॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकादशोऽध्यायः

शिवहिमवत्समागमः


ब्रह्मोवाच
वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ।
अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १ ॥
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।
कृत्वा तमद्‌भुतामन्तर्मुमोदातीव नारद ॥ २ ॥
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः ।
समाधातुं मनःसम्यक्‌तपः कर्त्तुं समैच्छत ॥ ३ ॥
कांश्चिद्‌गणवराञ्छान्तान्नन्द्यादीनवगृह्य च ।
गङ्‌गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४ ॥
यत्र गङ्‌गा निपतिता पुरा ब्रह्मपुरात्‌स्रुता ।
सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५ ॥
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।
एकाग्रं चिन्तयामास स्वमात्मानमतन्द्रितः ॥ ६ ॥
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।
जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७ ॥
हरे ध्यानपरे तस्मिन्प्रमथा ध्यानतत्पराः ।
अभवन्केचिदपरे नन्दिभृङ्‌ग्यादयो गणाः ॥ ६ ॥
सेवां चक्रुस्तदा केचिद्‌गणाः शम्भोः परात्मनः ।
नैवाकूजंस्तु मौना हि द्वारपाः केचनाभवन् ॥ ९ ॥
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ।
शङ्करस्यौषधिप्रस्थे श्रुत्वागमनमादरात् ॥ १० ॥
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।
समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ ११ ॥
हिमालय उवाच
देवदेव महादेव कपर्दिच्छङ्‌कर प्रभो ।
त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२ ॥
नमस्ते देवदेवेश योगिरूपधराय च ।
निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३ ॥
कैलासवासिने शम्भो सर्वलोकाटनाय च ।
नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४ ॥
परिपूर्णगुणाधानविकाररहिताय ते ।
नमोऽनीहाय वीहाय धीराय परमात्मने ॥ १५ ॥
अबहिर्भोगकाराय जनवत्सलते नमः ।
त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने ॥ १६ ॥
विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे ।
विष्णुब्रह्मैकदात्रे ते भक्तप्रिय नमोऽस्तु ते ॥ १७ ॥
तपोरत तपस्थान सुतपः फलदायिने ।
तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ॥ १८ ॥
व्यवहारकरायैव लोकाचारकराय ते ।
सगुणाय परेशाय नमोस्तु परमात्मने ॥ १९ ॥
लीला तव महेशानावेद्या साधुसुखप्रदा ।
भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ॥ २० ॥
मम भाग्योदयात्तत्र त्वमागत इह प्रभो ।
सनाथ कृतवान्मां त्वं वर्णितो दीनवत्सलः ॥ २१ ॥
अद्य मे सफलं जन्म सफलं जीवनं मम ।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ २२ ॥
ज्ञात्वा मां दासमव्यग्रमाज्ञां देहि महेश्वर ।
त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ॥ २३ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ।
किञ्चिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ॥ २४ ॥
सगणं तं तथा दृष्ट्‍वा गिरिराजं वृषध्वजः ।
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ २५ ॥
महेश्वर उवाच
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।
यथा न कोऽपि निकटं समायातु तथा कुरु ॥ २६ ॥
त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ।
देवानां राक्षसानां च परेषां च महात्मनाम् ॥ २७ ॥
सदा वासो द्विजादीनां गङ्‌गापूतश्च नित्यदा ।
परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ॥ २८ ॥
अहं तपश्चराम्यत्र गङ्‌गावतरणे स्थले ।
आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ॥ २९ ॥
निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ।
सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ॥ ३० ॥
ममेदमेव परमं सेवनं पर्वतोत्तम ।
स्वगृहं गच्छ सत्प्रीत्या तत्सम्पादय यत्नतः ॥ ३१ ॥
ब्रह्मोवाच
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ।
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ ३२ ॥
हिमालय उवाच
पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ।
स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम् ॥ ३३ ॥
महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ।
न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ॥ ३४ ॥
मत्तोऽप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् ।
भवानिति च मत्पृष्ठे तपसे समुपस्थितः ॥ ३५ ॥
देवेन्द्रादधिकं मन्ये स्वात्मानं परमेश्वर ।
सगणेन त्वयाऽगत्य कृतोऽनुग्रहभागहम् ॥ ३६ ॥
निर्विघ्नं कुरु देवेश स्वतन्त्रः परमं तपः ।
करिष्येऽहं तथा सेवां दासोऽहं ते सदा प्रभो ॥ ३७ ॥
ब्रह्मोवाच
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः ।
वृत्तान्त्तं तं समाचख्यौ प्रियायै च समादरात् ॥ ३८ ॥
नीयमानान्परीवारान् स्वगणानपि नारद ।
समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः ॥ ३९ ॥
हिमालय उवाच
अद्य प्रभृति नो यातु कोऽपि गङ्‌गावतारणम् ।
मच्छासनेन मत्प्रस्थं सत्यमेतद्‌ब्रवीम्यहम् ॥ ४ ० ॥
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।
दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ॥ ४१ ॥
इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ।
सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ॥ ४२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP