॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकोनपञ्चाशत्तमोऽध्यायः


अन्धकगण जीवितप्राप्तिवर्णनम्


सनत्कुमार उवाच
ॐ नमस्ते देवेशाय सुरासुरनमस्कृताय भूतभव्यमहादेवाय
हरितपिंगललोचनाय बलाय बुद्धिरूपिणे वैयाघ्रवसनच्छदायारणेयाय
त्रैलोक्यप्रभवे ईश्वराय हराय हरितनेत्राय युगान्तकरणायानलाय
गणेशाय लोकपालाय
महाभुजाय महाहस्ताय शूलिने महादंष्ट्रिणे कालाय महेश्वरायअव्ययाय
कालरूपिणे नीलग्रीवाय महोदराय गणाध्यक्षाय सर्वात्मने सर्वभावनाय
सर्वगाय मृत्युहन्त्रे पारियात्रसुव्रताय ब्रह्मचारिणे वेदान्तगाय तपोन्तगाय
पशुपतये व्यङ्‌गाय शूलपाणये वृषकेतवे हरये जटिने शिखण्डिने लकुटिने
महायशसे भूतेश्वराय गुहावासिने वीणापणवतालवते अमराय दर्शनीयाय
बालसूर्यनिभाय श्मशानवासिने भगवते उमापतये अरिन्दमाय
भगस्याक्षिपातिने पूष्णोर्दशननाशनाय कूरकर्तकाय पाशहस्ताय
प्रलयकालाय उल्कामुखायाग्निकेतवे मुनये दीप्ताय विशाम्पतये उन्नयते
जनकाय चतुर्थकाय लोक सत्तमाय वामदेवाय वाग्दाक्षिण्याय वामतो
भिक्षवे भिक्षुरूपिणे जटिने स्वयञ्जटिलाय शक्रहस्तप्रतिस्तम्भकाय
वसूनां स्तम्भाय क्रतवे क्रतुकराय कालाय मेधाविने मधुकराय चलाय
वानस्पत्याय वाजसनेति समाश्रमपूजिताय जगद्धात्रे जगत्कर्त्रे
पुरुषाय शाश्वताय ध्रुवाय धर्माध्यक्षाय त्रिवर्त्मने भूतभावनाय
त्रिनेत्राय बहुरूपाय सूर्यायुतसमप्रभाय देवाय सर्वतूर्यनिनादिने
सर्वबाधाविमोचनाय बन्धनाय सर्वधारिणे धर्म्मोत्तमाय पुष्पदन्तायाविभागाय
मुखाय सर्वहराय हिरण्यश्रवसे द्वारिणे भीमाय भीमपराक्रमाय ॐनमो नमः ॥
सनत्कुमार उवाच
इमं मन्त्रवरं जप्त्वा शुक्रो जठरपञ्जरात् ।
निष्क्रान्तो लिङ्‌गमार्गेण शम्भोः शुक्रमिवोत्कटम् ॥ १ ॥
गौर्या गृहीतः पुत्रार्थं विश्वेशेन ततः कृतः ।
अजरश्चामरः श्रीमान्द्वितीय इव शंकरः ॥ २ ॥
त्रिभिर्वर्षसहस्रैस्तु समतीतैर्महीतले ।
महेश्वरात्पुनर्जातः शुक्रो वेदनिधिर्मुनिः ॥ ३ ॥
ददर्श शूले संशुष्कं ध्यायन्तं परमेश्वरम् ।
अन्धकं धैर्यसपंपन्नं दानवेशं तपस्विनम् ॥ ४ ॥
महादेवं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
अमृतं शाश्वतं स्थाणुं नीलकण्ठं पिनाकिनम् ॥ ५ ॥
वृषभाक्षं महाज्ञेयं पुरुषं सर्वकामदम् ।
कामारिं कामदहनं कामरूपं कपर्दिनम् ॥ ६ ॥
विरूपं गिरिशं भीमं स्रग्विणं रक्तवाससम् ।
योगिनं कालदहनं त्रिपुरघ्नं कपालिनम् ॥ ७ ॥
गूढव्रतं गुप्तमन्त्रं गम्भीरं भावगोचरम् ।
अणिमादिगुणाधारं त्रिलोक्यैश्वर्यदायकम् ॥ ८ ॥
वीरं वीरहणं घोरं विरूपं मांसलं पटुम् ।
महामांसादमुन्मत्तं भैरवं वै महेश्वरम् ॥ ९ ॥
त्रैलोक्यद्रावणं लुब्धं लुब्धकं यज्ञसूदनम् ।
कृत्तिकानां सुतैर्युक्तमुन्मत्तं कृत्तिवाससम् ॥ १० ॥
गजकृत्तिपरीधानं क्षुब्धं भुजगभूषणम् ।
दद्यालम्बं च वेतालं घोरं शाकिनिपूजितम् ॥ ११ ॥
अघोरं घोरदैत्यघ्नं घोरघोषं वनस्पतिम् ।
भस्माङ्‌गं जटिलं शुद्धं भेरुण्डशतसेवितम् ॥ १२ ॥
भूतेश्वरं भूतनाथं पञ्चभूताश्रितं खगम् ।
क्रोधितं निष्ठुरं चण्डं चण्डीशं चण्डिकाप्रियम् ॥ १३ ॥
चण्डं तुङ्‌गं गरुत्मन्तं नित्यमासवभोजनम् ।
लेलिहानं महारौद्रं मृत्युं मृत्योरगोचरम् ॥ १४ ॥
मृत्योर्मृत्युं महासेनं श्मशानारण्यवासिनम् ।
रागं विरागं रागान्धं वीतरागशतार्चितम् ॥ १५ ॥
सत्त्वं रजस्तमोधर्ममधर्मं वासवानुजम् ।
सत्यं त्वसत्यं सद्‌रूपमसद्‌रूपमहेतुकम् ॥ १६ ॥
अर्द्धनारीश्वरं भानुं भानुकोटिशतप्रभम् ।
यज्ञं यज्ञपतिं रुद्रमीशानं वरदं शिवम् ॥ १७ ॥
अष्टोत्तरशतं ह्येतन्मूर्तीनां परमात्मनः ।
शिवस्य दानवो ध्यायन् मुक्तस्तस्मान्महाभयात् ॥ १८ ॥
दिव्येनामृतवर्षेण सोऽभिषिक्तः कपर्दिना ।
तुष्टेन मोचितं तस्माच्छूलाग्रादवरोपितः ॥ १९ ॥
उक्तश्चाथ महादैत्यो महेशानेन सोऽन्धकः ।
असुरःसान्त्वपूर्वं यत्कृतं सर्वं महात्मना ॥ २० ॥
ईश्वर उवाच
भो भो दैत्येन्द्र तुष्टोऽस्मि दमेन नियमेन च ।
शौर्येण तव धैर्येण वरं वरय सुव्रत ॥ २१ ॥
आराधितस्त्वया नित्यं सर्वनिर्धूतकल्मषः ।
वरदोऽहं वरार्हस्त्वं महादैत्येन्द्रसत्तम ॥ २२ ॥
प्राणसन्धारणादस्ति यच्च पुण्यफलं तव ।
त्रिभिर्वर्षसहस्रैस्तु तेनास्तु तव निर्वृतिः ॥ २३ ॥
सनत्कुमार उवाच
एतच्छ्रुत्वान्धकः प्राह वेपमानः कृताञ्जलिः ।
भूमौ जानुद्वयं कृत्वा भगवन्तमुमापतिम् ॥ २४ ॥
अन्धक उवाच
भगवन्यन्मयोक्तोऽसि दीनोदीनः परात्परः ।
हर्षगद्‌गदया वाचा मया पूर्वं रणाजिरे ॥ २५ ॥
यद्यत्कृतं विमूढत्वात्कर्म लोकेषु गर्हितम् ।
अजानता त्वां तत्सर्वं प्रभो मनसि मा कृथाः ॥ २६ ॥
पार्वत्यामपि दुष्टं यत्कामदोषात्कृतं मया ।
क्षम्यतां मे महादेव कृपणो दुःखितो भृशम् ॥ २७ ॥
दुःखितस्य दया कार्या कृपणस्य विशेषतः ।
दीनस्य भक्तियुक्तस्य भवता नित्यमेव हि ॥ २८ ॥
सोहं दीनो भक्तियुक्त आगतः शरणं तव ।
रक्षा मयि विधातव्या रचितोऽयं मयाञ्जलिः ॥ २९ ॥
इयं देवी जगन्माता परितुष्टा ममोपरि ।
क्रोधं विहाय सकलं प्रसन्ना मां निरीक्षताम् ॥ ३० ॥
क्वास्याः क्रोधः क्व कृपणो दैत्योऽहं चन्द्रशेखर ।
तत्सोढा नाहमर्द्धेन्दुचूड शम्भो महेश्वर ॥ ३१ ॥
क्व भवान्परमोदारः क्व चाहं विवशीकृतः ।
कामक्रोधादिभिर्दोषैर्जरसा मृत्युना तथा ॥ ३२ ॥
अयं ते वीरकः पुत्रो युद्धशौण्डो महाबलः ।
कृपणं मां समालक्ष्य मा मन्युवशमन्वगाः ॥ ३३ ॥
तुषारहारशीतांशुशङ्‌खकुन्देन्दुवर्ण भाक् ।
पश्येयं पार्वतीं नित्यं मातरं गुरुगौरवात् ॥ ३४ ॥
नित्यं भवद्‌भ्यां भक्तस्तु निर्वैरो दैवतैः सह ।
निवसेयं गणैःसार्द्धं शान्तात्मा योगचिन्तकः ॥ ३५ ॥
मा स्मरेयं पुनर्जातं विरुद्धं दानवोद्‌भवम् ।
त्वत्कृपातो महेशान देह्येतद्वरमुत्तमम् ॥ ३६ ॥
सनत्कुमार उवाच
एतावदुक्त्वा वचनं दैत्येन्द्रो मौनमास्थितः ।
ध्यायंस्त्रिलोचनं देवं पार्वतीं प्रेक्ष्य मातरम् ॥ ३७ ॥
ततो दृष्टस्तु रुद्रेण प्रसन्नेनैव चक्षुषा ।
स्मृतवान्पूर्ववृत्तान्तमात्मनो जन्म चाद्‌भुतम् ॥ ३८ ॥
तस्मिन्स्मृते च वृत्तान्ते ततः पूर्णमनोरथः ।
प्रणम्य मातापितरौ कृतकृत्योऽभवत्ततः ॥ ३९ ॥
पार्वत्या मूर्ध्न्युपाघ्रातः शंकरेण च धीमता ।
तथाऽभिलषितं लेभे तुष्टाद्‌ बालेन्दुशेखरात् ॥ ४ ० ॥
एतद्वः सर्वमाख्यातमन्धकस्य पुरातनम् ।
गाणपत्यं महादेवप्रसादात्परसौख्यदम् ॥ ४१ ॥
मृत्युञ्जयश्च कथितो मन्त्रो मृत्युविनाशनः ।
पठितव्यः प्रयत्नेन सर्वकामफलप्रदः ॥ ४२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
अन्धकगण जीवितप्राप्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP