॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

त्रयस्त्रिंशोऽध्यायः


शङ्खचूडवधे महादेवयुद्धयात्रावर्णनम्


सनत्कुमार उवाच
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १ ॥
रुद्र उवाच
हे वीरभद्र हे नन्दिन् क्षेत्रपालष्टभैरवाः ।
सर्वे गणाश्च सन्नद्धाः सायुधा बलशालिनः ॥ २ ॥
कुमाराभ्यां सहैवाद्य निर्गच्छन्तु ममाज्ञया ।
स्वसेनया भद्रकाली निर्गच्छतु रणाय च ॥
शङ्‌खचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ३ ॥
सनत्कुमार उवाच
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।
सर्वे वीरगणास्तस्यानुययुःसम्प्रहर्षिताः ॥ ४ ॥
एतस्मिन्नन्तरे स्कन्दगणेशौ सर्वसैन्यपौ ।
यततुर्मुदितौ नद्धौ सायुधौ च शिवान्तिके ॥ ५ ॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।
विशालाक्षश्च बाणश्च पिङ्‌गलाक्षो विकम्पनः ॥ ६ ॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७ ॥
कालङ्‌करो बलीभद्रः कालजिह्वः कुटीचरः ।
बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८ ॥
इत्यादयो गणेशानाःसैन्यानां पतयो वराः ।
तेषां च गणनां वच्मि सावधानतया शृणु ॥ ९ ॥
शङ्‌खकर्णः कोटिगणैर्युतः परविमर्दकः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १० ॥
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वान्तकः श्रीमांस्तथैव विकृताननः ॥ ११ ॥
जालको हि द्वादशभिः कोटिभिर्गणपुङ्‌गवः ।
सप्तभिः समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
पञ्चभिश्च करालाक्षः षड्भिः सन्दारको वरः ।
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ १३ ॥
विष्टम्भोऽष्टाभिरेवेह गणपः सर्वसत्तमः ।
पिप्पलश्च सहस्रेण संनादश्च तथाविधः ॥ १४ ॥
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५ ॥
कुण्डी द्वादशभिर्वीरस्तथा पर्वतकः शुभः ।
कालश्च कालकश्चैव महाकालः शतेन वै ॥ १६ ॥
अग्निकः शतकोट्या च कोट्याग्निमुख एव च ।
आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ॥ १७ ॥
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।
अमोघः कोकिलश्चैव शतकोट्या सुमन्त्रकः ॥ १८ ॥
काकपादः कोटिषष्ट्या षष्ट्या सन्तानकस्तथा ।
महाबलश्च नवभिः पञ्चभिर्मधुपिङ्‌गल ॥ १९ ॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २० ॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।
तत्राजग्मुस्तथा वीरास्ते सर्वे सङ्‌गरोत्सवे ॥ २१ ॥
भूतकोटिसहस्रेण प्रमथैर्कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या लोमजानां त्रिकोटिभिः ॥ २२ ॥
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ॥ २३ ॥
तालकेतुः षडास्यश्च पञ्चास्यश्च प्रतापवान् ।
संवर्तकस्तथा चैत्रो लङ्‌कुलीशः स्वयं प्रभुः ॥ २४ ॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः ।
देवो भृङ्‌गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५ ॥
अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः ।
कङ्‌कालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६ ॥
एते चान्ये च गणपा असङ्‌ख्याता महाबलाः ।
युद्धार्थं निर्ययुः प्रीत्या शङ्‌खचूडेन निर्भयाः ॥ २७ ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८ ॥
रुद्राक्षाभरणाःसर्वे तथा सद्‌भस्मधारिणः ।
हारकुण्डलकेयूरमुकुटाद्यैरलङ्‌कृताः ॥ २९ ॥
ब्रह्मेन्द्रविष्णुसङ्‌काशा अणिमादिगुणैर्वृताः ।
सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥ ३० ॥
पृथिवीचारिणः केचित्केचित्पातालचारिणः ।
केचिद् व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१ ॥
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।
ययुः शिवगणाः सर्वे युद्धार्थं दानवैःसह ॥ ३२ ॥
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये ।
वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम् ॥ ३३ ॥
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।
कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ॥ ३४ ॥
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ।
ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥ ३१ ॥
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ।
स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥ ३६ ॥
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७ ॥
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।
अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा ॥ ३८ ॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।
शङ्‌खचक्रगदापद्मखड्गचर्मधनुः शरान् ॥ ३९ ॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ॥ ४० ॥
मुद्‌गरं मुसलं वक्त्रं खड्गं फलकमुल्बणम् ।
वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥ ४१ ॥
नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा ।
पार्जन्यं च पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२ ॥
महावीरं च सौरं च कालकालं महानलम् ।
महेश्वरास्त्रं याम्यं च दण्डं संमोहनं तथा ॥ ४३ ॥
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् ।
बिभ्रती च करैः सर्वैरन्यान्यपि च सा तदा ॥ ४४ ॥
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ।
सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥ ४५ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥ ४६ ॥
तश्चैवाभिवृतः स्कन्दः प्रणम्य चन्द्रशेखरम् ।
पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥ ४७ ॥
अथ शम्भुः समानीय स्वसैन्यं सकलं तदा ।
युद्धार्थमगमद्‌ रुद्रः शंङ्खचूडेन निर्भयः ॥ ४८ ॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवनिस्तारहेतवे ॥ ४९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP