत्र पश्यामि न शृणोमि न वेद्‌म्यहम् ।
स्वात्मनैव सदानन्द रूपेणास्मि स्वलक्षणः ॥ ६८ ॥
असङ्गोऽहं अनङ्गोऽहं अलिङ्गोऽहं अहं हरिः ।
प्रशान्तोऽहं अनन्तोऽहं परिपूर्णश्चिरन्तनः ॥ ६९ ॥
अकर्ताहं अभोक्ताहं अविकारोऽहमव्ययः ।
शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ७० ॥
एतां विद्यां अपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ ।
ब्रह्मा घोराङ्‌गिरसे ददौ । घोराङ्‌गिरा रैक्वाय ददौ । रैक्वो रामाय ददौ ।
रामः सर्वेभ्यो भूतेभ्यो ददौ इति एतन्निर्वाणानुशासनं
वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति अध्यात्मोपनिषत्समाप्ता ॥