॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

त्रयोदशोऽध्यायः

शिवपार्वतीसंवादः


भवान्युवाच
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना ।
तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद ॥ १ ॥
तपश्शक्त्यान्वितःशम्भो करोषि विपुलं तपः ।
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २ ॥
सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ।
तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३ ॥
कस्त्वं का प्रकृतिःसूक्ष्मा भगवंस्तद्विमृश्यताम् ।
विना प्रकृत्या च कथं लिङ्‌गरूपी महेश्वरः ॥ ४ ॥
अर्चनीयोऽसि वन्द्योऽसि ध्येयोऽसि प्राणिनां सदा ।
प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५ ॥
ब्रह्मोवाच
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ।
सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६ ॥
महेश्वर उवाच
तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ।
प्रकृत्या रहितः शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७ ॥
तस्माच्च प्रकृतेःसद्‌भिर्न कार्यःसङ्‌ग्रहः क्वचित् ।
स्थातव्यं निर्विकारैश्च लोकाचारविवर्जितैः ॥ ८ ॥
ब्रह्मोवाच
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ।
सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९ ॥
काल्युवाच
यदुक्तं भवता योगिन्वचनं शंकर प्रभो ।
सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ १ ० ॥
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ।
प्रकृत्या सर्वमेतच्च बद्धमस्ति निरन्तरम् ॥ ११ ॥
तस्मात्त्वया न वक्तव्यं न कार्यं किञ्चिदेव हि ।
वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२ ॥
यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ।
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३ ॥
प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ।
त्वया शम्भोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४ ॥
प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ।
निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५ ॥
वाग्वादेन च किं कार्यं मम योगिंस्त्वया सह ।
प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६ ॥
इन्द्रियाणां गोचरत्वं यावद्‌भवति देहिनाम् ।
तावत्सर्वं विमन्तव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७ ॥
किं बहूक्तेन योगीश शृणु मद्वचनं परम् ।
सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८ ॥
मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ।
मां विना त्वं निरीहोऽसि न किञ्चित्कर्तुमर्हसि ॥ १९ ॥
पराधीनःसदा त्वं हि नानाकर्मकरो वशी ।
निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ २० ॥
प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ।
तर्हि त्वया न भेतव्यं समीपे मम शंकर ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्याः साङ्‌ख्यशास्त्रोदितं शिवः ।
वेदान्तमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२ ॥
श्रीशिव उवाच
इत्येवं त्वं यदि ब्रूषे गिरिजे साङ्‌ख्यधारिणी ।
प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३ ॥
यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ।
वेदान्तवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४ ॥
ब्रह्मोवाच
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ।
भक्तानुरञ्जनकरो भक्तानुग्रहकारकः ॥ २५ ॥
शिव उवाच
अत्रैव सोऽहं तपसा परेण
     गिरे तव प्रस्थवरेऽतिरम्ये ।
चरामि भूमौ परमार्थभाव-
     स्वरूपमानन्दमयं सुलोचयन् ॥ २६ ॥
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ।
अनुज्ञया विना किञ्चित्तपः कर्तुं न शक्यते ॥ २७ ॥
ब्रह्मोवाच
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ।
प्रणम्य हिमवाञ्छम्भुमिदं वचनमब्रवीत् ॥ २८ ॥
हिमवानुवाच
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ।
किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥ २९ ॥
ब्रह्मोवाच
एवमुक्तो हिमवता शंकरो लोकशंकरः ।
विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥ ३० ॥
शंकरेणाभ्यनुज्ञातःस्वगृहं हिमवान्ययौ ।
सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥ ३१ ॥
पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ।
जगाम शंकराभ्याशं सेवायै भक्तितत्परा ॥ ३२ ॥
निषिषेध न तां कोऽपि गणो नन्दीश्वरादिकः ।
महेशशासनात्तात तच्छासनकरः शुचिः ॥ ३३ ॥
साङ्‌ख्यवेदान्तमतयः शिवयोः शिवदः सदा ।
संवादः सुखकृच्चोक्तोऽभिन्नयोः सुविचारतः ॥ ३४ ॥
गिरिराजस्य वचनात्तनयां तस्य शंकरः ।
पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥ ३५ ॥
उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ।
नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥ ३६ ॥
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ।
निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥ ३७ ॥
इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम् ।
विघ्नवन्त्यपि सम्प्राप्य यद्‌विघ्नैर्न विहन्यते ॥ ३८ ॥
ततः स्वपुरमायातो गिरिराट् परिचारकैः ।
मुमोदातीव मनसि सप्रियः स मुनीश्वर ॥ ३९ ॥
हरश्च ध्यानयोगेन परमात्मानमादरात् ।
निर्विघ्नेन स्वमनसा त्वासीच्चिन्तयितुं स्थितः ॥ ४० ॥
काली सखीभ्यां सहिता प्रत्यहं चन्द्रशेखरम् ।
सेवमाना महादेवं गमनागमने स्थिता ॥ ४१ ॥
प्रक्षाल्य चरणौ शम्भोः पपौ तच्चरणोदकम् ।
वह्निशौचेन वस्त्रेण चक्रे तद्‌गात्रमार्जनम् ॥ ४२ ॥
षोडशेनोपचारेण सम्पूज्य विधिवद्धरम् ।
पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥ ४३ ॥
एवं संसेवमानायां शंकरं ध्यानतत्परम् ।
व्यतीयाय महान्कालश्शिवाया मुनिसत्तम ॥ ४४ ॥
कदाचित्सहिता काली सखीभ्यां शंकराश्रमे ।
वितेने सुन्दरं गानं सुतालं स्मरवर्द्धनम् ॥ ४५ ॥
कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ।
सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥ ४६ ॥
कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम् ।
वीक्षन्ती विस्मयामास सकामा चन्द्रशेखरम् ॥ ४७ ॥
ततस्तप्तेन भूतेशस्तां निःसङ्‌गां परिस्थिताम् ।
सोऽचिन्तयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥ ४८ ॥
नाग्रहीद्‌गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ।
महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥ ४९ ॥
महादेवः पुनर्दृष्ट्‍वा तथा तां संयतेद्रियाम् ।
स्वसेवने रतां नित्यं सदयःसमचिन्तयत् ॥ ५० ॥
यदैवैषा तपश्चर्याव्रतं काली करिष्यति ।
तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥ ५१ ॥
ब्रह्मोवाच
इति सञ्चिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ।
महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥ ५२ ॥
ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ।
हृदि नासीन्मुने काचिदन्या चिन्ता व्यवस्थिता ॥ ५३ ॥
काली त्वनुदिनं शम्भुं सद्‌भक्त्या समसेवत ।
विचिन्तयन्ती सततं तस्य रूपं महात्मनः ॥ ५४ ॥
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थिताम् ।
विस्मृत्य पूर्वचिन्तां तां पश्यन्नपि न पश्यति ॥ ५५ ॥
एतस्मिन्नन्तरे देवाः शक्राद्या मुनयश्च ते ।
ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥ ५६ ॥
तेन कारयितुं योगं काल्या रुद्रेण कामतः ।
महावीर्येणासुरेण तारकेण प्रपीडिताः ॥ ५७ ॥
गत्वा तत्र स्मरः सर्वमुपायमकरोन्निजम् ।
चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥ ५८ ॥
पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ।
ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥ ५९ ॥
बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ।
चक्रतुर्देवकार्यं हि परोपकरणे रतौ ॥ ६० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP