॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चत्रिंशोऽध्यायः

पद्मापिप्पलादचरितवर्णनम्


नारद उवाच
अनरण्यस्य चरितं सुतादानसमन्वितम् ।
श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १ ॥
ब्रह्मोवाच
अनरण्यस्य चरितं कन्यादानसमन्वितम् ।
श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः ॥ २ ॥
शैलेश उवाच
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।
अनरण्यचरित्रन्ते कथितं परमाद्‌भुतम् ॥ ३ ॥
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।
सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम् ॥ ४ ॥
वसिष्ठ उवाच
पिप्पलादो मुनिवरो वयसा जर्जरोऽधिकः ।
गत्वा निजाश्रमं नार्यानरण्यसुतया तया ॥ ५ ॥
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः ।
तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत् ॥ ६ ॥
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।
कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ॥ ७ ॥
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।
ददर्श पथि धर्मश्च मायया नृपरूपधृक् ॥ ८ ॥
चारुरत्नरथस्थश्च नानालंकारभूषितः ।
नवीनयौवनःश्रीमान्कामदेवसभप्रभः ॥ ९ ॥
दृष्ट्‍वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।
विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ १० ॥
धर्म उवाच
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।
अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११ ॥
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।
सत्यं वदामि तन्वङ्‌गि समीपे नैव राजसे ॥ १२ ॥
विप्रं तपःसु निरतं निर्घृणं मरणोन्मुखम् ।
त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३ ॥
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्यं पूर्वजन्मनः ।
सफलं तद्‌भवेत्सर्वं रसिकालिङ्‌गनेन च ॥ १४ ॥
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।
किङ्‌करं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५ ॥
निर्जने कानने रम्ये शैले शैले नदीतटे ।
विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ॥ १६ ॥
वसिष्ठ उवाच
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।
ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७ ॥
पद्मोवाच
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।
मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८ ॥
पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ।
त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९ ॥
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।
स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ २० ॥
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।
निन्दन्ति पितरो देवा मानवाः सकलाश्च तम् ॥ २१ ॥
तस्य किं ज्ञान सुतपोजपहोमप्रपूजनैः ।
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२ ॥
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।
भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३ ॥
वसिष्ठ उवाच
श्रुत्वा धर्मः सतीशापं नृप मूर्तिं विहाय च ।
धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४ ॥
धर्म उवाच
मातर्जानीहि मां धर्मं ज्ञानिनां च गुरोर्गुरुम् ।
परस्त्रीमातृबुद्धिं च कुर्वन्तं सततं सति ॥ २५ ॥
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।
तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६ ॥
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७ ॥
स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ।
सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ॥ २८ ॥
शत्रुं मित्रं संविधातुं प्रीतिञ्च कलहं क्षमः ।
स्रष्टुं नष्टुं च यःसृष्टिं नमस्तस्मै शिवाय हि ॥ २९ ॥
येन शुक्लीकृतं क्षीरं जले शैत्यं कृतं पुरा ।
दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि ॥ ३० ॥
प्रकृतिर्निर्मिता येन तत्त्वानि महदादितः ।
ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ॥ ३१ ॥
ब्रह्मोवाच
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्‌गुरुः ।
किञ्चिन्नोवाच चकितस्तत्पातिव्रत्यतोषितः ॥ ३२ ॥
पद्मापि नृपकन्या सा पिप्पलादप्रिया तदा ।
साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत ॥ ३३ ॥
पद्मोवाच
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम् ।
कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ॥ ३४ ॥
यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ।
त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावाद् वृथा वृष ॥ ३५ ॥
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ।
चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै ॥ ३६ ॥
आकाशोसौ दिशःसर्वा यदि नश्यन्तु वायवः ।
तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३७ ॥
सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ।
विराजसे देवराज सर्वकालं दिवानिशम् ॥ ३८ ॥
त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ।
इति कर्तव्यतामूढा वृथापि च वदाम्यहम् ॥ ३९ ॥
पादक्षयश्च भविता त्रेतायां च सुरोत्तम ।
पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो ॥ ४० ॥
कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवाङ्‌घ्रयः ।
पुनःसत्ये समायाते परिपूर्णो भविष्यसि ॥ ४१ ॥
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ।
युगव्यवस्थया स त्वं भविष्यसि तथा तथा ॥ ४२ ॥
इत्येवं वचनं सत्यं ममास्तु सुखदं तव ।
याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ॥ ४३ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्याः सन्तुष्टोभूद् वृषः स वै ।
तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ॥ ४४ ॥
धर्म उवाच
धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ।
वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ॥ ४५ ॥
युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ।
रूपवान् गुणवान्वाग्मी सन्ततस्थिरयौवनः ॥ ४६ ॥
चिरञ्जीवी स भवतु मार्कण्डेयात्परः शुभे ।
कुबेराद्धनवाँश्चैव शक्रादैश्वर्यवानपि ॥ ४७ ॥
शिवभक्तो हरिसमः सिद्धस्तु कपिलात्परः ।
बुद्ध्या बृहस्पतिसमः समत्वेन विधेः समः ॥ ४८ ॥
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।
तथा च सुभगे देवि त्वं भव स्थिरयौवना ॥ ४९ ॥
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।
स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ ५० ॥
गृहा भवन्तु ते साध्वि सर्वसम्पत्समन्विताः ।
प्रकाशवन्तः सततं कुबेरभवनाधिकाः ॥ ५१ ॥
वसिष्ठ उवाच
इत्येवमुक्ता सन्तस्थौ धर्मः स गिरिसत्तम ।
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ ५२ ॥
धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ।
प्रशशंस च तां प्रीत्या पद्मां संसदि संसदि ॥ ५३ ॥
सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ।
पश्चाद्‌बभूवु सत्पुत्रास्तद्‌भर्तुरधिका गुणैः ॥ ५४ ॥
बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ।
सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ॥ ५५ ॥
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।
दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ॥ ५६ ॥
बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ।
कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ॥ ५७ ॥
सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ।
लग्नाधिपे च लग्नस्थे चन्द्रे स्वत्नयान्विते ॥ ५८ ॥
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।
मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ॥ ५९ ॥
सर्वसद्‌ग्रहसंसृष्टऽसद्‌ग्रहदृष्टिवर्जिते ।
सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ॥ ६० ॥
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।
कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ॥ ६१ ॥
ब्रह्मोवाच
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ।
विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ॥ ६२ ॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP