॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकोनत्रिंशोऽध्यायः


शङ्‌खचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनम्


सनत्कुमार उवाच
स्वगेहमागते तस्मिन् शङ्‌खचूडे विवाहिते ।
तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ॥ १ ॥
स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः ।
सर्वे सुराः संमिलिताः समाजग्मुस्तदन्तिकम् ॥ २ ॥
प्रणम्य तं सविनयं संस्तुत्य विविधादरात् ।
स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम् ॥ ३ ॥
सोपि दम्भात्मजो दृष्ट्‍वाऽऽगतं कुल गुरुं च तम् ।
प्रणनाम महाभक्त्या साष्टाङ्‌गं परमादरात् ॥ ४ ॥
अथ शुक्रः कुलाचार्यो दृष्ट्‍वाशिषमनुत्तमम् ।
वृत्तान्तं कथयामास देवदानवयोस्तदा ॥ ५ ॥
स्वाभाविकं च तद्वैरमसुराणां पराभवम् ।
विजयं निर्जराणां च जीवसाहाय्यमेव च ॥ ६ ॥
ततः स सम्मतं कृत्वाऽसुरैःसर्वैः समुत्सवम् ।
दानवाद्यसुराणां तमधिपं विदधे गुरुः ॥ ७ ॥
तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् ।
उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ॥ ६ ॥
अथ दम्भात्मजो वीरः शङ्‌खचूडः प्रतापवान् ।
राज्याभिषेकमासाद्य स रेजे सुरराट् तदा ॥ ९ ॥
स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् ।
रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ॥ १० ॥
गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् ।
विरेजे शशिवद्‌भानां ग्रहाणां ग्रहराडिव ॥ ११ ॥
आगच्छन्तं शङ्खचूडमाकर्ण्याखण्डलः स्वराट् ।
निखिलैरमरैःसार्द्धं तेन योद्धुं समुद्यतः ॥ १२ ॥
तदाऽसुरैःसुराणां च सङ्‌ग्रामस्तुमुलो ह्यभूत् ।
वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ॥ १३ ॥
महान्कोलाहलो जातो वीराणां गर्जतां रणे ।
वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ॥ १४ ॥
देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः ।
पराजयं च सम्प्रापुरसुरा दुद्रुवुर्भयात् ॥ १५ ॥
पलायमानास्तान्दृष्ट्‍वा शङ्‌खचूडः स्वयं प्रभुः ।
युयुधे निर्जरैःसाकं सिंहनादं प्रगर्ज्य च ॥ १६ ॥
तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् ।
प्रदुद्रुवुः सुराः सर्वे तत्सुतेजो न सेहिरे ॥ १७ ॥
यत्र तत्र स्थिता दीना गिरीणां कन्दरासु च ।
तदधीना न स्वतन्त्रा निष्प्रभाः सागरा यथा ॥ १८ ॥
सोपि दम्भात्मजः शूरो दानवेन्द्रः प्रतापवान् ।
सुराधिकारान्सञ्जह्रे सर्वाँल्लोकान्विजित्य च ॥ १९ ॥
त्रैलोक्यं स्ववशञ्चक्रे यज्ञभागांश्च कृत्स्नशः ।
स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ॥ २० ॥
कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च ।
कारयामास वायव्यमधिकारं स्वशक्तितः ॥ २१ ॥
देवानामसुराणां च दानवानां च रक्षसाम् ।
गन्धर्वाणां च नागानां किन्नराणां रसौकसाम् ॥ २२ ॥
त्रिलोकस्य परेषां च सकलानामधीश्वरः ।
स बभूव महावीरः शङ्‌खचूडो महाबली ॥ २३ ॥
एवं स बुभुजे राज्यं राजराजेश्वरो महान् ।
सर्वेषां भुवनानां च शङ्‌खचूडश्चिरं समाः ॥ २४ ॥
तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः ।
आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ॥ २५ ॥
अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः ।
ओषध्यो विविधाश्चासन्सफलाःसरसाः सदा ॥ २६ ॥
मण्याकराश्च नितरां रत्नखन्यश्च सागराः ।
सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः ॥ २७ ॥
देवान् विनाखिला जीवाः सुखिनो निर्विकारकाः ।
स्वस्वधर्मा स्थिताः सर्वे चतुर्वर्णाश्रमाः परे ॥ २८ ॥
तस्मिन् शासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् ।
भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः ॥ २९ ॥
स शङ्‌खचूडः प्रबलः कृष्णस्य परमः सखा ।
कृष्णभक्तिरतः साधुः सदा गोलोकवासिनः ॥ ३० ॥
पूर्वशापप्रभावेण दानवीं योनिमाश्रितः ।
न दानवमतिःसोभूद्दानवत्वेऽपि वै मुने ॥ ३१ ॥
ततः सुरगणाः सर्वे हृतराज्या पराजिताः ।
संमन्त्र्य सर्षयस्तात प्रययुर्ब्रह्मणःसभाम् ॥ ३२ ॥
तत्र दृष्ट्‍वा विधातारं नत्वा स्तुत्वा विशेषतः ।
ब्रह्मणे कथयामासुः सर्वं वृत्तान्तमाकुलाः ॥ ३३ ॥
ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि ।
तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ॥ ३४ ॥
ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैःसह ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ३५ ॥
शङ्‌खचक्रगदापद्मधरं देवं चतुर्भुजम् ।
सनन्दनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ॥ ३६ ॥
दृष्ट्‍वा विष्णुं सुराःसर्वे ब्रह्माद्याः समुनीश्वराः ।
प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ॥ ३७ ॥
देवा ऊचु
देवदेव जगन्नाथ वैकुण्ठाधिपते प्रभो ।
रक्षास्मान् शरणापन्नान् श्रीहरे त्रिजगद्‌गुरो ॥ ३८ ॥
त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो ।
लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ॥ ३९ ॥
इति स्तुत्वा सुराः सर्वे रुरुदुः पुरतो हरेः ।
तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥ ४० ॥
विष्णुरुवाच
किमर्थमागतोसि त्वं वैकुण्ठं योगिदुर्लभम् ।
किं कष्टं ते समुद्‌भूतं तत्त्वं वद ममाग्रतः ॥ ४१ ॥
सनत्कुमार उवाच
इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः ।
बद्धाञ्जलिपुटो भूत्वा विनयानतकन्धरः ॥ ४२ ॥
वृत्तान्तं कथयामास शङ्‌खचूडकृतं तदा ।
देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ॥ ४३ ॥
हरिस्तद्वचनं श्रुत्वा सर्वतः सर्वभाववित् ।
प्रहस्योवाच भगवांस्तद्‍रहस्यं विधिं प्रति ॥ ४४ ॥
श्रीभगवानुवाच
शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्‌भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ४५ ॥ ।
शृणुतःसर्ववृत्तान्तमितिहासं पुरातनम् ।
सन्देहो नैव कर्तव्यः शं करिष्यति शङ्करः ॥ ४६ ॥
सर्वोपरि च यस्यास्ति शिवलोकः परात्परः ।
यत्र संराजते शम्भुः परब्रह्म परेश्वरः ॥ ४७ ॥
प्रकृतेः पुरुषस्यापि योऽधिष्ठाता त्रिशक्तिधृक् ।
निर्गुणःसगुणःसोपि परं ज्योतिः स्वरूपवान् ॥ ४८ ॥
यस्याङ्‌गजास्तु वै ब्रह्मंस्त्रयःसृष्ट्यादिकारकाः ।
सत्त्वादिगुणसम्पन्ना विष्णुब्रह्महराभिधाः ॥ ४९ ॥
स एव परमात्मा हि विहरत्युमया सह ।
यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ॥ ५० ॥
तत्समीपे च गोलोको गोशाला शंकरस्य वै ।
तस्येच्छया च मद्‌रूपः कृष्णो वसति तत्र ह ॥ ५१ ॥
तद्‌गवां रक्षणार्थाय तेनाज्ञप्तः सदा सुखी ।
तत्सम्प्राप्तसुखः सोऽपि सङ्‌क्रीडति विहारवित् ॥ ५२ ॥
तस्य नारी समाख्याता राधेति जगदम्बिका ।
प्रकृतेः परमा मूर्तिः पञ्चमी सुविहारिणी ॥ ५३ ॥
बहुगोपाश्च गोप्यश्च तत्र सन्ति तदङ्‌गजाः ।
सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ॥ ५४ ॥
स एव लीलया शम्भोरिदानीं मोहितोऽनया ।
सम्प्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ॥ ५५ ॥
रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा ।
ततःस्वदेहमुत्सृज्य पार्षदः स भविष्यति ॥ ५६ ॥
इति विज्ञाय देवेश न भयं कर्तुमर्हसि ।
शंकर शरणं यावःस सद्यः शं विधास्यति ॥ ५७ ॥
अहं त्वं चामराःसर्वे तिष्ठन्तीह विसाध्वसाः ॥ ५८ ॥
सनत्कुमार उवाच
इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह ।
संस्मरन्मनसा शम्भुं सर्वेशं भक्तवत्सलम् ॥ ५९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे शङ्‌खचूडवधोपाख्याने
शङ्‌खचूडराज्यकरणवर्णनपूर्वक
तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP