॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

अष्टाविंशोऽध्यायः

पार्वत्याः शिवरूपदर्शनम्


पार्वत्युवाच
एतावद्धि मया ज्ञातं कश्चिदन्योऽयमागतः ।
इदानीं सकलं ज्ञातमवध्यस्त्वं विशेषतः ॥ १ ॥
त्वयोक्तं विदितं देव तदलीकं न चान्यथा ।
यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया ॥ २ ॥
कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ।
स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः ॥ ३ ॥
ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः ।
आगतश्छलसंयुक्तं वचोऽवादीः कुयुक्तितः। ॥ ४ ॥
शंकरस्य स्वरूपं तु जानामि सुविशेषतः ।
शिवतत्त्वमतो वच्मि सुविचार्य यथार्हतः ॥ ५ ॥
वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ।
कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ॥ ६ ॥
स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ।
किं तस्य विद्यया कार्यं पूर्णस्य परमात्मनः ॥ ७ ॥
वेदा उच्छ्‍वासरूपेण पुरा दत्ताश्च विष्णवे ।
शम्भुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ॥ ८ ॥
सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ।
प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ॥ ९ ॥
ये भजन्ति च तं प्रीत्या शक्तीशं शंकरं सदा ।
तस्मै शक्तित्रयं शम्भुः स ददाति सदाव्ययम् ॥ १० ॥
तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ।
तस्मान्मृत्युञ्जयन्नाम प्रसिद्धं भुवनत्रये ॥ ११ ॥
तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ।
ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ॥ १२ ॥
दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट् ।
भूतादयस्तत्परस्य द्वारपालाः शिवस्य तु ॥ १३ ॥
दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ।
किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ॥ १४ ॥
कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् ।
किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः ॥ १५ ॥
सप्तजन्मदरिद्रः स्यात्सेवेद्यो यदि शंकरम् ।
तस्यैतत्सेवनाल्लोको लक्ष्मीः स्यादनपायिनी ॥ १६ ॥
यदग्रे सिद्धयोऽष्टौ च नित्यं नृत्यन्ति तोषितुम् ।
अवाङ्मुखाः सदा तत्र तद्धितं दुर्ल्लभं कुतः ॥ १७ ॥
यद्यस्य मङ्‌गालानीह सेवते शंकरस्य न ।
यथापि मंगलन्तस्य स्मरणादेव जायते ॥ १८ ॥
यस्य पूजाप्रभावेण कामाःसिद्ध्यन्ति सर्वशः ।
कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ॥ १९ ॥
शिवेति मंगलन्नाम मुखे यस्य निरन्तरम् ।
तस्यैव दर्शनादन्ये पवित्राः सन्ति सर्वदा ॥ २० ॥
यद्यपूतं भवेद्‌भस्म चितायाश्च त्वयोदितम् ।
नित्यमस्याङ्‌गगं देवैः शिरोभिर्द्धार्यते कथम् ॥ २१ ॥
यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ।
निर्गुणः शिवसञ्ज्ञश्च स विज्ञेयः कथं भवेत् ॥ २२ ॥
अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।
तत्कथं हि विजानन्ति त्वादृशास्तद्‌बहिर्मुखाः ॥ २३ ॥
दुराचाराश्च पापाश्च देवेभ्यस्ते विनिर्गताः ।
तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ॥ २४ ॥
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।
आजन्मसञ्चितं पुण्यं भस्मीभवति तस्य तत् ॥ २५ ॥
त्वया निन्दा कृता याऽत्र हरस्यामिततेजसः ।
त्वत्पूजा च कृता यन्मे तस्मात्पापं भजाम्यहम् ॥ २६ ॥
शिवविद्वेषिणं दृष्ट्‍वा सचेलं स्नानमाचरेत् ।
शिवविद्वेषिणं दृष्ट्‍वा प्रायश्चितं समाचरेत् ॥ २७ ॥
रे रे दुष्ट त्वया चोक्तमहं जानामि शंकरम् ।
निश्चयेन न विज्ञातः शिव एव सनातनः ॥ २८ ॥
यथा तथा भवेद्‌रुद्रो यथा वा बहुरूपवान् ।
ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ॥ २९ ॥
विष्णुर्ब्रह्मापि न समस्तस्य क्वापि महात्मनः ।
कुतोऽन्ये निर्जराद्याश्च कालाधीनाः सदैव ते ॥ ३० ॥
इति बुध्या समालोक्य स्वया सत्या सुतत्त्वतः ।
शिवार्थं वनमागत्य करोमि विपुलं तपः ॥ ३१ ॥
स एव परमेशानः सर्वेशो भक्तवत्सलः ।
सम्प्राप्तुं मेऽभिलाषो हि दीनानुग्रहकारकम् ॥ ३२ ॥
ब्रह्मोवाच -
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ।
विरराम शिवं दध्यौ निर्विकारेण चेतसा ॥ ३३ ॥
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।
पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ॥ ३४ ॥
उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।
शिव सक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी ॥ ३५ ॥
गिरिजोवाच -
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।
पुनर्वक्तुमनाश्चैव शिवनिन्दां करिष्यति ॥ ३६ ॥
न केवलं भवेत्पापं निन्दां कर्तुः शिवस्य हि ।
यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह ॥ ३७ ॥
शिवनिन्दाकरो वध्यः सर्वथा शिवकिङ्‌करैः ।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ॥ ३८ ॥
अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।
ब्राह्मणत्वादवध्यश्चैत्त्याज्योऽदृश्यश्च सर्वथा ॥ ३९ ॥
हित्वैतत्स्थलमद्येव यास्यामोऽन्यत्र मा चिरम् ।
अथ सम्भाषणं न स्यादनेनाविदुषा पुनः ॥ ४० ॥
ब्रह्मोवाच -
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ।
असौ तावच्छिवः साक्षादालम्बे प्रियया स्वयम् ॥ ४१ ॥
कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ॥ ४२ ॥
शिव उवाच
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ।
प्रसन्नोऽस्मि वरं ब्रूहि नादेयं विद्यते तव ॥ ४३ ॥
अद्यप्रभृति ते दासस्तपोभिः क्रीत एव ते ।
क्रीतोऽस्मि तव सौन्दर्यात्क्षणमेकं युगाय ते ॥ ४४ ॥
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।
गिरिजे त्वं हि सद्‌बुध्या विचारय महेश्वरि ॥ ४५ ॥
मया परीक्षितासि त्वं बहुधा दृढमानसे ।
तत्क्षमस्वापराधं मे लोकलीलानुसारिणः ॥ ४६ ॥
न त्वादृशीं प्रणयिनीं पश्यामि च त्रिलोकके ।
सर्वथाहं तवाधीनः स्वकामः पूर्यतां शिवे ॥ ४७ ॥
एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ।
त्वया साकं द्रुतं यास्ये स्वगृहं पर्वत्तोत्तमम् ॥ ४८ ॥
ब्रह्मोवाच -
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ।
तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ॥ ४९ ॥
सर्वः श्रमो विनष्टोभूत्सत्यास्तु मुनिसत्तम ।
फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे पार्वत्याः शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः २८



श्रीगौरीशंकरार्पणमस्तु


GO TOP