![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
चतुश्चत्वारिंशोऽध्यायः
मेनाप्रबोधवर्णनम्
ब्रह्मोवाच
सञ्ज्ञां लब्धा ततःसा च मेना शैलप्रिया सती । विललापातिसङ्क्षुब्धा तिरस्कारमथाकरोत् ॥ १ ॥ तत्र तावत्स्वपुत्रांश्च निनिन्द स्खलिता मुहुः । प्रथमं सा ततः पुत्री कथयामास दुर्वचः ॥ २ ॥ मेनोवाच मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् । पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३ ॥ ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् । मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४ ॥ पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् । तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५ ॥ किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् । कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६ ॥ क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् । तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७ ॥ केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना । इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८ ॥ किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम । हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९ ॥ हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया । हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ १० ॥ हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया । सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११ ॥ तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् । प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२ ॥ सिंहसेवां तथा मुक्त्वा शृगालः सेवितस्त्वया । ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३ ॥ गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् । गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम् ॥ १४ ॥ सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् । कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५ ॥ धिक्त्वां च तव बुद्धिं च धिग्रूपं चरितं तव । धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा ॥ १६ ॥ आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ । धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च कुबुद्धिदान् ॥ १७ ॥ धिक्कुलं धिक् क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया । गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८ ॥ पर्वतानामयं राजा नायातु निकटे मम । सप्तर्षयःस्वयं नैव दर्शयन्तु मुखं मम ॥ १९ ॥ साधितं किं च सर्वैस्तु मिलित्वा घातितं कुलम् । वन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ २० ॥ अथो न वा मृता चाहं पुत्रिका न मृता कथम् । राक्षसाद्यैः कथं नो वा भक्षिता गगने पुनः ॥ २१ ॥ छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः । त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२ ॥ ब्रह्मोवाच इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता । व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥ २३ ॥ हाहाकारो महानासीत्तस्मिन्काले मुनीश्वर । सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४ ॥ पुरा देवमुने चाहमागतस्तु स्वयं तदा । मां दृष्ट्वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम ॥ २५ ॥ नारद उवाच यथार्थं सुन्दरं रूपं ना ज्ञातं ते शिवस्य वै । लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ २६ ॥ तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते । कार्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७ ॥ ब्रह्मोवाच तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् । उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान् ॥ २८ ॥ इत्युक्ते तु तया देवा इन्द्राद्याः सकलाः क्रमात् । समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥ २९ ॥ देवा ऊचुः हे मेने पितृकन्ये हि शृण्वस्मद्वचनं मुदा । अयं वै परमः साक्षाच्छिवः परसुखावहः ॥ ३० ॥ कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुःसहम् । दर्शनं दत्तवाञ्छम्भुर्वरं सद्भक्तवत्सलः ॥ ३१ ॥ ब्रह्मोवाच अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः । न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥ ३२ ॥ किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः । रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः ॥ ३३ ॥ इत्युक्ते च तया तत्र ऋषयःसप्त एव हि । ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥ ३४ ॥ सप्तर्षयः ऊचुः कार्यं साधयितुं प्राप्ताः पितृकन्ये गिरिप्रिये । विरुद्धं चात्र उक्तार्थे कथं मन्यामहे वयम् ॥ ३५ ॥ ब्रह्मोवाच अयं वै परमो लाभो दर्शनं शंकरस्य यत् । दानपात्रं स ते भूत्वागतस्तव च मन्दिरम् ॥ ३६ ॥ ब्रह्मोवाच इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् । प्रत्युवाच च रुष्टा सा तानृषीन् ज्ञानदुर्बला ॥ ३७ ॥ मेनोवाच शस्त्राद्यैर्घातयिष्येऽहं न हास्ये शंकराय ताम् । दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥ ३८ ॥ ब्रह्मोवाच इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला । हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥ ३९ ॥ ततो हिमालयस्तत्राजगामातिसमाकुलः । ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वं च दर्शयन् ॥ ४० ॥ हिमालय उवाच शृणु मेने वचो मेऽद्य विकलाऽसि कथं प्रिये । के के समागता गेहं कथं चैतान्विनिन्दसि ॥ ४१ ॥ शंकरं त्वं च जानासि रूपं दृष्ट्वासि विह्वला । विकटं तस्य शम्भोस्तु नानारूपाभिधस्य हि ॥ ४२ ॥ स शंकरो मया ज्ञातः सर्वेषां प्रतिपालकः । पूज्यानां पूज्य एवासौ कर्तानुग्रहनिशौं ॥ ४३ ॥ हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे । उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥ ४४ ॥ यद्वै द्वारगतः शम्भुः पुरा विकटरूपधृक् । नानालीलां च कृतवान् चेतयामि च तामिमाम् ॥ ४५ ॥ तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया । अङ्गीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये ॥ ४६ ॥ ब्रह्मोवाच इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने । तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥ ४७ ॥ मेनोवाच मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि । गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८ ॥ अधः पातय निःशङ्कं दास्ये तां न हराय हि । तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९ ॥ निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव । यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ॥ तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् । ५० ॥ ब्रह्मोवाच इत्युक्ते च तदा तत्र वचने मेनया हठात् । उवाच वचनं रम्यं पार्वती स्वयमागता ॥ ५१ ॥
पार्वत्युवाच मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा । धर्मावलम्बनात्त्वं हि कथं धर्मं जहासि वै ॥ ५२ ॥ अयं रुद्रोऽपरः साक्षात्सर्वप्रभव ईश्वरः । शम्भुः सुरूपः सुखदः सर्वश्रुतिषु वर्णितः । ५३ ॥ महेशः शंकरश्चायं सर्वदेवप्रभुः स्वराट् । नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः ॥ ५४ ॥ अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः । निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥ ५५ ॥ यदर्थे देवताः सर्वा आयाता किङ्करीकृताः । द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥ ५६ ॥ उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु । देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् । ५७ ॥ देहि मां परमेशाय शंकराय जनन्यहो । स्वीकुरु त्वमिमं मातर्विनयं मे ब्रवीमि ते ॥ ५८ ॥ चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् । भागं लभेत्कथं सैंहं शृगालः परवञ्चकः ॥ ५९ ॥ मनसा वचसा मातः कर्मणा च हरः स्वयम् । मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥ ६० ॥ ब्रह्मोवाच इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया । सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥ ६१ ॥ मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा । ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥ ६२ ॥ ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने । तद्धस्तात्तां परिच्छिद्य नित्युर्दूरतरं ततः ॥ ६३ ॥ तान्वै तथा विधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः । उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः ॥ ६४ ॥ मेनोवाच किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् । दास्याम्यस्यै गरं तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५ ॥ छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः । निमज्जयिष्ये वा सिन्धौ स्वसुतां पार्वतीं खलु ॥ ६६ ॥ अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् । न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥ ६७ ॥ वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया । कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥ ६८ ॥ न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि । नो सुरूपं न चातुर्यं न गुहं वास्य किञ्चन ॥ ६९ ॥ न वस्त्रं नाप्यलङ्काराः सहायाः केऽपि तस्य न । वाहनं न शुभं ह्यस्य न वयो न धनं तथा ॥ ७० ॥ न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः । किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला ॥ ७१ ॥ ब्रह्मोवाच इत्यादि सुविलप्याथ बहुशो मेनका तदा । रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥ ७२ ॥ अथाहं द्रुतमागत्याकथयं मेनकां च ताम् । शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥ ७३ ॥ ब्रह्मोवाच श्रोतव्यं प्रीतितो मेने मदीयं वचनं शुभम् । यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥ ७४ ॥ शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च । न त्वं जानासि तद्रूपं कथं दुःखं समीहसे ॥ ७५ ॥ अनेकरूपनामा च नाना लीलाकरः प्रभुः । सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥ ७६ ॥ इति विज्ञाय मेने त्वं शिवां देहि शिवाय वै । कुहठं त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥ ७७ ॥ ब्रह्मोवाच इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः । लज्जां किञ्चिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥ ७८ ॥ मेनोवाच किमर्थं तु भवान्ब्रह्मन् रूपमस्य महावरम् । व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥ ७९ ॥ न वक्तव्यं च भवता शिवाय प्रतिदीयताम् । न दास्येऽहं शिवायैनां स्वसुता प्राणवल्लभाम् ॥ ८० ॥ ब्रह्मोवाच इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने । समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥ ८१ ॥ सिद्धा ऊचुः अयं वै परमःसाक्षाच्छिवः परसुखावहः । कृपया च भवत्पुत्र्यै दर्शनं दत्तवान्प्रभुः ॥ ८२ ॥ ब्रह्मोवाच अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः । न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥ ८३ ॥ किमर्थं तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः । रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः ॥ ८४ ॥ इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् । सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः ॥ ८५ ॥ एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् । द्रुतं शिवप्रियो विष्णुः समागत्याऽब्रवीदिदम् ॥ ८६ ॥ विष्णुरुवाच पितॄणां च प्रिया पुत्री मानसी गुणसंयुता । पत्नी हिमवतःसाक्षाद्ब्रह्मणः कुलमुत्तमम् ॥ ८७ ॥ सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् । धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥ ८८ ॥ देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा । विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥ ८९ ॥ शिवत्वं न च जानासि निर्गुण सगुणः स हि । विरूपः स सुरूपो हि सर्वसेव्यः सतां गतिः ॥ ९० ॥ तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी । तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१ ॥ ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः । अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥ ९२ ॥ ततो वेदास्तथा देवा यत्किञ्चिद्दृश्यते जगत् । स्थावरं जङ्गमं चैव तत्सर्वं शकरादभूत् ॥ ९३ ॥ तद्रूपं वर्णितं केन ज्ञायते केन वा पुनः । मया च ब्रह्मणा यस्य ह्यन्तो लब्धश्च नैव हि ॥ ९४ ॥ आब्रह्मस्तम्बपर्यन्तं यत्किञ्चिद् दृश्यते जगत् । तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥ ९५ ॥ स एवेदृक्सुरूपेणावतीर्णो निजलीलया । शिवातपःप्रभावाद्धि तव द्वारि समागतः ॥ ९६ ॥ तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवं भज । भविष्यति महानन्दः क्लेशो यास्यति सङ्क्षयम् ॥ ९७ ॥ ब्रह्मोवाच एवं प्रबोधितायास्तु मेनकाया अभून्मुने । तस्यास्तु कोमलं किञ्चिन्मनो विष्णुप्रबोधितम् ॥ ९८ ॥ परं हठं न तत्याज कन्यान्दातुं हराय न । स्वीचकार तदा मेना शिवमायाविमोहिता ॥ ९९ ॥ उवाच च हरिं मेना किञ्चिद्बुद्ध्वा गिरिप्रिया । श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा ॥ १०० ॥ यदि रम्यतनुः सः स्यात्तदा देया मया सुता । नान्यथा कोटिशो यत्नैर्वच्मि सत्यं दृढं वचः ॥ १०१ ॥ ब्रह्मोवाच इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता । शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥ १०२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ श्रीगौरीशंकरार्पणमस्तु |